अथ द्वात्रिंशं पटलम्
पार्वत्युवाच
देवेश भगवन् शम्भो भक्तवत्सल धूर्जटे ।
श्रुतोऽयं मे महामन्त्रश्चूडामणिरनुत्तमः ॥ ३२-१ ॥
यस्य विज्ञानमात्रेण स्वयं शुध्यति वासना ।
अन्येऽपि शुद्धिमायान्ति स्वयं तत्सङ्गिसङ्गतः ॥ ३२-२ ॥
मन्त्रराजमिमं देव प्राप्नुयात्कः पुमान्यदि ।
भिन्नभिन्नफलैः कर्मपाशजालैर्नियन्त्रितः ॥ ३२-३ ॥
न स्त्री न पुरुषः कश्चिद्विद्यते नामरूपतः ।
स्त्रीप्राप्यमेव तद्ब्रह्म कृष्ण आनन्दविग्रहः ॥ ३२-४ ॥
भोक्तृभोग्यस्वरूपेण रसश्चेति श्रुतेर्मतम् ।
नात्यन्तं च तयोर्भेदो भेदः स्वाभाविकः प्रभो ॥ ३२-५ ॥
आलम्बनादि विधुरो रस एव न सिद्ध्यति ।
यद्विना यन्न संसिद्ध्येत्तत्तदेव न चान्यथा ॥ ३२-६ ॥
तथापि भोक्तृभोग्याभ्यां भागाभ्यां क्रीडतेऽनिशम् ।
भोग्यभागस्तु तापात्मा भोक्तृभागोऽमृतात्मकः ॥ ३२-७ ॥
अविनाभावसम्बन्धस्तापस्य च सुखस्य च ।
भोक्तृभोग्यांशयोर्विप्रलम्भस्तापस्य सिद्धये ॥ ३२-८ ॥
कृष्णस्त्रीणां विप्रयोगे यदि तापोदयो भवेत् ।
कृतार्थता तदा जाता न निषेधविधिस्थितौ ॥ ३२-९ ॥
विप्रयोगे तु विज्ञाते हृदि तापोदयो न चेत् ।
तदा चूडामणिजपात् शीघ्रं सिद्ध्यति नान्यथा ॥ ३२-१० ॥
तस्माच्चूडामणेर्मन्त्रराजस्य च पुरस्क्रियाम् ।
वद शम्भो विशेषण यथायं जीवितो भवेत् ॥ ३२-११ ॥
त्वद्वागमृतपानेन न तृप्तिर्जायते मम ।
धन्यं मत्कर्णयुगलं ब्रह्मलीलामृतप्लुतम् ॥ ३२-१२ ॥
अद्य मे पितरौ धन्यौ ययोरासमहं सुता ।
प्रसादपात्रं भवतो वदतो ब्रह्मणो रहः ॥ ३२-१३ ॥
धिक्कुलं धिग्धनं तस्य धिग्विद्यां धिग्यशोऽमलम् ।
न यस्य ब्रह्मचिन्तासु लीनवृत्ति [लीनवति इ० पा० ।] मनो भवेत् ॥ ३२-१४ ॥
आयुर्वर्षशतं लोके तदर्द्धं निद्रया हृतम् ।
बाल्यवार्द्धकभावाभ्यां तथा रोगादिपीडनैः ॥ ३२-१५ ॥
व्यर्थयन्ति महामूढा विमुखा ब्रह्मकीर्त्तने ।
तस्मात्कथय देवेश कथां पापप्रणाशिनीम् ॥ ३२-१६ ॥
पुरस्क्रियां विधोपेतां मन्त्रराजस्य शङ्कर ।
यस्य श्रवणमात्रेण मन्त्रसिद्धिः प्रजायते ॥ ३२-१७ ॥
शिव उवाच
धन्यासि देवि गिरिन्द्रजे साधु पृष्टमिदं रहः ।
यस्य कस्यापि नो वाच्यं वाच्यं सर्वस्वदायिने ॥ ३२-१८ ॥
लब्ध्वा मन्त्रं गुरोः सम्यक् सेवया च प्रसादतः ।
जपतर्पणहोमाद्यैर्बोधयेन्मन्त्रमुत्तमम् ॥ ३२-१९ ॥
शून्यागारे गिरौ रम्ये तीर्थे चोपाधिवर्जिते ।
उद्याने सिद्धपीठे वा प्रयोगे पुष्करेऽथवा ॥ ३२-२० ॥
नर्मदायास्तटे वापि विन्ध्याद्रौ वा शुभस्थले ।
जपतो मन्त्रराजानं सिद्धिः शीघ्रं प्रजायते ॥ ३२-२१ ॥
जितेन्द्रियो जितक्रोधो जितचित्तो दृढव्रतः ।
दृढवैराग्यसम्पन्नो देहाहङ्कारवर्जितः ॥ ३२-२२ ॥
दयालुः सर्वभूतेषु भूतबाधापराङ्मुखः ।
शङ्कातङ्कादिरहितो रागद्वेषविवर्जितः ॥ ३२-२३ ॥
देहगेहादिकां चिन्तां परित्यज्य प्रशान्तधीः ।
मन्त्रध्यानपरो नित्यं लीलाध्यानरतः सदा ॥ ३२-२४ ॥
त्रिधास्त्रीसङ्ङ्गतित्यागात् ध्यानमुद्राधरोऽनिशम् ।
मौनी त्रिषवणास्नायी शुचिदेहः सिताम्बरः ॥ ३२-२५ ॥
वर्णाश्रमक्रियायुक्तो विश्वासी ह्यनसूयकः ।
देवब्राह्मणगोनिन्दारहितो लोभवर्जितः ॥ ३२-२६ ॥
एवंविधगुणैर्युक्तः कुर्यान्मन्त्रपुरस्क्रियाम् ।
मनसा कल्पयेत्क्षेत्रं गमनागमनाय च ॥ ३२-२७ ॥
विकिरेत्सर्षपान् दिक्षु शतधा मन्त्रशोधितान् ।
ज्वलदग्निनिभान् दृष्ट्वा पलायन्ते विनायकाः ॥ ३२-२८ ॥
ततः खादिरकीलांश्च दशदिक्षु खनेत्प्रिये ।
नायान्ति कीलिता विघ्ना दृष्ट्वा क्षेत्रं च कीलितम् ॥ ३२-२९ ॥
न बहिर्गमनं कुर्यात् क्षेत्रमुल्लङ्घ्य मोहतः ।
तमोमात्रात्मकाः केचित् श्रेयसां परिपन्थिनः ॥ ३२-३० ॥
औदासिन्यं भयं क्रोधं निद्रातन्द्राविवर्जयेत् ।
दुग्धपानं फलाहारं भिक्षान्नं चापि सेवयेत् ॥ ३२-३१ ॥
कन्दमूलफलैः पत्रैस्तथैवायाचितेन च ।
कल्पयेद्दैहिकीं वृत्तिं यथा नेन्द्रियविक्रिया ॥ ३२-३२ ॥
इन्द्रियाणां विकारे तु मन्त्री शीघ्रं विनश्यति ।
सर्वेषु धर्ममार्गेषु चरतां सिद्धिकाम्यया ॥ ३२-३३ ॥
परिपन्थी न चान्योऽस्ति यथेन्द्रियविकारिता ।
तस्मादिन्द्रियरक्षार्थं सावधानतया चरेत् ॥ ३२-३४ ॥
इन्द्रियाणि मनो देवि नोपेक्ष्याणीति मे मतिः ।
उपेक्षया हता लोका विभ्रमन्ते विचित्रधा ॥ ३२-३५ ॥
विषयेभ्यो निवृत्तोऽपि जितकाममदोऽपि सन् ।
न करोमीन्द्रियोपेक्षां मायासृष्टिर्विमोहिनी ॥ ३२-३६ ॥
के के वा न हता देवि बलिष्ठैरिन्द्रियारिभिः ।
अहल्यायां कृतो जार इन्द्रस्त्रैलोक्यरक्षकः ॥ ३२-३७ ॥
चन्द्रमा गुरुभार्यायां तारायां विनियोजितः ।
बन्धुक्षेत्रे गुरुश्चापि वेदवेदान्तवित्कविः ॥ ३२-३८ ॥
सीतायां रामभार्यायां मद्भक्तोपि दशाननः ।
एतेऽन्येपीन्द्रियहतास्तस्मात्तानि न विश्वसेत् ॥ ३२-३९ ॥
तस्मादाहारमाकुञ्च्य जेतव्यानीति मे मतिः ।
धारयेन्नखकेशांश्च वासः प्रक्षालितं वसेत् ॥ ३२-४० ॥
शयीत भूमौ शय्यायां कुशमय्यां निशासु च ।
वासः प्रक्षालयेद् देवि कटिमुक्तं यदा भवेत् ॥ ३२-४१ ॥
पतितैः कर्मचाण्डालैः जातिचाण्डालकैरपि ।
म्लेच्छान्त्यजसङ्करैश्च न भाषेत जपे स्थितः ॥ ३२-४२ ॥
सन्ध्याकाले व्यतिक्रान्ते देहवृत्तिं तु कल्पयेत् ।
न्यूनाधिक न कुर्वीत जपं देवि दिने दिने ॥ ३२-४३ ॥
नीचसम्भाषणे [न नीचो यवनात्परः ।] देवि म्लेच्छसम्भाषणे तथा ।
प्रायश्चित्तं प्रकुर्वीतं सहस्रजपसङ्ख्यया ॥ ३२-४४ ॥
यामार्द्धेनावशिष्टायां निशि शय्यां परित्यजेत् ।
उदिते च सहस्रांशौ यः शेते निद्रितोऽलसः ॥ ३२-४५ ॥
जपः छिद्रमवाप्नोति सिद्धिर्भवति दूरगा ।
सावधानतया भाव्यं तस्माद्देवि दिने दिने ॥ ३२-४६ ॥
ध्यायेल्लीलां जपश्रान्तो ध्यानश्रान्तः पुनर्जपेत् ।
जपध्यानसमायुक्तः शीघ्रं सिध्यति मन्त्रवित् ॥ ३२-४७ ॥
नैकवासा जपेन्मन्त्रं बहुवस्त्राकुलोऽपि वा ।
तैलताम्बूलपूगादिसर्वभोगान् विवर्जयेत् ॥ ३२-४८ ॥
वाङ्मनः कायकौटिल्यं सर्वथैव परित्यजेत् ।
न वाचोद्वेजयेत्किञ्चिन्नाशुभं कस्य वा स्मरेत् ॥ ३२-४९ ॥
न चक्षुषा निरीक्षेत् पशुक्रीडां कदाचन ।
न चेक्षेत स्त्रियं नग्नां न स्पृशेद्यदमङ्गलम् ॥ ३२-५० ॥
मध्यन्दिनावधि जपेन्मन्त्रराजमनन्यधीः ।
ततः परं तु मनसा ध्यायेल्लीलां समाहितः ॥ ३२-५१ ॥
जपस्यैवं दशांशेन होमं कुर्याद् दिने दिने ।
अथवा लक्षपर्यन्तं जप्त्वा होमं समाचरेत् ॥ ३२-५२ ॥
समाप्तौ वापि जुहुयात् यथासम्भवमम्बिके ।
प्रत्यक्षरं जपेल्लक्षं श्रद्धावान्नातिचञ्चलः ॥ ३२-५३ ॥
आरब्धे तु जपेद्देवि मन उद्विजतेतराम् ।
चिन्ताशोकभयोद्वेगदुःस्वप्नादि प्रजायते ॥ ३२-५४ ॥
तदा धैर्यं समालम्ब्य स्थिरीकुर्यान्मनो धिया ।
एवं लक्षत्रये जप्ते लीलाध्यानैकचेतसः ॥ ३२-५५ ॥
विघ्नाः सर्वे पलायन्ते पातकानि ज्वलन्ति च ।
निर्विघ्नस्य विपापस्य मनः सम्यक् प्रसीदति ।
मनःप्रसन्ने देवेशि स्वप्ने देवादिदर्शनम् ॥ ३२-५६ ॥
वरार्थं प्रार्थ्यमानोऽपि नैव लुभ्यान्मनः प्रिये ।
पञ्चलक्षजपेद्देवि देवदानवरक्षसाम् ॥ ३२-५७ ॥
अवधृष्यो भवेत्साक्षाज्ज्वलन्निव हुताशनः ।
दशलक्षजपे सिद्धे प्रार्थयन्त्यमराङ्गनाः ॥ ३२-५८ ॥
त्वं स्वामी च वयं दास्योऽनुग्रहाण दयापरः ।
यावद्यास्यसि धाम स्वं भित्वा ब्रह्माण्डमण्डलम् ॥ ३२-५९ ॥
तावत्त्वं स्वर्गमातिष्ठ ह्यस्माभिः कृतसेवनः ।
तत्रास्ति नन्दनवनं सर्वर्तुगुणमण्डितम् ॥ ३२-६० ॥
स्वर्धुनी स्वर्णसोपाना रत्नमण्डपमण्डिता ।
हंसकारण्डवाकीर्णा स्वर्णपद्मालिसङ्कुला ॥ ३२-६१ ॥
आहारो यत्र पीयूषं रक्षिता यत्र देवराट् ।
प्रार्थयन्ति देवलोकं क्रतुभिः कर्मकोविदाः ॥ ३२-६२ ॥
तस्मादलङ्कुरु स्वयं स्वर्गं त्रिदशमण्डितम् ।
एवं विलोभ्यमानोऽपि मन्त्री निश्चलमानसः ॥ ३२-६३ ॥
श्रावयेदुत्तरं तासामक्षुब्धो निःकुतूहलः ।
न स्वर्गो नापि नरको न मोक्षो बन्धनं नहि ॥ ३२-६४ ॥
स्वप्ने यथा तथा भाति रोचते न मनाङ् मम ।
तस्माद्यूयं मया प्रोक्ताः प्रयान्तु त्रिदशालयम् ॥ ३२-६५ ॥
श्रुत्वैवं वचनं तस्य निराशाः यान्ति ताः स्त्रियः ।
दशपञ्च च लक्षाणि यदा जप्तो महामनुः ॥ ३२-६६ ॥
तदा सिद्धाः समायान्ति सिद्धिभिः सह सुन्दरि ।
पातालेषु प्रवेशं च दूरश्रवणदर्शनम् ॥ ३२-६७ ॥
परकायाप्रवेशं च मनः पवनवद्गतिम् ।
पादुकाञ्जनसिद्धिं च रसधातुक्रियां तथा ।
इत्यादिविविधां सिद्धिं दर्शयन्ति न संशयः ॥ ३२-६८ ॥
पूर्वोक्तवचने चोक्ते यान्ति ते नातिपूर्वकम् ।
यदा विंशति लक्षाणि जप्ते चिन्तामणिमनौ ॥ ३२-६९ ॥
स्फुरन्ति सकला विद्याः शास्त्राणि विविधानि च ।
पञ्चविंशति लक्षाणि जप्ते चिन्तामणौ प्रिये ॥ ३२-७० ॥
साक्षात्पश्यति देवेशि ब्रह्माण्डमक्षरात्मकम् ।
ब्रह्माण्डान्तः प्रविष्टं च विराजं पश्यति प्रिये ॥ ३२-७१ ॥
त्रिंशल्लक्षजपे सिद्धे नारायणमनामयम् ।
ध्याने पश्यति देवेशि व्यापकं सर्वतोमुखम् ॥ ३२-७२ ॥
सर्वतः पाणिपादान्तं सर्वतः श्रवणाक्षिमत् ।
अनेकमूर्द्धमुकुटमनेकाभरणाकुलम् ॥ ३२-७३ ॥
पञ्चत्रिंशत्तु लक्षाणि मन्त्रावर्त्तनगौरवात् ।
ध्यानं विनापि चक्षुर्भ्यां पश्येन्नारायणं विभुम् ॥ ३२-७४ ॥
चत्वारिंशत्तु लक्षाणि मन्त्रावर्त्तयेद्यदा ।
पश्येन्मञ्चे ब्रह्ममये शयानं पुरुषं तदा ॥ ३२-७५ ॥
चत्त्वारिंशत्तथा चाष्टौ लक्षाणि जपगौरवात् ।
मोहनिद्रावशेषोऽपि पश्येत् ब्रह्मपुरश्रियम् ॥ ३२-७६ ॥
मोटियोजनविस्तीर्णे सुधासिन्धौ सुरेश्वरि ।
रत्नद्वीपे ब्रह्मपुरे नित्यवृन्दावनस्थितिम् [स्थिते इति पाठः ।] ॥ ३२-७७ ॥
मणिमन्दिरमध्यस्थरत्नसिंहासनस्थितम् ।
स्वामिन्याश्लिष्टवामाङ्गं सखीमण्डलवेष्टितम् ॥ ३२-७८ ॥
उत्तमं पुरुषं पश्येत् ध्याने साक्षादिव स्वयम् ।
ततस्तापो भवेत्तीव्रविरहेण फलात्मकः ॥ ३२-७९ ॥
तदा च नियमाः सर्वे कृता वाप्यकृता अपि ।
समाप्यन्ते महेशानि स्वास्थ्याभावस्वभावतः ॥ ३२-८० ॥
इत्येवं कथितं देवि यथा तापोदयो भवेत् ॥
समासेन महेशानि किं भूयः श्रोतुमिच्छसि ॥ ३२-८१ ॥
इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे द्वात्रिंशं पटलम् ॥ ३२-३२ ॥