३०

अथ त्रिंशं पटलम्

पार्वत्युवाच

भगवन्देवदेवेश श्रोतुमिच्छाम्यहं पुनः ।
मन्त्रस्य साधनं साक्षात् यत्कृत्वा साङ्गता भवेत् ॥ ३०-१ ॥

शिव उवाच

शृणु त्वं देवदेवेशि मन्त्रराजस्य साधनम् ।
ऋषिरस्य स्मृतो देवि परात्मा पुरुषोत्तमः ॥ ३०-२ ॥

छन्दोनुष्टुप्समाख्यातं श्रीकृष्णो देवतास्य च ।
अहं बीजं नमः शक्तिर्विनियोगः प्रसादने ॥ ३०-३ ॥

ऋषिः शिरसि विन्यस्य छन्दस्तु मुखमण्डले ।
देवता हृदये न्यस्य बीजं पादयुगे न्यसेत् ॥ ३०-४ ॥

कटिदेशे न्यसेच्छक्तिं नियोगः करसम्पुटे ।
एवम् ऋष्यादिकं न्यस्य वर्णन्यासं ततश्चरेत् ॥ ३०-५ ॥

अथ बीजं न्यसेन्मूर्ध्निन्यसेन्माया ललाटके ।
व्योमबीजं न्यसेत्कर्णयुगलेऽथ समीरणम् ॥ ३०-६ ॥

न्यसेत्त्वचि ततो नेत्रे वह्निबीजं न्यसेत्प्रिये ।
जिह्वायां वारुणं बीजं पृथ्वीबीजं च नासयोः ॥ ३०-७ ॥

श्रीकारं कण्ठदेशे तु कृकारं हृदये न्यसेत् ।
ष्णं पं न्यसेत्कुचद्वन्द्वे वामादि परमेश्वरि ॥ ३०-८ ॥

रकारं चैव माकार कुक्षियुग्मे च वामतः ।
नकारं च दकारं च न्यसेत्कट्योस्तथैव हि ॥ ३०-९ ॥

तेकारं विन्यसेल्लिङ्गे प्रिया वर्णावुरुद्वये ।
स्मिमार्णद्वयं देवि जानुयुग्मे तथा न्यसेत् ॥ ३०-१० ॥

मं गी वणौं च देवेशि जङ्घायुग्मे प्रविन्यसेत् ।
कुर्वित्यक्षरयोर्द्वन्द्वं पार्ष्णिद्वन्द्वे नियोजयेत् ॥ ३०-११ ॥

दकारं च शकारं च प्रपदद्वन्दके न्यसेत् ।
प्रकारं चैव बोकारं न्यसेत्पादतलद्वये ॥ ३०-१२ ॥

धं न्यसेदङ्गुलीष्वेव अङ्गुल्यन्तेषु यं न्यसेत् ।
तलादिजानुपर्यन्तं प्रबोवर्णद्वय पुनः ॥ ३०-१३ ॥

जान्वादिनाभिपर्यन्तं धयवर्णद्वयं न्यसेत् ।
मोकारं विन्यसेन्नाभौ हकारमुदरे न्यसेत् ॥ ३०-१४ ॥

मपावर्णौ स्कन्धयुगे कुरु कक्षा युगेन्यसेत् ।
कुरुवर्णद्वयं दोष्णोर्गल्लयोश्च प्रविन्यसेत् ॥ ३०-१५ ॥

नमः शिखायां विन्यस्य समग्रं व्यापकं न्यसेत् ।
एवं [एवं न्यस्तशरीरोऽसौ इ० पा० ।] न्यासाच्छरीरेऽसौ जायते मन्त्ररूपधृक् ॥ ३०-१६ ॥

अलौकिकं वपुः कृत्वा गच्छेद् ध्यानेन तत्पदम् ।
तत्प्रकारं प्रवक्ष्यामि सुगुप्तमपि सुन्दरि ॥ ३०-१७ ॥

वर्णरूपं वपुर्ध्यायेत् पञ्चभूतमयान् हि तान् ।
तत्तत्कारणभूतेषु तत्तत्कार्य विलोपयेत् ॥ ३०-१८ ॥

पादादिजानुपर्यन्तं पृथ्वीतत्वं विचिन्तयेत् ।
पृथ्वीतत्त्वमयान् वर्णान् प्रवक्ष्यामि समासतः ॥ ३०-१९ ॥

पञ्चमश्चैव षष्ठश्च त्रयोदश एव च ।
स्वराणां त्रितयं चैतत् आकाशादग्रिमाक्षरम् ॥ ३०-२० ॥

स्पर्शेषु चाष्टमश्चैव तथा चैव त्रयोदश ।
दवलाश्चेति वै वर्णाः पार्थिवाः परिकीर्त्तिताः ॥ ३०-२१ ॥

ऋ ऋ औ घ झ ढ ध भ वर्णास्ते वारुणाः स्मृताः ।
जान्वादिकटिपर्यन्तं जलतत्वगतान् स्मरेत् ॥ ३०-२२ ॥

इ ई ए ख छ ठ थ फ र क्षास्ते वह्निरूपिणः ।
कट्यादिकण्ठपर्यन्तं तेजस्तत्वगतान् स्मरेत् ॥ ३०-२३ ॥

अ ऐ कचटतपसषाः मारुताः कथिताः प्रिये ।
कण्ठादिभ्रूप्रदेशान्तं वायुतत्वमयान्स्मरेत् ॥ ३०-२४ ॥

ऌ ऌ अङ्ङञणनमशबहानाभसाः स्मृताः ।
भ्रूमध्यादिब्रह्मरन्ध्रस्थिताकाशमयान् स्मरेत् ॥ ३०-२५ ॥

तत्तद्वर्णविलोपन्तु कारयेत्कारणाक्षरे ।
हित्वा स्थौल्यं भूतमयं सूक्ष्मं शब्दमयं ततः [गतः इ० पा० ।] ॥ ३०-२६ ॥

शब्दब्रह्मशरीरोऽसौ सर्वकारणकारणम् ।
सहस्रदलपद्मस्य कर्णिकायां व्यवस्थितम् ॥ ३०-२७ ॥

अकार केवलं ध्यायेदुदरे निष्कलं प्रिये ।
अकार [अकारोदरमाकाशे इ० पा० ।] चोदराकाशे दहरास्ते महेश्वरि ॥ ३०-२८ ॥

पूर्वानुभूता रासलीला व्रजलीलाश्च संस्मरेत् ।
अहं प्रिया भगवतः कामस्य कामरूपिणी [कामरूपिणः इ० पा० ।] ॥ ३०-२९ ॥

कृष्णस्येति दृढाभ्यासवशगेनैव चेतसा ।
संस्मरेत्परमेशानि नान्यत् किञ्चन चिन्तयेत् ॥ ३०-३० ॥

अथ तेनैव मार्गेण शाब्दं चापि वपुस्त्यजेत् ।
शब्दातीतं परं धाम रसानन्दमहार्णवम् ॥ ३०-३१ ॥

नानाकेलिकलापूर्णं नानापक्षिनिनादितम् ।
भ्रमद्भ्रमरझङ्कारमुखरीकृतदिङ्मुखम् ॥ ३०-३२ ॥

स्वप्रकाशं समभ्येत्य स्वरूपं चिन्तयेत्तदा ।
नवयौवनसम्पन्नमनोहररतिप्रियम् ॥ ३०-३३ ॥

क्वणन्नूपुरसंशोभिपादाम्भोजविराजितम् ।
लाक्षारसाक्तचरणं क्वणत्किङ्किणिमेखलम् ॥ ३०-३४ ॥

नवीनयौवनोत्तुङ्गकुचभारमहालसम् ।
कराङ्गुलीयनिवहोल्लसदङ्गुलिपल्लवम् ॥ ३०-३५ ॥

नानालङ्कारसुभगं कौसम्भाम्बरशोभितम् ।
मुक्ताहारोल्लसद्वक्षः स्फुरमाणमणिप्रभम् ॥ ३०-३६ ॥

कामकोदण्डकुटिलभृकुटीविशिखेक्षणम् ।
मुक्तादामलसद्भालं काश्मीरतिलकोज्वलम् ॥ ३०-३७ ॥

दिव्यचन्दनलिप्ताङ्गं दिव्यपुष्पस्रगाकुलम् ।
भालप्रदेशविलसत्सुरत्नतिलकोज्ज्वलम् ॥ ३०-३८ ॥

ध्यात्वैवं स्ववपुर्दिव्य सखीयूथगतं स्मरेत् ।
यूथमध्यगतं कृष्ण ध्यात्वानन्येन चेतसा ॥ ३०-३९ ॥

प्रार्थयेत्तं पतिं तत्र सस्मिताननसुन्दरम् ।
प्राणनाथ त्वदीयाहं त्राहि दुःखेष्वनेकधा ॥ ३०-४० ॥

त्वामहं विस्मृता नाथ परमानन्दपेशल ।
अनुभूता स्वप्नलीला नानादुःखौघसङ्कुला ॥ ३०-४१ ॥

कालो महान् व्यतीतोऽयं त्वां विना पुरुषोत्तम ।
स्वप्ने मया बहुभ्रान्तं देहगेहातिसक्तया ॥ ३०-४२ ॥

क्वचिन्मनुष्यरूपेण देवरूपेण वा क्वचित् ।
गन्धर्वोरगरूपेण [ब्रह्मसृष्टीनामीदृशी दशा कदापि न भवति । किन्तु प्रार्थनामात्रमिदम् अथवा तु प्रार्थनेयं जीवानां कृते बुधैरिति बोध्यम् ।] पशुरूपेण वा क्वचित् ॥ ३०-४३ ॥

चेष्टापितो मया ह्यात्मा स्वप्ने मायाविनिर्मिते ।
इदानीं कृतकृत्यास्मि नष्टस्वप्नमयाकृतिः ॥ ३०-४४ ॥

विलोकय कृपादृष्ट्या दृष्टं देव विना त्वया ।
इति सम्प्रार्थ्य भर्त्तारं प्रणमेत्पादपङ्कजम् ॥ ३०-४५ ॥

प्रोत्थापिता पुनस्तेनालिङ्गिता च मुहुर्मुहुः ।
दत्ताधरसुधाचापि सखीयूथस्य पश्यतः ॥ ३०-४६ ॥

परस्परं वीक्ष्यमाणा सखिभिः कृतकौतुकम् [वीक्ष्यमाणः सखीभिः कृतकौतुकः इ० पा० ।] ।
नित्यानन्दविहारेषु भूमिकासु दशस्वपि ॥ ३०-४७ ॥

पुष्परागमयभ्राजत्पर्वतापत्यकासु च ।
नीलमाणिक्यशैलोरुशिखरेषु विशेषतः ॥ ३०-४८ ॥

यमुनासप्ततीर्थेषु नानावृक्षोदयेषु च ।
मणिमण्डपविभ्राजत्कुट्टिमैर्मण्डितेषु च ॥ ३०-४९ ॥

नानाविहारसङ्केते नीयमाना प्रियेण हि ।
तत्र तत्र महालीलारसानन्दपरिप्लुता ॥ ३०-५० ॥

षोडशस्थम्भविभ्राजन्मणिकुट्टिममागता ।
सखीसमाजमध्यस्थं कृष्णं दृष्ट्वा पुरः स्थिता ॥ ३०-५१ ॥

लालिता प्राणनाथेन वचनामृतवर्षिणा ।
एवं धारणया देवि मनो यावत्स्थिरं भवेत् ॥ ३०-५२ ॥

तावदेनाभ्यसेल्लीलामेवमात्मा विशुध्यति ।
एतत्ते कथितं देवि मन्त्रध्यानादिकं मया ॥ ३०-५३ ॥

समासेन महेशानि किं भूयः श्रोतुमिच्छसि ।
तदहं ते प्रवक्ष्यामि शपथस्तव सुव्रते ॥ ३०-५४ ॥

इति श्रीनारदपञ्चरात्रे श्रीमाहेश्वरतन्त्रे शिवपार्वतीसंवादे त्रिंशं पटलम् ॥ ३०-३० ॥