३५

अथ पञ्चत्रिंशं पटलम्

देव्युवाच

वैराग्यस्योदये देव ज्ञाने स्यात्साधनावधिः ।
साधनावधिस्तत्रापि य उद्वेगस्त्वयोदितः ॥ ३५-१ ॥

यथा विरक्तो देवेश न कर्मस्वधिकारवान् ।
उद्विग्नोऽपि तथा देव न कर्माधिकृतो भवेत् ॥ ३५-२ ॥

मतिर्न देहविषया तत्र हेतुस्त्वयोदितः ।
अत्र मे खिद्यते चेतो न सम्यगवधारणम् ॥ ३५-३ ॥

भौतिको विषमो देहो वासना ब्रह्मकेवलम् ।
कस्य युज्येत संसारः कोऽत्र कर्माधिकारवान् ॥ ३५-४ ॥

कर्मणि क्रियमाणे हि कोऽत्र भोक्ता फलस्य तु ।
अनित्यस्य जडस्यापि कथं देहस्य तद्भवेत् ॥ ३५-५ ॥

कर्मणामिह भोक्त्री चेद्वासना यदि शङ्कर ।
कृतनाशः प्रसज्येत ह्यकृताभ्यागमस्तथा ॥ ३५-६ ॥

अन्येन क्रियमाणे हि कथमन्येन भुज्यते ।
वासनायाश्च देहादेस्तारतम्यं वद प्रभो ॥ ३५-७ ॥

शिव उवाच

शृणु वक्ष्यामि देवेशि तव प्रश्नमनुत्तमम् ।
देहात्मधीर्विनश्यते यस्य श्रवणमात्रतः ॥ ३५-८ ॥

ज्ञानमार्गे तु देवेशि वैराग्यं साधनावधिः ।
नानाजन्मान्तराभ्यासरागरञ्जितचेतसाम् ॥ ३५-९ ॥

जीवानां विषयेष्वैव बहिर्धावति वै मनः ।
सुखं स्यादिष्टविषये ह्यनिष्टे दुःखवद्भवेत् ॥ ३५-१० ॥

सुखदुःखादिकं सर्वमहङ्कारोभिमन्यते ।
अहङ्कारगतं सर्वं चिदाभ्यासे प्रतीयते ॥ ३५-११ ॥

जलचन्द्रे यथा तस्य कम्पादिर्दृश्यते गुणः ।
प्रतीतिमात्रमेवैतत् तथापि न निवर्त्तते ॥ ३५-१२ ॥

तत्प्रतीति निराकर्त्तुं प्रकारं वच्मि ते शिवे ।
अनेकजन्मसंसिद्धसाधनानां बलेन च ॥ ३५-१३ ॥

शुद्धचित्तस्य देवेशि वैराग्यमुपसर्पति ।
रागाद्यभावाद्विषयेष्वहङ्कारो निवर्त्तते ॥ ३५-१४ ॥

न मनो धावनं कुर्याद्विषयेषु इतस्ततः ।
न गृह्णाति सुख दुःख रागद्वेषाद्यभावतः ॥ ३५-१५ ॥

कर्त्तृत्वं चैव भोक्तृत्वमहङ्कारे हि दृश्यते ।
स्थूलं वपुरधिष्ठानमहं लिङ्गस्य सुन्दरि ॥ ३५-१६ ॥

अहङ्कारगृहीतेन स्थूलदेहेन पार्वति ।
योऽन्यकर्माणि कुरुते निबध्येतापि तैरयम् ॥ ३५-१७ ॥

भोगायतनमात्रं हि स्थलो देहः प्रकीर्त्तितः ।
अहङ्कारे सचाध्यस्ते ह्यहङ्कारश्चिदात्मनि ॥ ३५-१८ ॥

स्फाटिके हि यथाऽध्यस्तो जपारागः प्रकाशते ।
चिदाभासे तथा शुद्धेध्यस्ताहन्ता तथा प्रिये ॥ ३५-१९ ॥

स चावृत्य चिदाभासं स्वयमेव प्रकाशते ।
घटाकाशमिवावृत्य जलाकाशः प्रकाशते ॥ ३५-२० ॥

सुखं दुःखं भयं क्रोधो मोहो मात्सर्यमेव च ।
धर्माधर्मौ पुण्यपापे ज्ञानमज्ञानमेव च ॥ ३५-२१ ॥

अहङ्कारगतं सर्वं चिदाभासस्य न क्वचित् ।
तथाप्येक्याध्यासवशादात्मन्येव प्रतीयते ॥ ३५-२२ ॥

विशुद्धे निर्मले देवि शोणिमेव मणौ यथा ।
तस्मादनात्मधर्माश्च जडा नित्यमशेषतः ॥ ३५-२३ ॥

विज्ञायाप्नोति वैराग्यमाविरञ्चिपदादपि ।
रागाद्यभावान्न मनो विषयानुपधावति ॥ ३५-२४ ॥

विषयानुरागरहिते निर्मले मनसि प्रिये ।
स्वात्मा प्रकाशते ध्यानाद्दर्पणे स्वमुखं यथा ॥ ३५-२५ ॥

मनस्यपि लयं याते विकारशतवेश्मनि ।
समाधिस्थो भवेद्योगी यत्र शोको न विद्यते ॥ ३५-२६ ॥

इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे पञ्चत्रिंशं पटलम् ॥ ३५-३५ ॥