३७

अथ सप्तत्रिंशं पटलम्

शिव उवाच

योगिनो हि विरक्तस्य मनो ध्यानरतं भवेत् ।
सम्यक् प्रजातया स्मृत्या मनो लीलारतं तथा ॥ ३७-१ ॥

तदैवमानसी सेवा प्रसिध्यति न चान्यथा ।
तस्मादन्तर्बहिः कार्या सेवा यावत्स्मृतिर्भवेत् ॥ ३७-२ ॥

स्मृतिं विना तु देवेशि बहिः सेवां परित्यजेत् [परित्यजन् इ० पा० ।] ।
प्रत्यवायमवाप्नोति मार्गभ्रष्टो भवेदपि ॥ ३७-३ ॥

स्मृत्यवस्थैव देवेशि मानसीमूलमुच्यते ।
मानस्यां जायमानायां बाह्यसेवा निवर्त्तते ॥ ३७-४ ॥

प्रियसेवा प्रियाधर्मो यावत्सर्वेन्द्रियक्रिया ।
सर्वेन्द्रियक्रियाभावान्मानसी सा प्रवर्त्तते ॥ ३७-५ ॥

प्रेमपीयूषपाथोघौ यदा लग्नं मनो भवेत् ।
बाह्येन्द्रियाणां वृत्यभावाद्बाह्यसेवा न जायते ॥ ३७-६ ॥

प्रवर्तते मानसी सा स्मृत्यवस्थोदये सति ।
तस्मात्स्मृति प्रवक्ष्यामि शृणुष्वेकाग्रमानसा ॥ ३७-७ ॥

स्मृत्यां वै जायमानायामनुसन्धानवर्जितम् ।
मनो लीलावगाहेत घर्मतप्तो यथा गजः ॥ ३७-८ ॥

अवगाहे च मनसि ब्रह्मलीलामहानदीम् ।
लीयन्ते वृत्तयः सर्वा गेहात्मविषया अपि ॥ ३७-९ ॥

विगाढमाने मनसि प्रविष्टे
लीलामहानन्दसुधासमुद्रम् ।
नेदं न चादो न सुखं न दुःखं
जानाति तत्रैव विलग्नचित्ता ॥ ३७-१० ॥

स्मरेत् तदानन्दसुधासमुद्रमनर्गलाप्रोच्छ्वलदूर्मिमालम् ।
समन्ततोन्तःस्फुरमाणरत्नप्रभाङ्कुरोद्भासितवीचिरम्यम् ॥ ३७-११ ॥

हिरण्मयोद्भिन्नपतत्पतत्रिनकादिचक्रोत्पतनाभिरामम् ।
इतस्ततो धावदनेकपोतकुलाकुलं योजनकोटिमानम् ॥ ३७-१२ ॥

जले शयानेकसुवर्णरत्नगिरिप्रभालङ्कृतकुक्षिभागम् ।
वैदूर्यतालीवनशोभिकूलं कूजद्विहङ्गस्वनितै रसालम् ॥ ३७-१३ ॥

उद्भिन्नतालीवनजान्धकारमुन्मूलयन्तं मणिमिस्तटस्थैः ।
स्फुरद्भिरुद्योतितदिग्विभागैर्दिवाकरेन्दुद्युतितस्करैरिव ॥ ३७-१४ ॥

अलङ्कलङ्कोज्जितपूर्णचन्द्र-
विडम्बिनीभिस्तटगाभिरुच्चैः ।
अनेकचन्द्राकुलितस्य शोभां
विलज्जयन्तं नभसोऽपि शुक्तिभिः ॥ ३७-१५ ॥

द्वीपं मणीनां च तदन्तरुद्यन्मयूख-
किञ्जल्कितमादधानम् ।
अनेककोटीन्दुदिवाकरप्रधं स्मरे-
च्चिदानन्दघनं [धाम् ई० पा० ।] महेश्वरि ॥ ३७-१६ ॥

उपेतं नवखण्डैश्च नवरत्नमयैः शुभैः ।
नवभूम्यात्मकैश्चित्रैरुद्यानपरिमण्डितम् ॥ ३७-१७ ॥

कोट्यर्धयोजनायामविस्तार सुमनोहरम् ।
तिर्यगूर्ध्वायिता रेखाश्चतस्रो नवकोष्ठवत् ॥ ३७-१८ ॥

मध्यः खण्डः पद्मरागमयश्चानन्दभूमिकः ।
पुष्परागमयस्तस्य पूर्वभागे प्रतिष्ठितः ॥ ३७-१९ ॥

चिदानन्दमयीं भूमिं तत्र सञ्चिन्तयेद्धिया ।
आग्नेयां वज्रघटितास्तत्र वैराग्यभूमिका ॥ ३७-२० ॥

महामारकतं दक्षे चिन्तयेत्खण्डमुत्तमम् ।
राजते यत्र देवेशि महासन्तोषभूमिका ॥ ३७-२१ ॥

नैर्-ऋते चिन्तयेत्खण्ड यत्रास्ते प्रेमभूमिका ।
प्रवालमणिसन्नद्धं प्रकाशपरमोज्ज्वलम् ॥ ३७-२२ ॥

प्रतीच्यां नीलमणिभिर्मण्डितं भुक्तिभूमिकम् ।
इन्द्रनीलमयं देवि प्रभालिप्तनभोन्तरम् ॥ ३७-२३ ॥

वायव्ये संस्मरेत्खण्डं ज्ञानभूमिसमाश्रयम् ।
उत्तरे चिन्तयेत्खण्डं गोमेदरचितान्तरम् ॥ ३७-२४ ॥

प्रकाशभूमिका यत्र राजते सुमनोहरा ।
महामौक्तिकखण्डश्च य ईशान्येगतः प्रिये ।
तं स्मरेत्सततं यत्र राजते रतिभूमिका ॥ ३७-२५ ॥

भूमयः सप्तदेवेशि योजनानां चतुर्दश ।
लक्षाणि ते मया प्रोक्ता निबोध [लक्षाणि मितयोक्तानि इ० पा० ।] गिरिनन्दिनि ॥ ३७-२६ ॥

चिदानन्दमयी भूमिस्तावत्येव प्रकीर्तिता ।
द्वाविंशतिर्योजनानां लक्ष्याण्यानन्दभूमिका ॥ ३७-२७ ॥

नित्यं वृन्दावनं यत्र राजते कर्णिकाकृति ।
स्मरेद् ब्रह्मपुरं तत्र प्रकाशपरमोज्ज्वलम् ॥ ३७-२८ ॥

तन्मध्ये देव देवेशि मणिनैकेन निर्मितम् ।
समकालोदितानेककोटिचन्द्रार्कभास्वता ॥ ३७-२९ ॥

क्वचिन्नीलं क्वचिद्रक्तं क्वचित्कृष्णं क्वचित्सितम् ।
दशभूम्यात्मकं श्रीमत्संस्मरेन्निजमन्दिरम् ॥ ३७-३० ॥

मन्दिरं परितः पङ्क्तिः सौधानां कृष्णयोषिताम् ।
एकैकं मन्दिरं देवि ! योजनार्द्धप्रमाणतः ॥ ३७-३१ ॥

सार्द्धद्वियोजनोत्सेधं निजमन्दिरमद्भुतम् ।
प्राकारैर्दशभिर्गुप्तं महोद्यानविराजितैः ॥ ३७-३२ ॥

परिवृत्तीः स्मरेत्तस्य षट्सहस्राणि योजनाः ।
द्विसहस्रमिदं सूत्रं दक्षिणोत्तरगं भवेत् ॥ ३७-३३ ॥

पूर्वपश्चिमगं सूत्रं तथैव परिमाणतः ।
महापद्मवनं ध्यायेत् परितो निजमन्दिरम् ॥ ३७-३४ ॥

प्रकाशानन्दभूम्योस्तु सन्धौ नीलाद्रिरुत्तमः ।
योजनायुतमानेन तस्योच्छ्रायं स्मरेत्प्रिये ॥ ३७-३५ ॥

शृङ्गाणि तस्य देवेशि त्रीणि सन्त्यद्भुतानि च ।
चन्द्रगौरं चन्द्रचूडं महाचन्द्रं ततः परम् ॥ ३७-३६ ॥

चन्द्रगौरे महाशृङ्गे चन्द्रनाम्ना महासरः ।
शतयोजनविस्तारं चन्द्रसोपानमण्डितम् ॥ ३७-३७ ॥

गुञ्जद् भ्रमरझङ्कारमुखरीकृतदिङ्मुखम् ।
प्रफुल्लपङ्कजवनामोदमोहितषट्पदम् ॥ ३७-३८ ॥

मरालीयूथमध्यस्थमरालगणमण्डितम् ।
कूजितैश्चित्रपक्षाणां पक्षिणां सुमनोहरम् ॥ ३७-३९ ॥

तटस्थोद्यानशोभाभिर्नयनानन्दमन्दिरम् ।
आनन्दसुधयापूर्णं संस्मरेत्स्मृतिधारया ॥ ३७-४० ॥

कदाचित् क्रीडनं तत्र भगवान् पुरुषोत्तमः ।
सखीसहस्रसेव्याभिः स्वामिन्या सह केवलम् ॥ ३७-४१ ॥

चन्द्रचूडं पञ्चह्रदाः परमानन्दसुधामृताः ।
रत्नसोपानसाहस्रैः काञ्चनैः कृतकौतुकाः ॥ ३७-४२ ॥

सुवर्णपङ्कजवनैर्वायुनान्दोलितैर्मुहुः ।
सुवासयद्भिः सततं दिगन्तात्परिशोभिताः ॥ ३७-४३ ॥

क्रीडते तत्र भगवान् कदाचिद्योषितां गणैः ।
उद्यानराजं देवेशि महाचन्द्रेऽपि संस्मरेत् ॥ ३७-४४ ॥

पादपाः पत्रविस्तीर्णाः स्वर्णशाखासुपेशलाः ।
नीलवैदूर्यपत्राढ्यामुक्तास्तबकमालिनः ॥ ३७-४५ ॥

कदम्बाशोकपुन्नागमालतीबकुलाज्जुनैः ।
बिल्वपालैस्तमालैश्च हितालैः पारिजाजकैः ॥ ३७-४६ ॥

केतकैश्चम्पकैश्चतैः कल्पवृक्षैः सुशोभितम् ।
तन्मध्ये संस्मरेद्देवि मणिमण्डपमायतम् ।
शतस्तम्भैः स्वर्णमयैः मुक्तारत्नचितान्तरैः ॥ ३७-४७ ॥

शोभमानं चतुर्द्वारं साप्तभौमं निरामयम् ।
प्रतिद्वारं कुट्टिमाभ्यां प्रतिकुट्टिमदीर्घिकम् ॥ ३७-४८ ॥

दीर्घिकासु लसत्स्वर्णपद्मव्यग्रषडाङ्घ्रिकम् ।
कुट्टिमोपरि विस्फूर्जद्रत्नस्तम्भमनोहरम् ॥ ३७-४९ ॥

प्रवालनीलमाणिक्यमुक्तावैदूर्यगारुडैः ।
कृतस्वस्तिकविस्फूर्यन्मध्यदेशश्रियोज्ज्वलम् ॥ ३७-५० ॥

शुकैः पारावत्तैर्हंसैह् क्रूजद्भिः परिशोभितम् ।
स्वर्णवैदूर्यमुक्ताभिर्विलसत्तोरणोज्ज्वलम् ॥ ३७-५१ ॥

चतुर्दिक्षु महासौधराजिराजितमद्भुतम् ।
कदाचिदत्र भगवान् रथमास्थाय सुप्रभम् ॥ ३७-५२ ॥

सखीसहस्रैरायाति क्रीडनार्थं महेश्वरि ।
कृत्वा नादाविधां क्रीडामुद्याने सुमनोहरे ॥ ३७-५३ ॥

मण्डपं प्रविशेत्सद्यः सखीभिः सह संवतः ।
आराधन्ते ततः सर्वास्तासां याः परिचारिकाः ॥ ३७-५४ ॥

दिव्यसौधानि मणिभिर्दीप्यमानानि सर्वतः ।
वीणामृदङ्गतन्त्रीभिर्गायन्ति यश उत्सुकाः ॥ ३७-५५ ॥

तद्गीतानन्दसन्दोहनिमग्नेन्द्रियवृत्तयः ।
उद्यानराजहरिणाः हरिण्यः शुकसारसाः ॥ ३७-५६ ॥

पिकाः पारावताश्चैव मयूरा मधुभाषिणः ।
स्ववाचं मुद्रयन्त्येव यथा चित्रगताः शिवे ॥ ३७-५७ ॥

सुधारसादप्यधिकैर्वाक्यैर्हास्यरसान्वितैः ।
हासयन्ति हसन्त्यश्च प्रियं च स्वामिनीमपि ॥ ३७-५८ ॥

कदाचित्प्रार्थयामासुः स्वामिनीपक्षमाश्रिताः ।
नेत्रबन्धमयीं लीलां रन्तु कृष्णं सहस्रशः ॥ ३७-५९ ॥

पणबन्ध ततश्चक्रुर्नेत्रबन्धे कृते सति ।
यदि नाम न जानासि तदा प्रिय पराजितः ॥ ३७-६० ॥

स्ववस्त्राभरणान्यस्यै देहि चित्तमखेदयन् ।
सा प्रिया प्रिय ते रूपं करिष्यति मनोहरम् ॥ ३७-६१ ॥

त्वत्सिंहासनमारूढा कृष्णोऽहमिति वादिनी ।
भवन्तमाज्ञापयतु नृत्यतां सखि मत्पुरः ॥ ३७-६२ ॥

त्वया नृत्यं तदा कार्यमवश्यमिव चाङ्गना ।
त्वयि नृत्यति निःशङ्के गास्यामो वयमेव हि ॥ ३७-६३ ॥

यदि वा नाम जानासि प्रियापि कुरुतां तथा ।
इति ताः पणमाश्राव्य परिवव्रुः प्रियं प्रियाः ॥ ३७-६४ ॥

तदेन्दिरा सखी काचित् पश्चादागत्य सत्वरम् ।
बबन्ध नेत्रयुगलं करपद्मयुगेन च ॥ ३७-६५ ॥

नेवे गृहीतः कृष्णः प्राह त्वमसि सुन्दरी ।
तदोन्मुच्याक्षियुगलं स्मिता प्राहेन्दिरा सखी ॥ ३७-६६ ॥

किं जल्पसि मुधा नाम प्राणनाथ पराजितः ।
न चाहं सुन्दरी नाम्ना प्रिया तेऽस्मीन्दिराभिधा ॥ ३७-६७ ॥

तस्माल्लज्जां परित्यज्य पणबन्धं विचारय ।

श्रीकृष्ण उवाच

नाहं पराजितः साक्षादज्ञातेति न मुह्यताम् ॥ ३७-६८ ॥

त्वयीन्दिरे सुन्दरीति भ्रमः सार्वदिको मम ।
सुन्दर्यां मत्प्रियायां च स्फुरत्येवेन्दिराभ्रमः ॥ ३७-६९ ॥

नाण्वप्यन्तरं वापि नामतो रूपतोऽपि च ।
ज्ञात्वापि त्वामिन्दिरेति क्षणादेव भ्रमद्धिया ।
जल्पितं सुन्दरीत्येतन्मयोक्तमवधार्यताम् ॥ ३७-७० ॥

प्रियस्य वचनं श्रुत्वा पुनः प्राहेन्दिरा वचः ।

इन्दिरोवाच

अहो नाथ महत्येषा वञ्चना चातुरी तव ॥ ३७-७१ ॥

ज्ञात्वापि मामिन्दिरेति सुन्दरीति मुखोद्गतम् ।
कथ श्रद्दधां हे नाथ वेदार्थमिव नास्तिकाः ॥ ३७-७२ ॥

स्त्रीषु हास्येषु धूर्त्तेषु प्राणबाधाभयेषु च ।
संवदत्यनृता वाणीत्येतज्जानाति भो भवान् ॥ ३७-७३ ॥

मुखोद्गते हि विश्वासो नास्माकं हृदयस्थिते ।
नास्तिकस्येव प्रत्यक्षे प्रमाणे न तु शाब्दिके ॥ ३७-७४ ॥

तस्मात्त्वं स्वीयवचनं यदि सत्येन युञ्जसि ।
देहि लज्जां विहायाशु वासांस्याभरणानि च ॥ ३७-७५ ॥

नो चेत्स्वतन्त्रः किं कुर्मः प्रभुस्त्वमस्वतन्त्रकाः ।
पणलोपभयाद् भूयः का प्रतीतिस्तवेति हि ॥ ३७-७६ ॥

तस्मादर्थमनर्थं च स्वकीयहृदये पुनः ।
विनिश्चित्य यथा न्यायं यदिच्छसि तथा कुरु ॥ ३७-७७ ॥

श्रुत्वेन्दिरावाक्यमतिप्रगल्भं चातुर्ययुक्त च सखीसमाजे ।
स्मित्वा स्वभूषावसनानि सद्यः स्वयं समुत्तार्य ददावथास्यै ॥ ३७-७८ ॥

महानीलं ददौ वासः कटिवस्त्रं सुवर्णभम् ।
उष्णीषं चैव कौसुम्भ मुक्ताभूषितकुण्डले ॥ ३७-७९ ॥

स्फुरत्कोटीन्दुविलसदुष्णीषमणिमुत्तमम् ।
दिव्यमुक्ताफलानद्धग्रीवाभरणमुज्ज्वलम् ॥ ३७-८० ॥

नवरत्नमयीमालां विचित्रकिरणोज्ज्वलाम् ।
किर्मीरितमिवात्युच्चैः प्रकुर्वन्तीं हृदाम्बुजम् ॥ ३७-८१ ॥

माणिक्यमुक्तामणिभिर्जटितं वलयद्वयम् ।
नखसुक्तिं महारम्यां स्वर्णपद्मविभूषिताम् ॥ ३७-८२ ॥

केयूरयुगलं चारु चिन्तारत्नचितान्तरम् ।
मध्योल्लसत्पद्मरागं चतुष्कं चातिसुन्दरम् ॥ ३७-८३ ॥

उन्मत्तानङ्गमातङ्गगलघण्टाविडम्बिनीम् ।
नीलहीरादिमणिभिः स्फुरद्भिः परितो वृत्ताम् ।
क्षुद्रघण्टाक्वणत्कारैः स्वर्णकाञ्चीमनूपमाम् ॥ ३७-८४ ॥

ऊर्मिकाः प्रस्फुरद्रत्नप्रभापटलमध्यगाः ।
अङ्गुलीछद्मलावण्यधाराशङ्कां वितन्वतीः ॥ ३७-८५ ॥

पादयोः कटके दिव्ये सुवृत्तेः मणिभूषिते ।
ददौ महामनाः कृष्णो यदन्यद्भूषणादिकम् ॥ ३७-८६ ॥

ततश्च रचयामास वेषं तस्या मनोहरम् ।
उष्णीवं मूर्ध्नि रचितं कर्णयौः कुण्डलद्वयम् ॥ ३७-८७ ॥

कण्ठे मालां दधौ रम्यां नवरत्नविराजिताम् [विभूषिताम् इत्यपि पाठः ।] ।
वलये कल्पयायास मणिबन्धद्वये तथा ॥ ३७-८८ ॥

केयूरयुगल बाहोश्चतुष्कं हृदयाम्बुजे ।
कट्यां प्रकल्पयामास स्वर्णकाञ्ची मनोहराम् ॥ ३७-८९ ॥

अङ्गुलीयान्यङ्गुलिषु तदङ्गे कल्पयद्धरिः ।
ददौ वेत्रं महादिव्यं खचितं मणिमौक्तिकैः ॥ ३७-९० ॥

रत्नसिंहासने स्थाप्य तां सखीमिन्दिराभिधाम् ।
ननर्त कृष्णो रुचिरान् भावानाविश्चकार ह ॥ ३७-९१ ॥

वनितारूपमास्थाय मोहयन्निव मायया ।
प्रिये नृत्यति सोत्साहं जगुः काश्चन योषितः ॥ ३७-९२ ॥

मृदङ्गमहनत् माध्वी यौवनोद्वेलगर्विता ।
वीणामासावती विद्युल्लता तन्त्रीमवादयत् ॥ ३७-९३ ॥

लावण्यलहरी साक्षाद्वंशीवादनतत्परा ।
सुप्रभा निस्तुला चोभे अभृतां तालधारिके ॥ ३७-९४ ॥

काश्चिन्मुखध्वनिं चक्रुस्तालीवादनतत्पराः ।
काश्चिज्जयजजयेत्युच्चैरूचर्हास्यरसाकुलाः ॥ ३७-९५ ॥

सुमुखीललिताद्यास्तु साधु साध्विति चाब्रुवन् ।
अन्याः कुतूहलामग्नाः कृष्णस्य मुखपङ्कजम् ॥ ३७-९६ ॥

पपुर्लावण्यमधुरं भ्रमन्ननषट्दम् ।
ततो लीलावसाने तु कृष्णरूपधरा सखी ।
सिंहासनात्समुत्थाय रचिताञ्जलिराययौ ॥ ३७-९७ ॥

पपात पादयोर्भर्त्तुः प्रिय उत्थाप्य तां सखीम् ।
आलिलिङ्ग चिरं प्रेम्णा चुचुम्बाननपङ्कजम् ॥ ३७-९८ ॥

कृष्णं विभूषयामास पुनस्तैर्भूषणाम्बरैः ।
रथारूढा ययुः सर्वाः प्रियेण निजमन्दिरम् ॥ ३७-९९ ॥

चतुःषष्टिमहास्तम्भराजराजितभूमिकाम् ।
प्राप्यसिंहासनगतं परिवव्रुः प्रियं प्रियाः ॥ ३७-१०० ॥

इति श्रीमाहेश्वरतन्त्रे शिवोमासम्वादे सप्तत्रिंशं पटलम् ॥ ३७-३७ ॥