३९

अथ एकोनचत्वारिंशं पटलम्

पार्वत्त्युवाच

भगवन् देवदेवेश दिव्यज्ञानविशारद ।
अत्याश्चर्यकरी प्रोक्ता कथा ते जीवदुर्लभा ॥ ३९-१ ॥

प्रादुर्भवन्ति देवेश सर्गेस्मिन् देवदानवाः ।
मनुष्यलौकेपि च ते सम्भवन्ति यदृच्छया ॥ ३९-२ ॥

देवाः क्षमार्जवोपेताः दयादाक्षिण्यसंयुताः ।
जितेन्द्रिया जितक्रोधा दम्भमात्सर्यवर्ज्जिताः ॥ ३९-३ ॥

अलोलुपाः सुशीलाश्च श्रद्धाभक्तिसमन्विताः ।
जिज्ञासवो [जितासवो इ० पा०] दृढाभ्यासा वेदशास्त्रार्थचिन्तकाः ॥ ३९-४ ॥

तेषापि महादेव तत्त्वमेतत्सुदुर्लभम् ।
किं पुनर्दानवांशानां परद्रोहरतात्मनाम् ॥ ३९-५ ॥

नास्तिकानां च धूर्तानां कृघ्नानां दुरात्मनाम् ।
वेदार्थदूषकानां च देहादिष्वर्थमानिनाम् ॥ ३९-६ ॥

वैडालिकानामक्षपादशापविभ्रष्टचेतसाम् ।
सौगतानाञ्च बौद्धानां दिगम्बरमतस्पृशाम् ॥ ३९-७ ॥

जैनमाघ्यमिकानां [जैन्यमाध्यमिकानामित्यपि पाठः] च चार्वाकाणां दुरात्मनाम् ।
वेदशास्त्रोज्झितानां च न मुक्ति क्वापि विश्रुता ॥ ३९-८ ॥

यस्त्वया वासनासर्गस्तृतीयः परिकीर्त्तितः ।
यदर्थमुपदेशोऽयं तत्वज्ञानस्य धूर्जटे ॥ ३९-९ ॥

अह तु श्रवणादेव कृतार्थास्मीति मे मतिः ।
प्राप्तिः सम्बन्धविषया नान्यथा तु कदाचन ॥ ३९-१० ॥

तस्मान्मे श्रवणानन्दो रोचतेतितरां प्रभो ।
अप्राप्यः श्रवणानन्दः पापग्रस्तैर्दुरात्मभिः ॥ ३९-११ ॥

तस्मात् संश्रोतुमिच्छामि प्रवक्तुं यदि मन्यसे ।
न त्वया सदृशः कश्चित्करुणामृतवारिधिः ॥ ३९-१२ ॥

यत्त्वयोक्तं महादेव सर्वास्ताः कृष्णयोषितः ।
प्रहर्षं परमं जग्मुर्विषण्णां स्वामिनीं विना ॥ ३९-१३ ॥

तत्र मे संशयो जातो देवदेव जगत्पते ।
स्वामिनीखेदमूलं मे कथयस्व यथातथम् ॥ ३९-१४ ॥

शिव उवाच

शृणु देवि प्रवक्ष्यामि स्वामिनीखेदकारणम् ।
नेत्रबन्धात्मिका लीला नीलाद्रिशिखरे कृता ॥ ३९-१५ ॥

तत्रेन्दिरानाम हित्वा सुन्दरीत्यवदत्प्रियः ।
तदेन्दिरावदद्वाक्यं सुन्दरी न भवाम्यहम् ॥ ३९-१६ ॥

नाम्नाहमिन्दिरा साक्षात्प्रियास्मि प्राणनायक ।
तदा कृष्णोवदद्वाक्यं शृण्वतीनां च योषिताम् ॥ ३९-१७ ॥

त्वयीन्दिरे सुन्दरीति भ्रमः सार्वदिको मम ।
ज्ञात्वापि त्वामिन्दिरेति क्षणादेव भ्रमद्धिया ।
जल्पितं सुन्दरीत्येतन्मयोक्तमवधार्यताम् ॥ ३९-१८ ॥

इत्येतद्वचनं श्रुत्वा सुन्दरीगौरवात्मकम् ।
किञ्चित्कलुषचित्ताभूत् सखीमण्डलमध्यतः ॥ ३९-१९ ॥

सर्वास्वेतासु घटते समः स्नेहः प्रियस्य हि ।
सुन्दर्यामधिकं प्रेम हेतुना केन युज्यते ॥ ३९-२० ॥

सखीनां चापि सर्वासामहमेका वराङ्गना ।
मत्तः किमधिका जाता सौन्दर्यादिगुणादिभिः ॥ ३९-२१ ॥

स्वामिनीत्थं विमृष्य स्वे हृदये प्रेमपूरिते ।
तस्थौ समाहितमतिर्गूहयामास हृद्गतम् ॥ ३९-२२ ॥

ततो नीलाद्रिशिखरादागत्य मणिसद्मनि ।
प्रियाभिर्वेष्टितस्तत्र संस्थितः पुरुषोत्तमः ॥ ३९-२३ ॥

तत्र प्रियाभिः सम्प्रश्ने कृते दर्पणमादिशत् ।
आदाय दर्पणं सख्यस्तर्कयन्त्यो मुदं ययुः ॥ ३९-२४ ॥

स्वबुध्या सुन्दरी चापि सखीचित्तं समादधे ।
तत्समाहितमाकर्ण्य प्रसन्नः पुरुषोत्तमः ॥ ३९-२५ ॥

व्यक्तीकुर्वन्निजं प्रेम प्रोवाच वचनं तदा ।
अन्वर्थं साध्वी ते नाम सुन्दरीति मम प्रियम् ॥ ३९-२६ ॥

त्वं मे प्राणाधिका चासि सर्वस्वं मे त्वमेव हि ।
त्वधीनोस्म्यहं साध्वि प्रेमपाशनियन्त्रितः ॥ ३९-२७ ॥

त्वयोक्तं यन्मयोक्तं तत्त्वदृष्टं तन्मयेक्षितम् ।
यत्त्वयाङ्गीकृतं साध्वि मयाप्यङ्गीकृतं हि तत् ॥ ३९-२८ ॥

आवयोरन्तरं नास्ति यः करोति स पातकी ।
इत्यादिवचनं श्रुत्वा सुन्दरीप्रेमसूचकम् ॥ ३९-२९ ॥

उत्तम्भयन्ती भ्रूवल्लीमीषत्कलुषितेक्षणा ।
वक्रितग्रीवमवदत्स्वामिनी स्फुरिताधरा ॥ ३९-३० ॥

एषा सखीसहस्राणां सुन्दरी सुन्दरप्रिया ।
किं कार्यं विद्यतेऽस्माभिर्गुणरूपविपर्ययात् ॥ ३९-३१ ॥

सुन्दर्येव प्रियैका चेदसुन्दर्यः कथं प्रियाः ।
भवन्ति सुन्दरास्यास्य मादृश्यौ वामलोचनाः ॥ ३९-३२ ॥

एवं वक्रोक्तिमाश्राव्य सखीनां पुरतः प्रियम् ।
अगमत्सहसोत्थाय निजकेलिगृहान्तरम् ॥ ३९-३३ ॥

सम्प्रेषयामास तदा कृष्णः कमललोचनः ।
प्रियामाननिरासार्थं दूतीं नाम्ना कलावतीम् ॥ ३९-३४ ॥

सन्धिकार्येककुशलां स्मितपूर्वाभिभाषिणीम् ।
सदुक्तिचतुरां धीरां युक्तिवादविचक्षणाम् ॥ ३९-३५ ॥

कलावतीं ततो गत्त्वा दृष्ट्वा मानवतीं च ताम् ।
निजकेलिगहे रम्ये स्थितामेकाकिनीं रहः ॥ ३९-३६ ॥

नानामन्त्रप्रयोगैश्च विषवेगं यथा भिषक् ।
वाक्प्रयोगैरभिनवैर्मानवेगं न्यवारयत् ॥ ३९-३७ ॥

प्राणादप्यधिके साध्वि किमेतदुचितं प्रिये ।
त्वं पत्युः प्राणसदृशी पतिः प्राणसमस्तवः ॥ ३९-३८ ॥

सखीवर्गसमस्तोऽपि इन्द्रियाणीव देहिनः ।
त्वमात्मेव प्रियस्यासि क्व मानावसरस्तव ॥ ३९-३९ ॥

पूर्णानन्दे पूर्णकामे गिरः प्रियतमे सति ।
न वक्तुं पुरुषो योग्यो यथा दूर्त्ते शठे खले ॥ ३९-४० ॥

बिम्बाधरस्फुरणतो भ्रुवोरुत्तम्भनादपि ।
लौहित्याद्गल्लभित्तेश्च मानस्ते लक्ष्यते गुरुः ॥ ३९-४१ ॥

अन्तस्तापोष्णनिश्वासो दहत्यधरपल्लवम् ।
मिथ्या ग्लापयसे चाङ्गलतिकां मानवह्निना ॥ ३९-४२ ॥

दुःसहः क्षणविश्लेषः प्रियस्याननपङ्कजम् ।
अदृष्ट्वा यत्तु जीवेत तस्माच्च मरण वरम् ॥ ३९-४३ ॥

सखीनां च सहस्राणि सन्ति यद्यप्यनेकशः ।
त्वय्येव रमते चित्तं कौमुद्यामिव शीतगोः ॥ ३९-४४ ॥

मान्यो मानिनि नायकः प्रमदया वाक्यैः सुधासन्निभै-
र्वाञ्च्यः कोमलपाणिपङ्कजपुटं बध्वाभिवन्द्यः सदा ।
तद्वाक्यं प्रियमप्रियं न हृदये धार्यं सतीनामयं
स्वाचारः कथितो मथा तमनु किं त्यक्त्वा वृथा तप्यसे ॥ ३९-४५ ॥

किं मानिनि बहूक्तेन कुरु मद्वचनं यथा ।
गाढमानपरिक्लिष्टम् औदासिन्यं व्रजेत्प्रियः ॥ ३९-४६ ॥

तस्मान्मद्वचने श्रद्धां कृत्वा तन्निकटं व्रज ।
विलम्बेन तु मानोऽयं परां कोटिं गमिष्यति ॥ ३९-४७ ॥

प्रियस्त्वयि प्रयातायामकस्माज्जातकश्मलः ।
हास्यक्रीडारसावेशरहितो वर्त्ततेधुना ॥ ३९-४८ ॥

त्वामाह्वायितुमेवाहं प्रेषितास्मि प्रियेण हि ।
आज्ञापयसि चेत्कान्ते तमेवेहानयाम्यहम् ॥ ३९-४९ ॥

शिव उवाच

श्रुत्वा कलावतीवाक्यं स्वामिनी मानमन्थरा ।
मानाद्रिशिखरात् किञ्चिदुत्तीर्णा वाक्यमब्रवीत् ॥ ३९-५० ॥

स्वामिन्युवाच

कलावति प्रिये मानो न कदापि मया कृतः ।
सुन्दरीगुणमाहात्म्यश्रवणं मे विषादकृत ॥ ३९-५१ ॥

मनुते चेत्प्रियस्त्वेकां सुन्दरीं गुणगुम्फिताम् ।
कलावति तदा कार्यं किमस्माभिः प्रियस्य हि ॥ ३९-५२ ॥

इति मत्वाहमुत्थाय प्राप्तास्मि भवनं रहः ।
सुखी भवतु सुन्दर्या गुणवत्त्या गुणी प्रियः ॥ ३९-५३ ॥

कलावत्युवाच

नाग्रहः सति कर्त्तव्यस्त्वया सरलनायके ।
नायकाः सन्ति चत्वारः स्वलक्षणविलक्षिताः ॥ ३९-५४ ॥

अनुकूलो दक्षिणश्च धृष्टश्च शठ एव च ।
एकपत्नीव्रतधरः अनुकूल उदीरितः ॥ ३९-५५ ॥

अन्यस्यां बद्धचित्तोऽपि पूर्वस्यां स्नेहगौरवम् ।
न त्यजत्येव सततं स च दक्षिणनायकः ॥ ३९-५६ ॥

त्वमेका मम सर्वस्वं नान्या मे कामिनी प्रिया ।
समक्षमेवं वदति परोक्षं योऽपराधकृत [सः शठः इति शेषः] ॥ ३९-५७ ॥

ज्ञातापराधः शपथान् कुरुते गूढचेष्टितः ।
कुटिलं तं विजानीयान्नायकं शठसञ्ज्ञकम् ॥ ३९-५८ ॥

कृतदोषोऽपि निःशङ्कस्ताड्यमानो न लज्जते ।
प्रत्यक्षेष्वपि दोषेषु मिथ्यावाक् धृष्ट उच्यते ॥ ३९-५९ ॥

एवं चतुर्विधेष्वेषु नायकेषु मनस्विनि ।
अनुकूलो दक्षिणश्च कीर्त्यतेऽसौ तव प्रियः ॥ ३९-६० ॥

न शठोऽयं धृष्टोऽयं किं मुधा खिद्यसे हृदि ।
इत्युक्ते विस्मयं प्राप्ता पुनः प्राह कलावतीम् ॥ ३९-६१ ॥

इति माहेश्वरतन्त्रे उत्तरखण्डे शिवोमासम्वादे एकोनचत्वारिंशं पटलम् ॥ ३९-३९ ॥