अथ अष्टाविंशं पटलम्
पार्वत्युवाच
पुनर्ब्रूहि महादेव यथा स्याद्भजनोदयः ।
कं वा गुरुमुपासीत कथं ज्ञानोदयो भवेत् ॥ २८-१ ॥
शिव उवाच
साधु पृष्टं त्वया भद्रे प्रवक्ष्यामि यथातथम् ।
गोपनीयं प्रयत्नेन दर्शयेन्नैव कस्यचित् ॥ २८-२ ॥
मायाग्रस्तमिदं विश्वं नानादुःखभयातुरम् ।
अनित्यभवसन्तापपरितप्त समन्ततः ॥ २८-३ ॥
कालदण्डभुजङ्गेन ग्रस्तमानमहर्निशम् ।
दृष्ट्वा विरक्तः सततं स्वात्मनः शिवहेतवे ॥ २८-४ ॥
सद्गुरोः शरणं यायात् शुद्धभावेन भामिनि ।
गुरवो बहवः सन्ति दीपवच्च गृहे गृहे ॥ २८-५ ॥
दुर्लभा गुरवो देवि ! सूर्यवत्सर्वदीपकाः ।
गुरवो बहवः सन्ति शिष्यवित्तापहारकाः ॥ २८-६ ॥
विरला गुरवो देवि ! शिष्यहृत्तापहारकाः ।
शुद्धान्वयः शुद्धचेत्ताः शुद्धवेशः शुभाकृतिः ॥ २८-७ ॥
शुभवादी शुभाचारः शुद्धभावः शुचिः स्वयम् ।
वेदशास्त्रार्थतत्त्वज्ञो लोकसङ्गविवर्ज्जितः ॥ २८-८ ॥
अलोलुपः सुशीलश्च दयादाक्षिण्यसंयुतः ।
त्यागी विरागी गुणवान् गुणज्ञः शिष्यवत्सलः ॥ २८-९ ॥
येन केनापि सन्तुष्टः शरण्यः क्रोधवर्ज्जितः ।
स्वसिद्धान्तार्थतत्त्वज्ञो मितवाक् लोकवल्लभः ॥ २८-१० ॥
पवित्रः संशयच्छेत्ता कृष्णप्रेमपरिप्लुतः ।
एवं विधं गुरुं ज्ञात्वा कृपापीयूषवर्षिणम् ॥ २८-११ ॥
फलपुष्पादिहस्तश्च गच्छेदभिमुखं गुरोः ।
गुरोर्मन्दिरमासाद्य नत्वा तद्देहलीं प्रिये ॥ २८-१२ ॥
आज्ञया सद्गुरोर्देवि दक्षपाद पुरःसरम् ।
प्रविश्य तद्गृहं साज्ञाद्दण्डवत्प्रणमेच्च [तत् इत्यपि पाठः ।] तम् ॥ २८-१३ ॥
भो नाथकरुणासिन्धो संसारार्णवतारक ।
भ्रान्तं संसारगहने नानातापसमाकुले ॥ २८-१४ ॥
अत्यन्तदीनहृदयं सर्वसाधनवर्जितम् ।
अज्ञानपङ्कनिर्मग्नं मामुद्धर दयानिधे ॥ २८-१५ ॥
अहं त्वां शरणं प्राप्तः शरण्यस्त्वं दयानिधिः ।
अविलम्बेन संसारविच्छेदं कुरु मे प्रभो ॥ २८-१६ ॥
एवं सम्प्रार्थितः सोऽथ गुरुनाथः कृपानिधिः ।
पूर्वं परीक्षितं विप्रं वर्षेणैकेन सुन्दरि ॥ २८-१७ ॥
वर्षाभ्यां क्षत्रियं देवि वैश्यं संवत्सरैस्त्रिभिः ।
चतुर्भिर्वत्सरैः शूद्रं बोधयेद्विरहातुरम् ॥ २८-१८ ॥
यदिचेद्वासनाजीवस्तदा बोध्यश्च सर्वथा ।
स्वाप्निकश्चेत्तदा त्याज्यः अधिकारविपर्ययात् ॥ २८-१९ ॥
परीक्षा लक्षणैर्देवि पुरा प्रोक्ता मयानघे ।
अपरीक्षितजीवाय वितरेद्यदि बोधनम् ॥ २८-२० ॥
न गुरुं तं विजानीयात् वासनापि न सा भवेत् ।
शिष्येभ्यो धनमादाय सुखीस्यामिति यस्य धीः ॥ २८-२१ ॥
न गुरुं तं विजानीयात् केवलं धूर्त एव सः ।
धनाहारार्जने युक्ता दाम्भिका वेषधारिणः ॥ २८-२२ ॥
भ्रामयन्ति जनान् सर्वान् ज्ञानिवत्प्रियदर्शनाः ।
शिष्येणापि गुरुर्देवि परीक्ष्यः सर्वथैव हि ॥ २८-२३ ॥
यद्यज्ञानवशात् शिष्यो गुरुं लक्षणवर्जितम् ।
जानीयात्तत्क्षणं त्यक्त्वा गुरुमन्यं समाश्रयेत् ॥ २८-२४ ॥
गन्धलुब्धो यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत् ।
ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत् ॥ २८-२५ ॥
त्यजेन्मित्रममर्मज्ञं नारीं च व्यभिचारिणीम् ।
अहन्तादुष्टसम्बन्धं ज्ञानहीनं गुरुं त्यजेत् ॥ २८-२६ ॥
नदत्सु पञ्चवाद्येषु ब्राह्मणेषु पठत्सु च ।
गायन्तीषु तथा स्त्रीषु शिष्यं सम्बोधयेद् गुरुः ॥ २८-२७ ॥
आदौ शिष्यस्य देहं तु शोधयेन्निपुणो गुरुः ।
असंस्कृतशरीरस्तु न योग्यः स्यात्कथञ्चन ॥ २८-२८ ॥
कृतस्नानं समाहूय मुखाग्रे स्थापयेच्च तम् ।
शुभासनश्वेतवस्त्रवसानं मलवर्जितम् ॥ २८-२९ ॥
बोधयेत्तद्धृदाम्भोजे प्रदीपकलिकाकृतिः ।
आत्मचैतन्यमीशानि तच्च स्वात्मनि योजयेत् ॥ २८-३० ॥
ततोऽस्यपदयुगले भुवनानि चतुर्दश ।
लिङ्गप्रदेशेऽस्य भूतानि चिन्तयेत्परमेश्वरि ॥ २८-३१ ॥
अवशिष्टानि तत्त्वानि चिन्तयेद्धृदयाम्बुजे ।
कण्ठदेशे नादविन्दुगुणांश्च परिचिन्तयेत् ॥ २८-३२ ॥
ब्रह्मरन्ध्रे परं ब्रह्म पुरुषं प्रकृतीश्वरम् ।
एवं सञ्चिन्त्य देवेशि जुहुयात्तान्यनुक्रमात् ॥ २८-३३ ॥
जुहुयाल्लिङ्गदेशेस्य भुवनानि चतुर्दश ।
लिङ्गदेशस्थभूतानि हृदितत्वेषु होमयेत् ॥ २८-३४ ॥
हृदयस्थानि [हृदये यानि इति वा पाठः ।] तत्वानि बिन्दुनादे च ह्यर्पयेत् ।
ब्रह्मरन्ध्रे चिते देवि परब्रह्मणि निष्कले ॥ २८-३५ ॥
नादबिन्दुगुणान् हुत्वा प्रपञ्चविलयं स्मरेत् ।
निष्प्रपञ्चं तदा शिष्यं बोधयेत्परमेश्वरि ॥ २८-३६ ॥
न वर्णेषु तदा कश्चित् ब्राह्मणक्षत्रियादिषु ।
न देवोऽसि न गन्धर्वो नासुरः पन्नगोऽपि वा ॥ २८-३७ ॥
न त्वं देहो न त्वद्दहो नेन्द्रियाणि तथा मनः ।
न च प्राणो न बुद्धिस्त्व नाहङ्कारो भवान्मतः ॥ २८-३८ ॥
क्षरः सर्वप्रपञ्चोऽयमक्षरे प्रतिबिम्बतः ।
अक्षरस्य दिदृक्षाभूद् ब्रह्मलीलावलोकने ॥ २८-३९ ॥
तत्प्रियायाऽभवत्कामोऽक्षरलीलानिरीक्षणे ।
तत इच्छा समुद्भूता ब्रह्मण्यज्ञानमसृजत् ॥ २८-४० ॥
मोहाण्डं प्रविशन् साक्षी ददर्श स्वप्नगं जगत् ।
तत्र वृन्दावने रासलीलायां रमिता प्रिया ॥ २८-४१ ॥
अन्तर्हिते प्रिये कृष्णे दुःखाद्दुःखतरं गता ।
कालमायान्धकारोऽस्मिन् भ्रान्तासि बहुधा मुधा ॥ २८-४२ ॥
श्रीकृष्णस्य प्रिया चासि पूर्णस्य परमात्मनः ।
उद्बुध्य स्वप्नतश्चित्ते प्रियाभावं निजं श्रय ॥ २८-४३ ॥
तिरोभूय [तिरोभवित्री शनकैर्मायादेहमित्यपि पाठः ।] च शनकैर्मायादेहमनीप्सितम् ।
क्षरं चैवाक्षरं हित्त्वा स्वपतिं पुनरेष्यसि ॥ २८-४४ ॥
ब्रह्मानन्दरसज्ञानां [क्वचित्पुस्तके ४४-५५ श्लोकयोर्मध्ये एते ४५-५४ श्लोका नोपलभ्यन्ते । १८ मा०] ब्रह्मज्ञानवतां सताम् ।
पद्धतिं ब्रह्मसृष्टीनां वक्ष्यामि शृणु सुन्दरि ॥ २८-४५ ॥
गोत्रमुक्तं चिदानन्दं ब्रह्मानन्दो हि सद्गुरुः ।
शिखा ज्ञानमयो प्रोक्ता सूत्रमक्षररूपकम् ॥ २८-४६ ॥
किशोरी परमेष्टा च सेवनं पौरुषोत्तमम् ।
पातिव्रत्यमनन्यत्वं साधनं समुदाहृतम् ॥ २८-४७ ॥
वृन्दावनं नित्यमुक्तं विलाससुखसञ्ज्ञकम् ।
जाप्यं च युगलं नाम तारतम्यो (मो) मनुः स्मृतः ॥ २८-४८ ॥
ब्रह्मविद्या परा देवी देवो ब्रह्म सनातनम् ।
शाला गोलाक इत्युक्तो द्वारमूर्ध्वमुदाहृतम् ॥ २८-४९ ॥
स्वसंवेदः [सुसंवेदः सूक्ष्मो वेदः इत्यपि पाठः । स्वसंवेद्यः इत्यपि कश्चित् ।] समादिष्टः फलं नित्यविहारकम् ।
दिव्यब्रह्मपुरं धाम परात्परमुदाहृतम् ॥ २८-५० ॥
सद्गुरोश्चरणं क्षेत्रं सर्वशुद्धिकरं परम् ।
यमुनासञ्ज्ञकं तीर्थं मननं प्रेमलक्षणम् ॥ २८-५१ ॥
श्रीमद्भागवतं प्रोक्तं श्रवणं सारमद्भुतम् ।
ऋषिः प्रोक्तो महाविष्णुर्ज्ञानं जाग्रत्स्वरूपकम् ॥ २८-५२ ॥
आनन्दाख्यं कुलं प्राप्तं नित्ये धाम्नि प्रकीर्तितम् ।
सम्प्रदायश्चिदानन्दो निजानन्दैः प्रकाशितः ॥ २८-५३ ॥
एवं पद्धतिराख्याता पुरुषोत्तमसञ्ज्ञिका ।
वर्तितव्यं ततो भद्रे साधनैरात्मलब्धये ॥ २८-५४ ॥
प्रबोध्यैवं गुरुस्तस्मिन् चैतन्यं परमेश्वरि ।
दिव्यदृष्ट्यावलोकेन स्थापयेत्पुनरेव तत् ॥ २८-५५ ॥
ब्रह्मरन्ध्रपथा तस्मिन् चावतीर्ण इति स्मरन् ।
कण्ठदेशे नादबिन्दू स्थापयेच्च ततः परम् ॥ २८-५६ ॥
तत्वानि हृदयाम्भोजे लिङ्गे भूतानि पञ्च च ।
ततः पादप्रदेशे तु स्थापयेद्भुवनावलिम् ॥ २८-५७ ॥
एवं विराजं संस्कृत्य ततो मन्त्रं समादिशेत् ।
मन्त्रोपदेशतः पूर्वं गुरुं सम्पूजयेत्प्रिये ॥ २८-५८ ॥
सर्वस्वदक्षिणां दत्वा कृतकृत्यो भवेद्धि सः ।
तदर्द्धं वा तदर्धं वा तदर्द्धार्द्धमथापि वा ॥ २८-५९ ॥
सन्तोषयेद् गुरुं भक्त्या धनधान्याम्बरादिभिः ।
अन्येभ्योऽपि यथाशक्ति भूषावस्त्रादिकं ददेत् ॥ २८-६० ॥
साष्टाङ्गं च ततो देवि ! दण्डवत्पतितो भुवि ।
प्रणमेद् गुरुमात्मीयं गुरुरुत्थापयेच्च तम् ॥ २८-६१ ॥
उपवेश्य पुनः पार्श्वे लीलाभेदान् समादिशेत् ।
लीलाभेदा गुरुमुखाद्बोद्धव्या एव सुन्दरि ॥ २८-६२ ॥
ततो रहो रहश्चैव संस्थितो भावयेच्च तान् ।
प्रियाभावो यदा बुद्धेः कृतकृत्यो भवेत्तदा ॥ २८-६३ ॥
इति तेऽभिहितं देवि गोप्याद्गोप्यतरं च यत् ।
समासेन महादेवि ! भूयः किं श्रोतुमिच्छसि ॥ २८-६४ ॥
इति श्रीनारदपञ्चरात्रे श्रीमाहेश्वरतन्त्रे शिवपार्वतीसंवादे अष्टाविंशतिततं पटलम् ॥ २८-२८ ॥