अथ एकोनत्रिंशं पटलम्
पार्वत्युवाच
ब्रूहि तं च महेशान् मन्त्रराजं महेश्वरम् ।
यस्य श्रवणमात्रेण सर्वमन्त्रफलं भवेत् ॥ २९-१ ॥
श्रीमहादेव उवाच
देवेशि मन्त्रराजोऽयं भाति गोप्यतरो महान् ।
पातकानि प्रलीयन्ते सकृद्यस्य जपादपि ॥ २९-२ ॥
सप्तकोटिमहामन्त्रास्तवाग्रे कथिता मया ।
तेषु श्रीकृष्णमन्त्राश्च बहवः कीर्त्तितास्तव ॥ २९-३ ॥
रासलीलाप्रविष्टस्य [मया इ० पा० ।] पुरा गोपालरूपिणः ।
प्रोक्ता मन्त्रा महेशानि तत्रायं गोपितो मया ॥ २९-४ ॥
रहस्यत्त्वान्मया नोक्तः पुनस्तं परिपृच्छसि ।
त्वयापि गोपितव्योऽयं न देयः स्यात्कथञ्चन ॥ २९-५ ॥
लेखयित्त्वा ददेन्मन्त्रं न वाचोपदिशेत्प्रिये ।
ब्रह्महत्यासहस्राणां दत्त्वा पापमवाप्नुयात् ॥ २९-६ ॥
निर्धारत्वे वासनाया यदि प्रेमोद्गमो भवेत् ।
तदैवोपदिशेद्देवि ह्यन्यथा कृष्णघातकः ॥ २९-७ ॥
विधिः सर्वोऽपि कर्त्तव्यो मन्त्रदानं विना प्रिये ।
ततः [परिणते इ० पा० ।] परीक्षिते काले योग्यत्वे मन्त्रमादिशेत् ॥ २९-८ ॥
शृणु मन्त्रं प्रवक्ष्यामि सावधानेन चेतसा ।
स्वर [आद्यः स्वरोऽकारः चतुर्थश्च दीर्घ इकारोऽर्धमात्रबिन्दुयोगेन आकाशोऽहमिति व्योमबीजम् ।] आद्यश्चतुर्थश्च आकाशस्तदनन्तरम् ॥ २९-९ ॥
वायुबीजं ततः पश्चात् अग्निबीजमतः परम् ।
ततो वरुणबीजञ्च भूबीजं स्यात्ततः परम् ॥ २९-१० ॥
श्रीकृष्ण परमानन्द ते प्रियास्मीति वै वदेत् ।
मामङ्गीकुर्विति चोक्त्त्वा दर्शयेति द्वयं वदेत् ॥ २९-११ ॥
प्रबोधयेति द्वितीयं मोहेति च ततो वदेत् ।
मपाकुरुद्वयं चोक्त्त्वा नमोन्तोऽयं महामनुः ॥ २९-१२ ॥
एकोनैकोनपञ्चाशद्वर्णैः सङ्घटितः प्रिये ।
आद्यबीजं महेशानि परमात्माक्षरः प्रभुः ॥ २९-१३ ॥
तस्मात्सृष्टिर्वर्णमयी हकारान्ताविजृम्भिता ।
प्रतिलोमलयं तस्याः स एव परिशिष्यते ॥ २९-१४ ॥
अनन्तत्वादात्मतत्वाद् व्यापकत्वान्महेश्वरि ।
न तस्यास्ति लयः क्वापि वर्णानामात्मनः प्रिये ॥ २९-१५ ॥
स्वरश्चतुर्थस्तन्माया ह्युपर्यङ्कुरतां गता ।
ततो ज्ञानहरा देवि जाता सा विश्वमोहिनी ॥ २९-१६ ॥
मध्यबिन्दुसमायोगाच्छून्यरूपा हि साभवत् ।
शून्यत्त्वेधस्तना रेखा जगदङ्कुररूपिणी ॥ २९-१७ ॥
अर्द्धबिन्दुसमायोगाद्योगमायात्मिका हि सा ।
एवं त्रितययोगेन ज्ञेयं तस्या गुणत्रयम् ॥ २९-१८ ॥
प्रतिबिम्बवदाभास [भात इ० पा० ।] निर्मले परमात्मनि ।
यदा समरसाकारा विश्वयोनिस्तदा हि सा ॥ २९-१९ ॥
कोणत्रयसमायोगा ब्रह्मादित्रितयात्मिका ।
लोकत्रयात्मिका चैव तथा वेदत्रयात्मिका ॥ २९-२० ॥
इच्छाज्ञानक्रियात्मा च कालत्रितयरूपिणी ।
अग्निसोमार्करूपा [अग्निष्टामार्क इ० पा० ।] च सर्वत्रितयरूपिणी ॥ २९-२१ ॥
अधोमुखा हि सा ज्ञेयावतरन्ती परात्मनः ।
यदा चोर्ध्वमुखी भूयाद्वह्निज्वालेव सा लये ॥ २९-२२ ॥
शून्यत्वेऽधस्तना रेखा जगदङ्कुररूपिणी ।
यदेव च महत्तत्त्वमित्याहुस्तन्त्रवादिनः ॥ २९-२३ ॥
अहङ्कारस्तु रेखान्तस्तद्गुणोपाधिसङ्गतः ।
त्रिविधः स तु विज्ञेयस्तस्माद्भूतानि जज्ञिरे ॥ २९-२४ ॥
तद्वाचकान्यक्षराणि हकारादीनि पञ्च च ।
पुरतस्तानि दृश्यन्ते मन्त्रराजे महेश्वरि ॥ २९-२५ ॥
आकाशस्तु हकारस्थो देवता तु सदाशिवः ।
गुणः शब्दस्तथा श्रोत्रं श्रोतव्या दिक् च सुन्दरि ॥ २९-२६ ॥
यकारे देवदेवेशि वायुरीश्वर एव च ।
स्पर्शस्त्वगिन्द्रियं देवि स्पृष्टव्यं च महीरुहम् ॥ २९-२७ ॥
रकारेऽग्निरह देवि रूपं चक्षू रविस्तथा ।
दृष्टव्यं चेति विज्ञेयं मञ्जूषामणिवत्तथा ॥ २९-२८ ॥
वकारे सलिलं विष्णु रसश्च रसनेन्द्रियम् ।
रसितव्यं च वरुणो देवता चेति संस्थिता ॥ २९-२९ ॥
लकारे पृथिवीतत्वं ब्रह्मा गन्धश्च नासिका ।
घ्रातव्यमश्विनौ देवि देवता चेति संस्थिता ॥ २९-३० ॥
इत्येवं पञ्चभूतानां बीजकार्यं तदीश्वरि [बीजोऽयं कार्यमीश्वरि इ० पा० ।] ।
सदृशं [कथितस्तेन यमाहुःक्षरसञ्ज्ञया इ० पा० ।] कथितं ते च यदाहुः क्षरसञ्ज्ञया ॥ २९-३१ ॥
अकारः परमं ब्रह्म कूटस्थ व्यापकं ध्रुवम् ।
अनुत्तरं निर्विशेष चिदंशस्तेन कथ्यते ॥ २९-३२ ॥
अक्षरातीतरूपोऽसौ शेषवर्णैर्मनुः स्मृतः ।
तस्मादहो सच्चिदानन्दरूपोऽय मन्त्रनायकः ॥ २९-३३ ॥
मननं विश्वविज्ञानं त्राणं संसारसङ्कटात् ।
यतः करोति संसिद्धो मन्त्र इत्युच्यते प्रिये ॥ २९-३४ ॥
मन्त्रचूडामणिं ज्ञात्वा मुच्यते सर्वसंशयात् ।
विज्ञाते मन्त्रराजन्ये ज्ञातव्यं नावशिष्यते ॥ २९-३५ ॥
शाब्दं वपुः परानन्दवपुषः परमेश्वरि ।
मन्त्रचूडामणिरयं मया ते परिकीर्तितः ॥ २९-३६ ॥
अकथ्यः पारमार्थ्येन तथापि कथितस्तव ।
गोपनीयः प्रयत्नेन जननी जारगर्भवत् ॥ २९-३७ ॥
पश्यन्ति ये शठधियो वर्णबुध्या महामनुम् ।
ते यान्ति नरकान् सर्वे यावदाभूतसप्लवम् ॥ २९-३८ ॥
पुरुषं मन्त्रजप्तारं ये पश्यन्ति नराधमाः ।
तेषां पापानि नश्यन्ति ब्रह्महत्यादिकान्यपि ॥ २९-३९ ॥
कोटिकल्पेषु पापिष्ठा नित्यं पापपरायणाः ।
तेऽपि शुध्यन्ति सम्पर्कान्मन्त्रजप्तुर्न संशयः ॥ २९-४० ॥
लब्धे चिन्तामणौ देवि किमन्यैर्धनसञ्चयैः ।
तथा लब्धे मन्त्रराजे किमन्यैः साधनैर्भवेत् ॥ २९-४१ ॥
एतन्मन्त्रार्थविज्ञानं मन्त्रसिद्धान्तसूचकम् ।
यो नित्यं भावयेच्चित्ते वासना तस्य शुध्यति ॥ २९-४२ ॥
विहाय मायामालिन्यं देहेन्द्रियनिबन्धनम् ।
वासना सम्मुखीभूयाद्विवेकं प्रनिबिम्बवत् ॥ २९-४३ ॥
मन्त्रमाहात्म्यमेतत्तु मया ते परिकीर्तितम् ।
किमन्यत् श्रोतुमिच्छा ते तदिदानीं वद [वदाम्यहम् इ० पा० ।] प्रिये ॥ २९-४४ ॥
इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे एकोनत्रिंशतितमं पटलम् ॥ २९-२९ ॥