अथ एकत्रिंशं पटलम्
पार्वत्युवाच
ब्रूहि सेवाप्रकारं मे येन तुष्येत् स्वयं प्रभुः ।
कथं पूजा प्रकर्त्तव्या व्यवहारश्च कीदृशः ॥ ३१-१ ॥
शिव उवाच
शृणु देवि प्रवक्ष्यामि व्यवहारार्चनादिकम् ।
तुर्ये यामे समुत्थाय शय्यायामेव सुव्रते ॥ ३१-२ ॥
ब्रह्मरन्ध्रे गुरुं ध्यायेत् कर्पूरधवलप्रभम् ।
द्विनेत्रं द्विभुजं चैव श्वेतवस्त्रानुलेपनम् ॥ ३१-३ ॥
पञ्चभूतात्मकैरेव पञ्चभिरुपचारकैः ।
पूजयेद् देव देवेशि आत्मानं तद्गतं स्मरेत् ॥ ३१-४ ॥
तच्चरणोदकधारानिपतितं स्वमूर्द्धनिः ।
क्षालितं निर्मलं शुद्धमात्मानं परिचिन्तयेत् ॥ ३१-५ ॥
नमोऽस्तु गुरवे तस्मै इष्टदेवस्वरूपिणे ।
यस्य वागमृतं हन्ति विषं संसारसञ्ज्ञकम् ॥ ३१-६ ॥
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवः सदाशिवः ।
गुरुरेव परं तत्त्वं [ब्रह्म इ० पा० ।] तस्मै श्रीगुरवे नमः ॥ ३१-७ ॥
प्रणम्य मन्त्रयुग्मेन हृदि लीनं विभावयेत् ।
ततो लीलाविहारस्य ध्यायेत्कृष्णं हृदाम्बुजे ॥ ३१-८ ॥
पूजयेत्पूर्ववद्देवि ह्युपचारैश्च पञ्चभिः ।
ततस्तं प्रार्थयेदीशं बद्धहस्ता प्रियंवदे ॥ ३१-९ ॥
अहं नाथ त्वदीयास्मि पतिस्त्वं मेऽसि भो प्रभो ।
भ्रामितास्मि त्वया नाथ मायागहनवर्त्मनि ॥ ३१-१० ॥
त्वत्पार्श्वं नय मां नाथ विरहो मां प्रबाधते ।
अनन्यगतिका चाहं तस्मात्कुरु यथोचितम् ॥ ३१-११ ॥
एवं सम्प्रार्थ्य भर्त्तारं तत्प्रभापटलारुणम् ।
स्वदेहं भावयेद्देवि नमस्कुर्यात्ततः प्रिये ।
ततो भूमिं च सम्प्रार्थ्य दक्षपादं निधापयेत् ॥ ३१-१२ ॥
समुद्रमेखले देवि पर्वतस्तनमण्डले ।
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥ ३१-१३ ॥
ततो ग्रामाद् बहिर्गच्छेन्मलोत्सर्गाय सुन्दरि ॥ ३१-१४ ॥
अतिक्रम्य शरक्षेपमात्रा भुवमतन्द्रितः ।
आच्छाद्य च तृणैर्भूमिं शिरः प्रावृत्य वाससा ॥ ३१-१५ ॥
मृत्तिकां जलपात्रं च हस्तमात्रे नियोजयेत् ।
सूर्यं चैव दिशः प्रान्तान् गावं नैवावलोकयेत् ॥ ३१-१६ ॥
लिङ्गशौचं च तिसृभिः मृत्तिकाभिः समाचरेत् ।
पञ्चापाने प्रदेयाश्च मृत्तिकाः सुरसुन्दरि ॥ ३१-१७ ॥
गन्धलेपक्षयकरमेवं शौचं समाचरेत् ।
तत्रैव वामहस्ते तु प्रदेया सप्त मृत्तिका ॥ ३१-१८ ॥
मौनी स्वगृहमागत्य हस्तपादादि शोधयेत् ।
वामहस्ते मृदः सप्त प्रदेयाः सुरवन्दिते ॥ ३१-१९ ॥
उभयोश्च तथा सप्त हस्तशौचमिदं स्मृतम् ।
पञ्च पञ्च तथा पादे प्रदेया मृत्तिकाः शुभाः ॥ ३१-२० ॥
ततो द्वादशगण्डूषैर्मुखं प्रक्षालयेत्प्रिये ।
तत आचमनं कृत्वा दन्तकाष्ठं समाचरेत् ॥ ३१-२१ ॥
जम्बूदुम्बरजं काष्ठं तथा च बदरीभवम् ।
अपामार्गोद्भवं वापि दन्तांस्तेन विशोधयेत् ॥ ३१-२२ ॥
अज्ञातैः कीटविद्धैश्च वनेषु दाहितैरपि ।
निषिद्धैश्च तथा काष्ठैर्दन्तान्नैव स्पृशेत्प्रिये ॥ ३१-२३ ॥
आयुर्देहि प्रजां देहि धनं विद्यां सुखानि च ।
वाक्सिद्धिं देहि मे नित्यं प्रार्थितोऽसि वनस्पते ॥ ३१-२४ ॥
द्वादशावृत्तिसञ्जप्तं मूलमन्त्रेण मन्त्रवित् ।
प्रक्षाल्य भक्षयेत्काष्ठं यावन्नो सूर्यदर्शनम् ॥ ३१-२५ ॥
दन्तानां शोधनं कुर्यादुदीचीं दिशमाश्रितः ।
न सूर्याभिमुखीभूय निष्ठीवादि क्षिपेत्प्रिये ॥ ३१-२६ ॥
जिह्वामलमपाकृत्य काष्ठं प्रक्षाल्य मन्त्रवित् ।
एकान्ते शुचिदेशे तु क्षिपेत्काष्ठं ततः प्रिये ॥ ३१-२७ ॥
मन्त्रजन्यजलैर्देवि मुखं प्रक्षालयेत्ततः ।
त्यजेद् द्वादशगण्डूषान् मूलमन्त्रमविस्मरन् ॥ ३१-२८ ॥
तत आचमनं कृत्वा नमस्कृत्य [नमस्तुत्वा इति मूलपाठः ।] रविं प्रिये ।
ध्यायन् गच्छेत्ततस्तीर्थमसक्तस्तु गृहे चरेत् ॥ ३१-२९ ॥
गालितं शोधितं तोयं शुचिपात्रगतं च यत् ।
सूर्यमण्डलतस्तस्मिन् तीर्थान्यावाह्य भक्तितः ॥ ३१-३० ॥
तस्मिन्नष्टदले ध्यात्वा कर्णिकायां सुरेश्वरि ।
प्रियायथगतं कृष्णमावाह्य दृढमानसः ॥ ३१-३१ ॥
उपचारैर्जलमयैर्मानसैर्वापि पूजयेत् ।
तदीयचरणद्वन्द्वगलत्पीयूषमिश्रितम् ॥ ३१-३२ ॥
ज्ञात्वा तत्तु जलं देवि साक्षाच्चैतन्यरूपकम् ।
ज्ञानानन्दस्वरूपं तत् त्रिधा मूर्ध्नि क्षिपेत्ततः ॥ ३१-३३ ॥
अन्येनैवाम्भसा कुर्यान्मौशलं स्नानमूर्द्धनि ।
ततः स्नायाद्वरारोहे पूर्वसंस्कृतवारिणा ॥ ३१-३४ ॥
श्रीकृष्णं हृदये लीनमिति ध्यात्वाचमेत्ततः ।
गात्रं सम्मार्ज्य देवेशि मन्त्रवारिविशोधिते ॥ ३१-३५ ॥
वासांसि परिधायैव ततो मन्दिरमाविशेत् ।
पूजागृहे बहिः स्थित्वा तिलकं गोपिकामृदा ॥ ३१-३६ ॥
चक्रादिधारणं कुर्यात् बिभृयात्तुलसीसृजम् ।
विना च तुलसीमालां विना चक्रादिधारणम् ॥ ३१-३७ ॥
न जपध्यानपूजासु योग्यो भवति कर्हिचित् ।
देवान् पितृंश्च सन्तर्प्य दिक्पालान् प्रणमेत्ततः ॥ ३१-३८ ॥
सर्वं कृष्णमयं ध्यायेद्भेदभावं विवर्जयेत् ।
भेदभावात्मको देवि संसारः कथितो यतः ॥ ३१-३९ ॥
देहलीं च नमस्कृत्य दक्षपादपुरःसरम् ।
प्रविशेत्पूजनागारं निर्माल्याद्यपसारयेत् ॥ ३१-४० ॥
प्रोत्थापयेत् प्रभुं सुप्तं सुगीतैर्मङ्गलस्वनैः ।
श्रेष्ठा मनोमयीमूर्तिरथाश्मा [अथाश्मो गल्लकी इति मूल पाठः ।] गण्डकीभवः ॥ ३१-४१ ॥
सौवर्णी राजतीं शैलीं काष्ठीं वा मृण्मयीमपि ।
चैत्रीं वा पूजयेन्मूर्त्तिमुपचारैः शुभैः प्रिये ॥ ३१-४२ ॥
अर्घं च पाद्याचमने मधुपर्कमपःस्पृशः ।
स्नानं वस्त्रमथाप्रोह्य वासांस्याभरणानि [स्नानं वस्त्रमथाचाम इ० पा०] च ॥ ३१-४३ ॥
दर्पणालोकनं चैव गन्धपुष्पे ततः परम् ।
धूपोगरुसमुद्भूतो दीपो नैवेद्यमेव च ॥ ३१-४४ ॥
पानीयं तोयमाचामं हस्तवासस्ततः परम् ।
ताम्बूलमनुलेपं च ततो नीराजनादिकम् ॥ ३१-४५ ॥
गीतं वाद्य तथा नृत्यं स्तुतिः चैव प्रदक्षिणम् ।
पुष्पाञ्जलिर्नमस्कारः साष्टाङ्गप्रणतिस्तथा ॥ ३१-४६ ॥
इत्येतैरुपचारैश्च पूजयेत्प्राणवल्लभम् ।
अनिर्माल्यं सनिर्माल्यं पूजनं द्विविधं मतम् ॥ ३१-४७ ॥
दिव्यैर्मनोभवैः पुष्पैर्गन्धद्रव्यैर्मनोहरैः ।
भक्तैर्यत्क्रियते सम्यगनिर्माल्यं तदर्चनम् ॥ ३१-४८ ॥
जातमात्राणि पुष्पाणि घ्रातान्येव निसर्गतः ।
पञ्चभिश्च महाभूतैर्भानुना शशिनापि च ॥ ३१-४९ ॥
प्राणिभिश्च द्विरेफाद्यैः पौष्पैरेव न संशयः ।
यदर्चनं सनिर्माल्यं दिव्यभोगापवर्गदम् ॥ ३१-५० ॥
ग्रामारण्यादिसम्भूतैः पूजाद्रव्यैर्मनोहरैः ।
घ्रातपुष्पात्फलं सिध्येदल्पं नो मानसात्तथा ॥ ३१-५१ ॥
तस्मादपरिहार्यत्वादन्यथा चाप्युपायतः ।
बुद्धिशुध्यै [बुद्धिशुद्धेस्तत इति पाठः ।] ततो देवि बाह्यद्रव्यैः प्रपूजयेत् ॥ ३१-५२ ॥
पुनस्त्रेधा कृष्णपूजा चोत्तमाधममध्यमा ।
यथोपकरणैः [यज्ञोपकरणैरिति पाठः ।] कृत्स्नैः क्रियमाणोत्तमोत्तमा ॥ ३१-५३ ॥
यथालब्धैर्विनिष्पाद्या द्रव्यैः पूजा तु मध्यमा ।
पत्रपुष्पाम्बुनिष्पाद्या पूजा चाधमसञ्ज्ञिका ॥ ३१-५४ ॥
आदौ तु मानसीं कृत्वा ततो बाह्यां प्रवर्तयेत् ।
नीराजनान्तमासाद्य जपं कुर्याज्जितेन्द्रियः ॥ ३१-५५ ॥
तुलसीकाष्ठसम्भूतैर्मणिभिः कृतमालया ।
जपेच्छतं सहस्रं वा त्रिसन्ध्यास्वपि तं जपेत् ॥ ३१-५६ ॥
जपपूजासन कुर्याच्चित्रकम्बलनिर्मितम् ।
कौशेय वाथ चैलं वा चर्म तूलमथापि वा ॥ ३१-५७ ॥
वेत्रजं तालपत्रं वा दार्भमासनमेव च ।
वंशाश्मदारुधरणीतृनपल्लवनिर्मितम् ॥ ३१-५८ ॥
वर्जयेदासनं मन्त्री दारिद्र्यव्याधिदुःखदम् ।
एवं सम्पूजयेत्कृष्णं प्रत्यहं परमेश्वरि ॥ ३१-५९ ॥
न गृही ज्ञानमात्रेण परत्रेह च मङ्गलम् ।
प्राप्नोति चन्द्रवदने जपपूजादिभिर्विना ॥ ३१-६० ॥
अहिंसा सत्यमस्त्येयं ब्रह्मचर्यजपार्जवम् ।
क्षमा धैर्यं मिताहारम् आस्तिक्यं दानमेव च ॥ ३१-६१ ॥
वैराग्यं च विवेकश्च शमः श्रद्धा दमस्तथा ।
मुमुक्षुता विवेकश्च समाधानं तथात्मनः ॥ ३१-६२ ॥
एतत्साधनसम्पत्तीं कुर्वतां परमेश्वरि ।
ज्ञानं दारिद्र्यशमनं भविष्यति न संशयः ॥ ३१-६३ ॥
सर्वेषामेव जन्तूनामक्लेशजननं प्रिये ।
वाङ्मनः कर्मभिर्नूनमहिंसेत्यभिधीयते ॥ ३१-६४ ॥
यथादृष्टश्रुतार्थानां स्वरूपकथनं पुनः ।
सत्यमित्युच्यते सद्भिस्तद्ब्रह्मप्राप्तिसाधनम् ॥ ३१-६५ ॥
तृणादेरप्यनादानं परस्य च प्रियंवदे ।
अस्तेयमेतदप्यङ्ङ्गं ब्रह्मप्राप्तेः सनातनम् ॥ ३१-६६ ॥
अवस्थास्वपि सर्वासु कर्मणा मनसा गिरा ।
स्त्रीसङ्गतिपरित्यागो ब्रह्मचर्यं प्रचक्षते ॥ ३१-६७ ॥
परेषां दुःखमालोक्य स्वस्येवालोच्य तस्य तु ।
उत्सादनानुसन्धानं दयेति प्रोच्यते शिवे ॥ ३१-६८ ॥
व्यवहारेषु सर्वेषु मनोवाक्कायकर्मभिः ।
सर्वेषामपि कौटिल्यराहित्यं चार्जवं स्मृतम् ॥ ३१-६९ ॥
सर्वात्मना सर्वदापि [सर्वदास्योपकारिषु इ० पा० ।] सर्वषामुपकारिता ।
बन्धुष्विव समाचारः क्षमा स्यात्परमेश्वरि ॥ ३१-७० ॥
इच्छाप्रलापराहित्यं जातेषु विषयेषु च ।
दुःखेषु [लाभस्तु धृतिर्धैर्यम् इ० पा० ।] च धृतिर्धैर्यं प्रवदन्ति वराङ्गने ॥ ३१-७१ ॥
भोज्यस्यैव चतुर्थांशो भोजनं स्वस्थचेतसः ।
अत्युग्रकटुतिक्ताम्ललवणादिविवर्जितम् ॥ ३१-७२ ॥
हितं मेध्यं सुखं चेति मिताहारः स उच्यते ।
श्रुत्याद्युक्तेषु विश्वास आस्तिक्यं सम्प्रचक्षते ॥ ३१-७३ ॥
ध्यात्वान्तर्यामिनं चित्ते तदर्पणधियाऽन्वहम् ।
सत्पात्रे दीयते दानं तद्दानमभिधीयते ॥ ३१-७४ ॥
ब्रह्मादिस्थावरान्तेषु विषयेषु बहुष्वषि ।
वान्ताशनजुगुप्सा [वान्त्य शनवज्जुगुप्सा च इति पाठः ।] च वैराग्यं प्राप्तिसाधनम् ॥ ३१-७५ ॥
नित्यं वै वासनात्यागः परदारगृहादिषु [पुरद्वार इ० पा० ।] ।
परानन्दपरा भक्तिः शम [सक्ति इ० पा० ।] इत्युच्यते हि सः ॥ ३१-७६ ॥
निगमागमवाक्येषु भक्तिः श्रद्धेति कीर्त्तिता ।
विषयानन्दचरतामिन्द्रियाणां विनिग्रहः ॥ ३१-७७ ॥
दम इच्युते देवि ब्रह्मप्राप्तेर्हि कारणम् ।
ससारं भयदं मत्वा विरहः [विरहस्य दशांशकम् इ० पा० ।] स्यादशेषकः ॥ ३१-७८ ॥
मुक्तिकामस्य देवेशि कथिता सा मुमुक्षुता ।
कोऽहं कथमिदं जातं को वै कर्त्तास्य विद्यते ।
उपादानं किमस्तीह विचारः सोऽयमीदृशः ॥ ३१-७९ ॥
उपादानं प्रपञ्चस्य ब्रह्मणोऽन्यन्न किञ्चन ।
तस्मात्सर्व प्रपञ्चोऽयं ब्रह्मैवाविद्यया ततम् ॥ ३१-८० ॥
ब्रह्मैव सर्वनामानि रूपाणि विविधानि च ।
कर्माण्यपि समग्राणि बिभर्तीति श्रुतिर्जगौ ॥ ३१-८१ ॥
यथैव व्योम्नि नीलं च यथा नीरं मरुस्थले ।
पुरुषत्वं यथा स्थाणौ तद्वद्विश्वं चिदात्मनि ॥ ३१-८२ ॥
यथा तरङ्गकल्लोलैर्जलमेव स्फुरत्यलम् ।
पात्ररूपेण वै ताम्रं ब्रह्माण्डो वै तथाक्षरः ॥ ३१-८३ ॥
तस्मात्प्रपञ्चविभ्रान्तां नियम्य मतिमात्मनि ।
उक्तसाधनसम्पन्नः सखीभावं निजं गतः ॥ ३१-८४ ॥
नित्यं लीलारसानन्दं स्वपतिं पुरुषोत्तमम् ।
भजत्यनन्यया बुध्या पुनः संयोगमाष्नुयात् ॥ ३१-८५ ॥
इति ते कथितं देवि तदाराधनलक्षणम् ।
समासेन महेशानि किं भूयः श्रोतुमिच्छसि ॥ ३१-८६ ॥
इति श्रीनारदपञ्चरात्रे श्रीमाहेश्वरतन्त्रे शिवपार्वतीसंवादे एकत्रिंशं पटलम् ॥ ३१-३१ ॥