अथ अष्टत्रिंशं पटलम्
पार्वत्युवाच
देवेश परमेशान सुरासुरनमस्कृत ।
कथेयं सुमहत्पुण्या सुधास्वादीयसंस्तुता ॥ ३८-१ ॥
तथापि देवदेवेश त्वद्वाक् पीयूषपानजा ।
तृप्तिर्न जायते सम्यक् शुश्रूषाकुलचेतसः ॥ ३८-२ ॥
कथाश्रवणजानन्दो न मुक्तावपि दृश्यते ।
कस्तं विहाय मोहेन निजायुः प्रविलापयेत् ॥ ३८-३ ॥
ते मन्दभाग्याः कुधियो दुराचारपरा हि ते ।
यैर्न लब्धा क्षणमपि कथा कर्णसुधा सती ॥ ३८-४ ॥
सार्द्धत्रिकोटितीर्थानि ऋषयो मन्त्रदेवताः ।
यत्र कृष्णकथावादस्त्रैवायान्तिनिऽस्चितम् ॥ ३८-५ ॥
तस्मादनुग्रहीतास्मि भवता करुणात्मना ।
कथां कथयता रम्यां कृष्णस्यानन्दरूपिणः ॥ ३८-६ ॥
पुनः कथय देवेश कथामानन्दकारिणीम् ।
चतुःषष्टिमहास्तम्भराजिराजितभूमिकाम् ॥ ३८-७ ॥
अधिष्ठाय प्रियेणैताः सङ्गताश्च किमाचरन् ।
तद्वदस्वमहेशान यदि तेनुग्रहो मयि ॥ ३८-८ ॥
शिव उवाच
शृणु पार्वति वक्ष्यामि यत्पृष्टोहं सुलोचने ।
यस्य श्रवणमात्रेण जायते रतिरुत्तमा ॥ ३८-९ ॥
नीलाद्रिशिखरादेत्य निजं धाम परात्परः ।
रत्नसिंहासने तस्थौ नवरत्नविभूषिते ॥ ३८-१० ॥
सिंहासनस्य परितो मण्डलाकारसंस्थितः ।
प्रफुल्लनयनाम्भोजाः पश्यन्ति स्म प्रियं मुदा ॥ ३८-११ ॥
पूर्णानन्दं पूर्णकामं तत्र काञ्चन योषितः ।
राजोपचारविधिना ह्युपतस्थुर्मुदान्विताः ॥ ३८-१२ ॥
शरच्चन्द्रप्रभागौरं मुक्तामणिविभूषितम् ।
रत्नदण्डमनोहारि मिहिला छत्रमादधौ ॥ ३८-१३ ॥
माणिक्यखचितस्वर्णदण्डचामरचालनैः ।
उपतस्थौ महाभागा चन्द्रलेखा मनस्विनी ॥ ३८-१४ ॥
सुवर्णसूत्रविद्योतच्चन्द्रकार्पितमौक्तिकम् ।
मयूरव्यजनं धृत्वा करे चित्रा परामृशत् ॥ ३८-१५ ॥
हिमांशुमण्डलप्रख्यं दर्पणं स्वर्णभूषितम् ।
रत्नचित्रं करे धृत्वा तस्थावानन्दमञ्जरी ॥ ३८-१६ ॥
सुगन्धद्रव्यसम्भिन्नास्ताम्बूलदलवीटिकाः ।
रत्नपात्रे समादाय तस्थौ मदनमेखला ॥ ३८-१७ ॥
शतयोजनसंसर्पि दिव्यचन्दनपूरितम् ।
रत्नपात्रं करे धृत्वा तस्थौ भुवनमालिनी ॥ ३८-१८ ॥
मुक्ताजटितसौवर्णभृङ्गारजलपूरितम् ।
माणिक्यनालमादाय रत्नरेखा पुरःस्थिता ॥ ३८-१९ ॥
शरच्चन्द्रांशुधवलं दशावलितमौक्तिकम् ।
हस्तवासः करेधृत्वा पुरस्तथौ विहारिणी ॥ ३८-२० ॥
स्वर्णपात्रे स्थितं दिव्यं नानास्वादुरसान्वितम् ।
आनन्दभोगमादाय माधुरी दक्षिणे स्थिता ॥ ३८-२१ ॥
लीलावचांसि यानीह प्रवक्ति पुरुषोत्तमः ।
तानि श्लाघयितुं तस्थौ सुन्दरीशानकोणगा ॥ ३८-२२ ॥
माध्वी मृदङ्गघोषेण वीणयाशावती सती ।
विद्युल्लता तथा तन्त्रीरवेणातिरसच्युता ॥ ३८-२३ ॥
वंशीवाद्येन लावण्यलहरी ललिताकृतिः ।
रागरङ्गा विनोदार्थं प्रयुक्तपरिभाषया ॥ ३८-२४ ॥
रागविद्यासु कुशला रागिणी रागविद्यया ।
उपतस्थुर्महाभागाः कृष्णं परमपूरुषम् ॥ ३८-२५ ॥
ततो नाना विधां चक्रुर्लीलां हास्यरसाधिकाम् ।
तदन्ते प्रियमाभाष्य वप्रच्छुस्ताः समुत्सुकाः ॥ ३८-२६ ॥
सख्य ऊचुः
भो नाथ पुरुषश्रेष्ठ प्रियस्त्वं च वयं प्रियाः ।
प्रियत्त्वभाजां या प्रीतिर्न चोपाधिकृता भवेत् ॥ ३८-२७ ॥
यद्युपाधिकृता प्रीतिस्तदा रूपं न सिद्ध्यति ।
तस्मात्प्रेमवतीनां नो यथावद्वक्तुमर्हसि ॥ ३८-२८ ॥
अवाग्विषयमत्युग्रहैतुकमनामयम् ।
त्वय्येवास्माकमतुलं प्रेम विद्योतते प्रिय ॥ ३८-२९ ॥
शब्दोपाधौ कथं तच्च धर्तुं शक्ता वयं स्त्रियः ।
तस्मात्तत्प्रकटीकर्तुं न समर्थाः कदाचन ॥ ३८-३० ॥
स्वयंवेद्यमिदं भाति कथं वाचां प्रचक्ष्महे ।
अस्मासु यद्भवेत्प्रेम त्वदीयं पुरुषोत्तम् ॥ ३८-३१ ॥
अधिकं वा समं न्यूनं कथं विद्मः प्रिया वयम् ।
त्वमेव वाचा तद्ब्रूहि तारतम्यविदो वयम् ॥ ३८-३२ ॥
सखीनामपि सर्वासां स्वस्वप्रेमनिरूपणे ।
विवादः शान्तिमाप्नोति त्वत्प्रेमश्रवणेन च ॥ ३८-३३ ॥
इति श्रुत्वा वचस्तासां परात्मा पुरुषोत्तमः ।
न वाग्वृत्तिव्यक्तियोग्य ज्ञात्वा प्रेमाब्रवीद्वचः ॥ ३८-३४ ॥
श्रीकृष्ण उवाच
भवतीभिर्यदुक्तं भो तत्तथैव न संशयः ।
स्वसंवेद्यमिदं [स्वयंवेद्यमिदम् इ० पा० ।] प्रेम न वाचा वक्तुर्महति ॥ ३८-३५ ॥
रम्यैर्मनोहरैर्भावैर्लक्षणीयं भवेदपि ।
प्रेम रत्यात्मकं सख्यो रतिरेव रसोस्म्यहम् ॥ ३८-३६ ॥
तस्मान्मदात्मकं प्रेम ज्ञातव्यमिह सर्वथा ।
मत्स्वरूपं तु को वेत्ति को वा वक्तुं समीहते ॥ ३८-३७ ॥
निषेधमुखतो वेदा वर्णयन्ति विशारदाः ।
कथमन्ये वराकास्तु कालावच्छेदमूर्त्तयः ॥ ३८-३८ ॥
मत्स्वरूपमिदं प्रेम न शब्दविषयं भवेत् ।
तस्मान्मयापि नो वक्तुं शक्यतेऽन्यस्य का कथा ॥ ३८-३९ ॥
एवं ताः प्रत्युदीर्याय दर्पणं स्वपुरःस्थितम् ।
आदाय ताभ्यः प्रायच्छत्सन्मुखं पुरुषोत्तमः ॥ ३८-४० ॥
प्रेमदत्ते प्रियेणास्मिन् दर्पणे योषितां तदा ।
पश्यन्तीनां मुखाब्जानि वितर्कः सुमहानभूत् ॥ ३८-४१ ॥
प्रेमप्रश्नोत्तरं वक्तुमात्मदर्शः प्रदर्शितः ।
किं सूचितमनेनेति कथं विज्ञायते हि तत् ॥ ३८-४२ ॥
स्वच्छ दर्पणवत् प्रेम स्वकीयं वक्ति किं प्रभुः ।
प्रतिबिम्बवदस्माकं बिम्बवत्स्वीयमित्युत ॥ ३८-४३ ॥
अथवा दर्पणे यद्वत् यथारूपं च दृश्यते ।
तथा भवेत्प्रेमनिभ मदीयमिति सूचितम् ॥ ३८-४४ ॥
प्रेमभेदनिरासार्थमैक्यसंसूचनाय किम् ।
रूपस्य प्रतिरूपस्य यथा तद्वद्भवेन्न किम् ॥ ३८-४५ ॥
इति संशयमग्नं स्वं सखीवर्गं परात्परः ।
भवतीनामयं तर्को मदाशयनिरूपकः ॥ ३८-४६ ॥
न मया विद्यते भेदो युष्माकं च मनागपि ।
अहं यूयं यूयमहमित्येषा मे मतिः प्रियाः ॥ ३८-४७ ॥
अभेदसूचनार्थाय दर्पणो वः पुरोधृतः ।
इति प्रहर्षजनकैर्वचोभिः समनन्दयत् ॥ ३८-४८ ॥
शिव उवाच
एवमानन्दिताः सर्वाः श्रुत्वा वाचः सुशोभनाः ।
प्रहर्षवेगविवशाः कृष्णस्य मुखपङ्कजम् ॥ ३८-४९ ॥
अङ्गुष्ठतर्जनीभ्यां गृहीत्वा चिबुकस्थलम् [गृहीतचिबुकस्थलाः इ० पा० ।] ।
चुचुम्बुः परया प्रीत्या ससीत्कारं गतत्रपाः ॥ ३८-५० ॥
आलिलिङ्गुस्तथा चान्याः प्रशसंसुस्तथापराः ।
त्वय्येतदुचितं नाथ यत्प्रियाणां प्रियङ्कराः [पियकरः इ० पा० ।] ॥ ३८-५१ ॥
इत्याहुरपराः सख्यः प्रेमनिर्भिन्नमानसाः ।
एतस्मिन्नन्तरे नाम्ना सुन्दरीति वराङ्गना ॥ ३८-५२ ॥
स्मितपूर्वमुवाचेदं वचनं प्रेमगर्विता ।
सुन्दर्युवाच
भवतीनामयं तर्को यद्यपि प्रियसम्मतः ॥ ३८-५३ ॥
तर्कशेषस्तथाप्यस्ति न प्रियेण प्रकाशितः ।
भवतीभिः स्वमत्यापि [स पत्यापि इ० पा०] स च नावगतः परम् ॥ ३८-५४ ॥
स्वीयोपरि प्रेम कीदृगिति पृष्टे प्रियेण हि ।
आत्मदर्शो दर्शितो वस्तत्र वक्ष्ये प्रियाशयम् ॥ ३८-५५ ॥
आत्मादर्शे यथा सम्यक् स्वस्वरूपं निरीक्षते ।
तदभावे स्वस्वरूपानुभवो नैव जायते ॥ ३८-५६ ॥
श्रुतिगीतमिदं तद्वत्स्वरूपं मे रसात्मकम् ।
मयानुभूयते सम्यक् प्रियापात्रसमाश्रयम् ॥ ३८-५७ ॥
अन्यथा मत्स्वरूपस्य न ममानुभवः क्वचित् ।
यथा धरागतं सूर्यो रसं पीत्वाभिवर्षति ॥ ३८-५८ ॥
तथा प्रियारसं मां च पीत्वा तद्भावपूरिताः ।
आनन्दयन्ति मामेव घनीभूतरसात्मकम् ॥ ३८-५९ ॥
दर्पणछद्मना सख्यः अयमर्थोऽपि सूचितः ।
इत्येतत्सुन्दरीवाक्यं श्रुत्वा सख्योतिविस्मिताः ॥ ३८-६० ॥
भगवानपि पूर्णात्मा तदुक्तार्थममन्यत ।
श्रीकृष्ण उवाच
अन्वर्थं साधु ते नाम सुन्दरीति मम प्रियम् ॥ ३८-६१ ॥
त्वं मे प्राणाधिका चासि सर्वस्वं मे त्वमेव हि ।
त्वदधीनोऽस्म्यहं साध्वि प्रेमपाशनियन्त्रितः ॥ ३८-६२ ॥
त्वदुक्तं यन्मयोक्तं तत् त्वद्दृष्टं तन्मयेक्षितम् ।
यत्त्वयाङ्गीकृतं साध्वि मयाप्यङ्गीकृतं हि तत् ॥ ३८-६३ ॥
आवयोरन्तरं नास्ति यः करोति स पातकी ।
इत्येवं वचनं श्रुत्वा प्रियास्ताः प्रियभाषितम् ॥ ३८-६४ ॥
प्रहर्षं परमं जग्मुर्विषण्णां स्वामिनीं विना ॥ ३८-६५ ॥
इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवपार्वतीसम्वादे अष्टत्रिंशं पटलम् ॥ ३८-३८ ॥