अथ षट्त्रिंशं पटलम्
शिव उवाच
स्वस्वमोहेन सख्यस्ता नीताः स्वप्नं परात्मनः ।
तस्मात् [तासा इ० पा० ।] स्थूलशरीराणि भौतिकानि महेश्वरि ॥ ३६-१ ॥
सामान्यतो विदुस्तासां सूक्ष्मदेहस्तथाविधाः ।
कारणात्मा भवेन्मोहो वासनासु पृथक् पृथक् ॥ ३६-२ ॥
वासना तदवच्छना जीवभावमिवागता ।
इच्छाशक्तिप्रयुक्तत्त्वात्स मोहोऽपि रसात्मकः ॥ ३६-३ ॥
न वासनायाः संसारो न मोहस्य तथात्मनः ।
अहं लिङ्गस्य देवेशि संसारम् उपयुज्यते ॥ ३६-४ ॥
यतो नारायणोद्भूतो मायिकः परिकीर्त्तितः ।
इच्छानन्दांशसम्भूतः सखीमोहस्तु केवलम् ॥ ३६-५ ॥
तस्मादहङ्कृतेरेषः संसारोऽन्यस्य न क्वचित् ।
कर्तृत्वं चैव भोक्तृत्वमहङ्कारस्य विद्यते ॥ ३६-६ ॥
प्रतीयते वासनायां मोहस्तत्र प्रयोजकः ।
स्थूलदेहाभिमानेन अहङ्कारो विजृम्भते ॥ ३६-७ ॥
सर्वेन्द्रियचरो भूत्वा सर्वकर्मप्रसाधकः ।
बध्यते तत्फलैश्चैवं प्रति जन्म विचित्रधा ॥ ३६-८ ॥
स अध्यस्तौ वासनासु वासना तद्गता भवेत् ।
तादात्म्यभावमापन्ने वासनाहङ्कृतिस्तथा ॥ ३६-९ ॥
शृङ्गाररसरूपाणां सखीनां वासनास्तु याः ।
तासामानन्दरूपं च अहङ्कारेण मिश्रितम् ॥ ३६-१० ॥
प्राप्य नारायणं द्वारमक्षरे प्रतिबिम्बिते ।
अन्तरङ्गा बहिरङ्गा स्वप्ने वृत्तिद्वयं भवेत् ॥ ३६-११ ॥
प्रत्यक्वृत्तिरन्तरङ्गा बहिरङ्गा बहिर्गता ।
प्रत्यग्वृत्या तु देवेशि अहङ्काराश्रितं सुखम् ॥ ३६-१२ ॥
नारायणमुखेनैव कूटस्थे व्यक्तिमागतम् [व्यक्तिमागत इ० पा० ।] ।
यथा सहस्रकुल्याभिः पूर्यमाणं महासरः ॥ ३६-१३ ॥
प्रोत्फुल्लकमलामोदं रोचते रचिराकृति ।
वासनानां सहस्रैश्च ह्यहङ्कारविमिश्रितैः ।
पूर्णानन्दो भवेद्देवि गणितानन्द इत्यपि ॥ ३६-१४ ॥
बहिरङ्गा तु या वृत्तिरहङ्कारस्य सुन्दरि ।
बहिर्वत्पश्यति विश्वं तयेदन्तात्मकं शिवे ॥ ३६-१५ ॥
अहङ्कारो विश्वबीजं वासनासु च बिम्बितः ।
दर्शयत्यखिलं विश्वं सखीभ्यो मुकुरो यथा ॥ ३६-१६ ॥
एवं रहस्य कूटस्थो बाललीलाः सखीगणः ।
अनुभूतवन्तावन्योऽन्यं सुदुर्घटमिदं प्रिये ॥ ३६-१७ ॥
यथा कल्लोलजालेषु चन्द्रज्योत्स्ना प्रसर्पति ।
अहङ्कारविभेदेषु प्रियाणां वासना तथा ॥ ३६-१८ ॥
यथा कल्लोलजालेषु प्रशान्तेषु महेश्वरि ।
लक्ष्यते कौमुदी तस्मिन् प्रशान्ते वासना तथा ॥ ३६-१९ ॥
सद्गुरोः शरणं यायात्तदर्थमिह सुन्दरि ।
त्वं प्रियासीति कृष्णस्य पूर्णस्य परमात्मनः ॥ ३६-२० ॥
बाललीलाविलोकार्थमिह प्राप्ता न संशयः ।
प्रपञ्चसागरे मग्ना कथं तिष्ठसि निर्भया ॥ ३६-२१ ॥
पुत्राः पौत्रा धनं धान्यं देहगेहाम्बरादिकम् ।
स्वप्नलब्धमिदं सर्वं हित्वा बिम्बं निजं श्रय ॥ ३६-२२ ॥
कथं खेदयसे बिम्बं मोहमग्ना निरन्तरम् ।
प्रियाणां वासनासि त्वं न प्रियाभ्यः पृथङ्मता ॥ ३६-२३ ॥
अहङ्काराश्रितायास्ते खेदो बिम्बाश्रितो भवेत् ।
तस्मात्प्रबुध्य झटिति निज बिम्बं प्रबोधय ॥ ३६-२४ ॥
अहमध्यस्त एवायं देहस्ते पाञ्चभौतिकः ।
अहं स्त्री पुरुषः कृष्णो गौरस्तेनाभिमन्यसे ॥ ३६-२५ ॥
इदन्ताहविरादाय अहन्ता सृष्टिकल्पिता ।
स्वस्वरूपमये वह्नौ हुत्वानन्दमवाप्नुहि ॥ ३६-२६ ॥
इदन्तावैरिमत्युग्रं मूलाहन्तारणाङ्गणे ।
स्मृतिखड्गेन तीव्रेण घातयित्वा सुखी भव ॥ ३६-२७ ॥
एवं प्रबोधिता सम्यक् वासना गुरुणा यदा ।
क्रमेणोद्वेगमासाद्य वैराग्यमिव योगतः ॥ ३६-२८ ॥
त्यजत्यहङ्कृतिं सद्यो गेहे देहेन्द्रियेष्वपि ।
देहाभिमाने गलिते विज्ञाते स्वात्मनि ध्रुवम् ॥ ३६-२९ ॥
आसाद्य विरहावस्थामुद्वेगाख्यां रसात्मिकाम् ।
विप्रलम्भरसानन्दानुभवो जायते ततः ॥ ३६-३० ॥
इति माहेश्वरतन्त्रे शिवोमासम्वादे षट्त्रिंशं पटलम् ॥ ३६-३६ ॥