अथ त्रयस्त्रिंशं पटलम्
देव्युवाच
साधूक्तं मन्त्रराजस्य पुरश्चरणमद्भुतम् ।
अतः परं वदैशान तापावस्था सुदुर्लभा ॥ ३३-१ ॥
ययानुभूतया सम्यक् रसः पूर्णोनुऽभूयते ।
तस्मादहं श्रोतुकामा भवामि भक्तवत्सल ॥ ३३-२ ॥
शिव उवाच
शृणु देवि परं गुह्यं त्वया पृष्टं वदामि ते ।
रसात्मकं रसभोक्तृं ब्रह्मेति श्रुतयो जगुः ॥ ३३-३ ॥
रसः शृङ्गार एवादौ प्रोक्तस्ते गिरिनन्दिनि ।
संयोगविप्रलम्भात्मा द्विविधः स च कीर्त्तितः ॥ ३३-४ ॥
अधुनाविप्रलम्भात्मा वर्त्तते केवलं रसः ।
कर्त्तव्योनुभवस्तस्य स एव परमं फलम् ॥ ३३-५ ॥
यावत्तापोदयो न स्याद्विप्रलम्भो न सिध्यति ।
अनुभूतिः कथं तस्य जायते वद सुव्रते ॥ ३३-६ ॥
संयोगरसमध्यस्था विप्रयुक्ता तु या प्रिये ।
तस्या एव भवेत्तापो नान्यस्य तु कदाचन ॥ ३३-७ ॥
दशावस्था भवन्त्येताः तापे विरहसम्भवे ।
तास्ते वक्ष्यामि देवेशि शृणुष्वैकाग्रमानसा ॥ ३३-८ ॥
अभिलाषस्तथा चिन्ता स्मरणं च ततः प्रिये ।
उद्वेगाधिप्रलापश्च जडतोन्माद एव च ॥ ३३-९ ॥
गुणानां कीर्तनं चैव सज्वरं मरणं स्मृतम् ।
अत्युग्रविरहे देवि अवस्था दशमी भवेत् ॥ ३३-१० ॥
राजपुत्रो यथा दैवाद्वनं वनचरैर्वसन् ।
आत्मानं वेत्ति विवशं परं वनचरं प्रिये ॥ ३३-११ ॥
प्रभुत्वशौर्यधैर्याद्याः धर्माः सर्वे तिरोहिताः ।
दीनः कृपणधीर्मन्दः पशुमांसोपजीवनः ॥ ३३-१२ ॥
आत्मापह्नवमापन्नं दृष्ट्वा कश्चित्प्रबोधयेत् ।
न वनेचरपुत्रोऽसि राजपुत्रोऽसि सर्वथा ॥ ३३-१३ ॥
किमर्थं हिंसि भो जीवान् दीनः कृपणधीः स्वयम् ।
क्व गुणाः शौर्यधैर्याद्याः प्रभुता क्वगता तव ॥ ३३-१४ ॥
त्यज प्रकृतिदौर्बल्यं श्रय भावं निजं पुनः ।
इत्याप्तवचनं श्रुत्वा जालपाशादिकं त्यजन् ॥ ३३-१५ ॥
राज्यप्राप्तिं च मनसा सङ्कल्प्याकुलचेतनः ।
उच्छून [उच्छिन्न इति मूलपाठः ।] हृदयो भूयादभिलाष कुलान्तरः ॥ ३३-१६ ॥
तथा कृष्णप्रिया देवि प्रपञ्चे मोहकल्पिते ।
वासनादेहमासाद्य तद्देहममताकुला ॥ ३३-१७ ॥
तिरोहितानन्दधर्मा दीना कृपणमन्दधीः ।
जीववत् वर्त्तमाना सा भूतद्रोहेण जीवति ॥ ३३-१८ ॥
पुरुषोत्तमानुग्रहतः सद्गुरुस्तां प्रबोधयेत् ।
न त्वं स्त्री लौकिकी चासि न पुमानसि सर्वथा ॥ ३३-१९ ॥
न च विप्रादिको वर्णः स्वात्मानं चेष्टसे मुधा ।
देहगेहममताहङ्कारमायां परित्यज ॥ ३३-२० ॥
प्रपञ्चबीजभूतायाः प्रकृतेः परतः प्रभोः ।
अक्षरादप्यतीतस्य पूर्णस्य परमात्मनः ॥ ३३-२१ ॥
प्रियासि त्वं परानन्दा परानन्दपदस्थिता ।
देहानुसन्धानपरां [प्रकारैः इ० पा० ।] मायां जहि वराङ्गने ॥ ३३-२२ ॥
सुधासिन्धौ मणिद्वीपमध्यखण्डे सुशोभने ।
कोटिसूर्यप्रतीकाशं कोटिचन्द्रसुशीतलम् ॥ ३३-२३ ॥
वेष्टितं मणिमुक्तादि [स्वस्वरूपानुसन्धानपरा मायां जहीहि हि इ० पा० ।] प्राकारैः परमाद्भुतम् ।
सखीमन्दिरसाहस्रैः परिवीत समन्ततः ॥ ३३-२४ ॥
मणिमन्दिरमत्युच्चैः पञ्चयोजनमानतः ।
आस्ते ब्रह्माण्डतो बाह्ये तत्र ते रमणं शुभम् ॥ ३३-२५ ॥
यमुनासप्ततीर्थेषु भर्त्राक्रीडां निजां स्मर ।
प्रफुल्लशतपत्रालि झङ्कारमुखरान्तरे ॥ ३३-२६ ॥
मणिमुक्तान्वितानावमारुह्य सखिभिर्वृता ।
महासरसि विद्योतन्मणिसोपानमण्डिते ॥ ३३-२७ ॥
यथा क्रीडन्तमात्मानं कथं विस्मरसे भ्रमात् ।
सहस्राश्वयुजं रम्यं शतचक्रस्फुरत्प्रभम् ॥ ३३-२८ ॥
सर्वतः किङ्किणीजालैर्मणिमुक्ताञ्चितान्तरैः ।
कुर्वद्भिः मुखरान् सर्वदिगन्तान् कूजितैर्निजैः ॥ ३३-२९ ॥
दाडिमीपुष्पसङ्काशं वरूथोपरि कल्प्यते ।
सुवर्णकलशै रम्यैर्दीप्यमानमनेकशः ॥ ३३-३० ॥
नृत्यद्भिः स्त्रीगणैः सम्यक् गायद्भिः स्वकुतूहलैः ।
हासयद्भिर्हसद्भिश्च समन्तात्परिशोभितम् ॥ ३३-३१ ॥
मुक्तावितानकौमुद्या समुद्भासितदिङ्मुखम् ।
प्रियेण रथमारुह्य वनक्रीडां स्मर स्वकाम् ॥ ३३-३२ ॥
कदाचित्पुष्परागाद्रावुद्याने सुमनोहरे ।
नानापक्षिगणाकीर्णे स्थलपङ्कजमालिनि ॥ ३३-३३ ॥
अनेककुट्टिमोत्तुङ्गमण्डपैः परितो वृते ।
दिव्यपुष्पभरामोदसुवासितदिगन्तरे ॥ ३३-३४ ॥
चन्द्रप्रभह्रदे रम्ये रम्यराजीवसङ्कुले ।
मुक्ताजटितसौवर्णायुतसोपानपङ्क्तिभिः ॥ ३३-३५ ॥
क्वचित् क्वचिच्छोभिताभिर्मण्डपैः कुट्टिमोपरि ।
चतुस्तम्भैर्महारत्नैर्मण्डितास्तोरणोज्ज्वलैः ॥ ३३-३६ ॥
पतत्पतत्रिपक्षोत्थवायुप्रचलपादपे ।
पतन्नेत्राञ्जनैर्दिव्यैः सखीयूथस्य दिव्यतः ॥ ३३-३७ ॥
चन्दनैरङ्गगलितैः कुङ्कुमैः कुचविच्युतैः ।
परागैः पद्मगलितैः कुसुमैर्वायुनाहृतैः ॥ ३३-३८ ॥
विचित्रदिव्यसलिले मणिमौक्तिकबालुके ।
जलक्रीडारसानन्दः कथं विस्मारितोऽधुना ॥ ३३-३९ ॥
महापद्मवने दिव्ये समन्ताल्लक्षयोजने ।
गन्धमाधुर्यनिपतत्षड्ङ्घ्रिपटलाकुले ॥ ३३-४० ॥
योजनोत्सेधविस्ताररत्नमण्डपमध्यगे ।
वायुहृतपरागोघैर्वितानित नभोऽन्तरे ।
अनेकपक्षिसङ्घातकोलाहलसुखास्पदे ॥ ३३-४१ ॥
स्वप्रियेण कृता या याः क्रीडाः सर्वारसाश्रयाः ।
कथं विस्मृत्य सहसा जीववत्परितप्यसे ।
कथं मायामुखे लग्ना मिथ्याभूते भ्रमात्मके ॥ ३३-४२ ॥
पङ्के कस्तूरिकाबुद्धिर्लवणे शशिविभ्रमम् ।
काचखण्डे मणिभ्रान्तिर्जलबुद्धिर्यथा मरौ ॥ ३३-४३ ॥
तथैव शर्कराबुद्धिः कर्कराश्मादिषु भ्रमात् ।
कुर्वते मन्दमतयस्तथैव हि तवेदृशी ॥ ३३-४४ ॥
शुक्तिकारजतेनैव न कश्चिद्विभवं गतः ।
न स्वप्नलब्धराज्येन राजा [विवुश्रुतः इ० पा० ।] कश्चित्सुविश्रुतः ॥ ३३-४५ ॥
मरीचिकाजल पीत्वा न कश्चित्तृप्तिमागतः ।
यदीच्छसि सुखं नित्यं जहि सर्वमिमं भ्रमम् ॥ ३३-४६ ॥
विना भ्रमनिरासेन विना च स्वात्मधारणाम् ।
विना विषयवैतृष्ण्यं विना सन्तोषमार्जवम् ॥ ३३-४७ ॥
विना वैराग्यमत्युग्र विना सद्गुरुसेवनम् ।
विना विनयमास्तिक्यं शास्त्रशिक्षां विनापि च ॥ ३३-४८ ॥
देहाध्यासो मोहकृतो न निवर्त्तेत सर्वथा ।
देहाध्यासो निवर्त्तेत निवृत्ते मोहविभ्रमे ॥ ३३-४९ ॥
बिम्बभूतस्वरूपस्य विस्मृतिर्मोह उच्यते ।
मोहस्था वासना तस्य जीववच्च प्रतीयते ॥ ३३-५० ॥
न जीवो वास्तवः कश्चित् वर्त्तते जलचन्द्रवत् ।
जलचन्द्रस्वरूप च गगनेन्दुर्यथा भवेत् ॥ ३३-५१ ॥
तथैव वासनारूप निजे धाम्नि स्थिताः प्रियाः ।
गुणः कम्पादिको यद्वत् प्रतिबिम्बे प्रतीयते ॥ ३३-५२ ॥
सुखदुःखादिमोहोत्थं वासनायां निरूपितम् ।
न ते सुख च दुःखं च मोहमात्रं विजृम्भिते ॥ ३३-५३ ॥
तस्मात्स्वरूपं विज्ञाय शास्त्राद्गुरोरपि ।
भ्रमं त्यक्त्वा निजानन्दमाप्नुहि प्रेममीलिता ॥ ३३-५४ ॥
एवं सद्गुरुणा वाक्यामृतैरासेचिता यदा ।
निर्वाप्य मोहभुजगविषज्वालां व्यथाकरीम् ॥ ३३-५५ ॥
अभिलाषवती भूयात्परानन्दपतिं प्रति ।
अभिलाषो मया प्रोक्तः शृण्ववस्या नवापराः ॥ ३३-५६ ॥
इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवपार्वती सम्वादे त्रयस्त्रिंशं पटलम् ॥ ३३-३३ ॥