अथ चतुस्त्रिंशं पटलम्
शिव उवाच
अभिलाषे समुत्पन्ने ततश्चिन्ता प्रवर्त्तते ।
प्रियो मे परमानन्दः परात्मा पुरुषोत्तमः ॥ ३४-१ ॥
अहं तु तत्प्रिया साक्षाद्वासना मोहवेष्टिता ।
बाललीलावलोकार्थं सम्प्रार्थ्य पुरुषोत्तमम् ॥ ३४-२ ॥
विमग्ना मोहजलधौ दुस्तरे तमसावृते ।
निरस्त सकलं ज्ञानं जाता मे स्वात्मविस्मृतिः ॥ ३४-३ ॥
विभ्रमामि [ब्रभ्रामामि इति पाठः ।] भ्रमाविष्टा देहाघ्यासादितस्ततः ।
इय मे जननी चायं पिता भ्राता सहोदरः ॥ ३४-४ ॥
पुत्राः पौत्राश्च सुहृदो ज्ञातयो गोत्रिणस्तथा ।
ममत्वान्मे [वृथौत्सुक्यात् इ० पा० ।] वृथा मौढ्यात् परिगृह्य [विमोहिता इ० पा० ।] विमोहितम् ॥ ३४-५ ॥
स्वप्नदृष्टेषु लोकेषु न च द्वेष्यः प्रियोऽपि वा ।
परकीयः स्वकीयो वा मोह एव हि कारणम् ॥ ३४-६ ॥
अतः परं न मे कार्यं प्रियैर्वा चाप्रियैरपि ।
एक एव प्रियः स्वामी स तु विस्मारितो मया ॥ ३४-७ ॥
तदा किमपरैः कार्यं स्वाप्निके दुःखहेतुभिः ।
तस्मात्किं साधनं कुर्यां येनाहं प्रीतिमाप्नुयाम् ॥ ३४-८ ॥
तन्न पश्यामि लोकेस्मिन् वेदवेदान्तयोरपि ।
यत्कृत्वा सुलभो भूयात्पतिः प्रियतमो मम ॥ ३४-९ ॥
न वेदैरुपदिष्टेन कर्मणा प्राप्यते पतिः ।
कर्मणां फलमुद्दिष्ट स्वर्गमात्रं विनश्वरम् ॥ ३४-१० ॥
न दानैर्वा तपस्तीर्थै कायक्लेशैः महत्तरैः ।
उपवासैर्व्रतैर्जाप्यैश्चित्तशुद्धिविधायिभिः ॥ ३४-११ ॥
कथं तैः केवलानन्दः पतिर्मे वशतामियात् ।
न ज्ञानेन भवेद्वश्यः केवलं मुक्तिकृद्धि तत् ॥ ३४-१२ ॥
वर्म तु पुरुषस्येह वैराग्यं ज्ञानगुप्तये ।
यदि ज्ञानोदयो न स्याद्वैराग्य यदि केवलम् ॥ ३४-१३ ॥
तथापि प्रकृतौ साक्षाल्लीयते च तथापि किम् ।
योगस्यापि पराकाष्ठा स्वात्मनो दर्शनावधि ॥ ३४-१४ ॥
पुराणेष्वितिहासेषु भक्तिरुद्धोषिता मृशम् ।
सापि ज्ञानाङ्गमुद्दिष्टा तया प्राप्यः कथं पतिः ॥ ३४-१५ ॥
प्रियप्राप्तेरुपायस्य कोऽपि वक्ता न विद्यते ।
किं करोमि क्व गच्छामि कस्याग्रे प्रवदाम्यहम् ॥ ३४-१६ ॥
वनभ्रान्तो यथा कश्चित् पिशाचपरिमोहितः ।
क्षुत्तृङ्भ्यां मर्दितो नक्तं दिवमस्तमिताशयः ॥ ३४-१७ ॥
दन्दशूकैर्मृगैव्याघ्रैर्वाराहैर्भीषितो भृशम् ।
तथा दंशैश्च मशकैः व्यथितः श्वापदादिभिः ॥ ३४-१८ ॥
काङ्क्षत्यप्याश्रमं गन्तु मार्गभृष्टः करोमि किम् ।
को मे प्रापयति स्थानं भ्रान्तस्यारण्यवीथिषु ॥ ३४-१९ ॥
किं करोमि क्व गच्छामि कस्याग्रे च वदाम्यहम् ।
बहुद्रुमलताकीर्णं काननं जनवर्जितम् ॥ ३४-२० ॥
इत्यादिविविधां चेष्टां कुर्वाणो व्याकुलान्तरः ।
अवतिष्ठते तथा चिन्ता जायते वाक्षनास्वपि ॥ ३४-२१ ॥
चिन्तामग्नो यथा सर्वं पश्यन्नपि न पश्यति ।
प्रियचिन्तारसे मग्ना सखीनां वासना तथा ॥ ३४-२२ ॥
चिन्तैवोद्वेगभावेन ततः परिणता भवेत् ।
उद्विग्नमनसः किञ्चित् नैव हर्षाय जायते ॥ ३४-२३ ॥
प्राणादप्यधिवल्लभस्य विरहे किन्नाम रम्यं भवेत्
येनात्मा क्षणमप्युपैति विरतिं स्वास्थ्यं समालम्बते ।
स्फुरन्मीतान्वारिष्विव करणवृत्तीः समुदिताः
समादाय क्षिप्य प्रियविरहचिन्ता विजयते ॥ ३४-२४ ॥
उद्विग्नभावाकुलितान्तराया
न रोचते भूषणमम्बरं वा ।
शय्यासनं वाप्यशनं श्रुतं वा
स्नानादिकं वा भुवनं वनं वा ॥ ३४-२५ ॥
इतः क्षणं वा च ततः क्षणं वा
गृहे क्षणं वा शयने क्षणं वा ।
बहिस्तथान्तः क्षणमात्रमेत्य
ह्युद्विग्नभावा न लभेत शर्मम् ॥ ३४-२६ ॥
यथा विरक्तो न विधिष्वधिकृतः
कृताकृते कर्मणि नैव दोषभाक् ।
उद्विग्नताया अपि विप्रलम्भे
न नित्यनैमित्तिककर्मयोगः ॥ ३४-२७ ॥
यदुद्वेगो देवि प्रियविरहजन्मा समुदितस्
तदाकृष्णस्त्रीणां किमपि नहि कार्यं निगमतः ।
तपस्तीर्थं योगो व्रतनियमकर्माणि सकलं
समाप्तं यत्तासां न हि मतिरभूद्देहविषया ॥ ३४-२८ ॥
श्रीकृष्णविरहे देवि य उद्वेगः प्रियासु च ।
अस्माकमीश्वराणाञ्च दुर्लभः किं पुनर्नृणाम् ॥ ३४-२९ ॥
इति श्रीमाहेश्वरतन्त्रे शिवोमासम्वादे चतुस्त्रिंशं पटलम् ॥ ३४-३४ ॥