अथ सप्तविंशं पटलम्
शिव उवाच
नित्यानन्दविहाराणां प्रियाणां परमेशितुः ।
स्वभर्त्तुर्भजनं देवि कर्त्तव्य सर्वथैव हि ॥ २७-१ ॥
भजनाङ्गं सदाचारः कर्त्तव्यः कर्मशुद्धये ।
न सिद्धाः सिद्धिमवाप्स्यन्ति सदाचारविवर्जिताः ॥ २७-२ ॥
आचारहीनं न पुनन्ति वेदा आचारहीनं न तपः पुनाति ।
आचारहीनं न पुनन्ति तीर्थान्याचारहीनस्य न चैव सिद्धिः ॥ २७-३ ॥
आचारः प्रथमो धर्म आचारो हन्त्यलक्षणम् ।
आचाराल्लभते शुद्धिं तस्मात्तं सततं चरेत् ॥ २७-४ ॥
अनाचारेण मालिन्यं बुद्धिः समधिगच्छति ।
लीलावधारणं नास्ति मलिने बुद्धिदर्पणे ॥ २७-५ ॥
आचारः कथितः सद्भिः सर्वधर्मेषु सर्वदा ।
आचाररहितो धर्मो ह्यधर्मत्वेन कल्प्यते ॥ २७-६ ॥
आचाररक्षणं तस्मात्कर्त्तव्यं सर्वथा प्रिये ।
आचारो द्विविधः प्रोक्तो बाह्याभ्यन्तर एव च ॥ २७-७ ॥
भावसंशुद्धिमेवैकामाचारं ह्यान्तरं विदुः ।
तत्सिद्धये देहसाध्यो बाह्यः शौचादिरुच्यते ॥ २७-८ ॥
साध्यो भावः साधनं तु देहशुध्यादिकं प्रिये ।
तमाचारं प्रवक्ष्यामि येन संशुध्यते मनः ॥ २७-९ ॥
नाभाषेन्नावलोकेत शृणुयान्न कथञ्चन ।
न स्पृशेन्नोपजिघ्रेत नाश्नीयाद्विमतं च यत् ॥ २७-१० ॥
यदेश्वरगुणान्वक्तुमीहते वाक् विजृम्भिता ।
तदैनां विध्यते पाप्मा विद्धा विमतभाषिणी ॥ २७-११ ॥
यदेश्वरं मूर्त्तिमन्तमालोकयितुमिच्छति ।
चक्षुस्तदा पाप्मविद्धं विमत पश्यति प्रिये ॥ २७-१२ ॥
यदेश्वरगुणान् श्रोतुमीहते श्रोत्रमिन्द्रियम् ।
तदैव पाप्मना विद्धं जानीयाद्विमते च तत् ॥ २७-१३ ॥
यदा निवेदितान्नेन नियमं रसनेहते ।
तदैव पाप्मना विद्धा विमतं प्रतिपद्यते ॥ २७-१४ ॥
पापरूपं विजानीयाद्विमताचरणं च तत् ।
विमताचरणं पापमिन्द्रियमुपगच्छति ॥ २७-१५ ॥
निरावरणमेवैतद्ध्यानाभ्यासः प्रपद्यते ।
नियम्य चेन्द्रियाण्यादौ अभ्यासेन दृढीयसा ॥ २७-१६ ॥
यदा सर्वेन्द्रियाणां च नियमं कर्तुमक्षमः ।
रसनेन्द्रियमेवैकं जेयं सर्वजिगीषया ॥ २७-१७ ॥
जिते रसे जितः कामः जिते [जिततृष्णे इति पाठः ।] कामे जितेन्द्रियः ।
जितजिह्वोपस्थरतेरसाध्यं किं तु [नु ।] विद्यते ॥ २७-१८ ॥
सिसृक्षोर्ब्रह्मणः पूर्वं स्तनाद्धर्मो विनिर्गतः ।
वृषरूपश्चतुर्वेदचतुःपादः शुभाकृतिः ॥ २७-१९ ॥
ज्ञानं वैराग्यमत्युग्र यस्य शृङ्गद्वयं प्रिये ।
सत्यं तपः कर्णयुग दमो दानं तु चक्षुषी ॥ २७-२० ॥
लाङ्गूलमस्य चैश्वर्यं रोमावलिः पुण्यसन्ततिः ।
तेन स्पृष्टाः प्रजाः सर्वाः शुद्धसत्वा बभूविरे ॥ २७-२१ ॥
ज्ञानवैराग्यसम्पन्ना मोक्षमार्गपरायणाः ।
तं दृष्ट्वा भगवान् ब्रह्मा पश्चात्पापमथासृजत् ॥ २७-२२ ॥
स पाप्मा महिषाकारस्तमोभूतः शरीरिषु ।
अज्ञानं चाप्यनैश्वर्यमवैराग्यमधर्मकम् ॥ २७-२३ ॥
चत्वारस्तस्य वै पादा छलद्रोहौ [श्रुतिद्वयम् ।] शृङ्गद्वयम् ।
क्रोधमोहौ कर्णयुगं कामलोभौ हि चक्षुषी ॥ २७-२४ ॥
मात्सर्यमुग्रलाङ्गूलं ब्रह्महत्या शिरोऽस्य च ।
सुरापानं च हृदय कटिः स्यादुपपातकम् ॥ २७-२५ ॥
तेन स्पृष्टाः प्रजाः सर्वा नष्टसत्त्वा [मलीमसः इति पाठः ।] मलीमसा ।
ज्ञानवैराग्यरहिताः काम्यकर्मकृतश्रमाः ॥ २७-२६ ॥
आसुरेष्वेव भावेषु व्यसज्जन्त विमोहिताः ।
तस्मात्तं तु परिज्ञाय देहेन्द्रियचरं प्रिये ॥ २७-२७ ॥
स्वाचारमाचरेत्प्राज्ञो यथा स्यादुज्ज्वलात्मधीः ।
उज्ज्वलत्व तदा बुद्धेः समं पश्यति वै यया ॥ २७-२८ ॥
सुखेषु विद्यमानेषु दुःखशोकभयादिकम् ।
पश्यन् विरमते तेषु शुद्धत्वं च तदा धियः ॥ २७-२९ ॥
न व्यथेन्निन्दया चित्तं हर्षते न च सस्तुवैः ।
उदासीनोरिमित्रेषु साम्य बुद्धिस्तदोज्वला ॥ २७-३० ॥
अलोलुपत्वमास्तिक्यं मुमुक्षुत्वं गभीरता ।
प्रसादः स्वात्मना सौख्यं लोकसङ्गनिवर्त्तनम् ॥ २७-३१ ॥
एकान्तसेवाभिरुचिर् दम्भमानविवर्ज्जनम् ।
एतानि यत्र जायन्ते तस्य बुद्धिः समुज्ज्वला ॥ २७-३२ ॥
आचारसेवनस्येह बुद्धिशुद्धिः परं फलम् ।
शुद्धायां ततो बुद्धौ लीलाध्यानेऽर्हतां व्रजेत् ॥ २७-३३ ॥
शास्त्रदुष्ट भावदुष्टं लोकदुष्टमथापि वा ।
वर्जयेन्मतिमान् देवि सत्वशुद्धिविधित्सया ॥ २७-३४ ॥
गुह्यशौचं पादशौचं हस्तशौचं महेश्वरि ।
मुखशौचं चतुर्थं च कुर्यात्सर्वत्र सर्वदा ॥ २७-३५ ॥
उच्छिष्टो न स्पृशेत् क्वापि सेवाद्रव्याणि शाम्भवि ।
प्रणम्य प्रविशेत्स्थानं निर्गच्छेच्च प्रणम्य च ॥ २७-३६ ॥
निष्ठीवनं प्रलापं च अधोवायुविसर्जनम् ।
औदासीन्यं भयं क्रोधं न कुर्यात्तत्र संस्थितः ॥ २७-३७ ॥
यथावर्णं यथाज्ञानं यथाज्येष्ठकनिष्ठकम् ।
तथैवोपविशेत्तत्र रागद्वेषविवर्जितः ॥ २७-३८ ॥
न निन्देन्मनसा वाचा कुमारीं ब्राह्मणं गुरुम् ।
दया भूतेषु कर्त्तव्या न हिंस्यात्कमपि प्रिये ॥ २७-३९ ॥
सर्वं सहेत परुषं देहानित्यत्वभावनात् ।
देहगेहकलत्राप्तमित्रद्रविणसम्पदः ॥ २७-४० ॥
स्वप्नविद्युन्निभाः पश्येन्नात्मानं तत्र सज्जयेत् ।
असदासक्तिवशतः संसारो न निवर्त्तते ॥ २७-४१ ॥
दानं दमो दया चेति न त्याज्यं सर्वथा त्रयम् ।
असत्यं न वदेद्वाक्यं वाचोऽपि मरणं हि तत् ॥ २७-४२ ॥
मृता वाक् नहि योग्या स्याद् गुणालापे परेशितुः ।
न परस्त्रीमुखे क्वापि दृष्टिं भोगेच्छया छिपेत् ॥ २७-४३ ॥
स्वस्मिन् स्त्रीभावनानश्येत्तस्मात्पातकमेव तत् ।
निर्विकाराणीन्द्रियाणि जातमात्रशिशोर्यथा ॥ २७-४४ ॥
ललनावृन्दमध्यस्थस्यापि चेतो द्विधा नहि ।
सखीभावः स्थिरस्तस्य विशुद्धश्च प्रियंवदे ॥ २७-४५ ॥
विशुद्धस्त्रीस्वभावा ये दृश्यन्ते पुरुषा अपि ।
निश्चयादवगन्तव्या प्रिया भगवतो हि ते ॥ २७-४६ ॥
स्त्रीदुष्टान् समयभ्रष्टान् भावनाविमुखान् शथान् ।
नास्तिकान् दुर्नयान्दुष्टान् परस्त्रीगमनोत्सुकान् ॥ २७-४७ ॥
विरोधिनः क्रूरचित्तान् श्रद्धाप्रेमविवर्जितान् ।
असदालापकान् देवि न पङ्क्त्यामुपवेशयेत् ॥ २७-४८ ॥
न पिबेत्तत्र पानीयमेकपात्रेण कर्हिचित् ।
पादुकावसनं शय्याशयनासनसंस्थितिम् ॥ २७-४९ ॥
न कुर्यादेव तैः साकं दोषावेशोन्यथा भवेत् ।
अदृष्टपुरुषैर्देवि देशान्तरनिवासिभिः ॥ २७-५० ॥
इन्द्रियार्थरतैर्दम्भच्छलेनापि समागतैः ।
न स्थितिः सह कर्त्तव्या परानन्दोत्सवे प्रिये ॥ २७-५१ ॥
अस्नातोऽधौतपादो वा ह्यनाचारो भयाकुलः ।
अधौतवसनो वापि नोत्सवं प्रविशेत्क्वचित् ॥ २७-५२ ॥
उत्सवे गुणगानादि कुर्यात्कृष्णकथाः शुभाः ।
न लौकिकीं कथां कुर्याद्विवदेन्न परस्परम् ॥ २७-५३ ॥
न मर्माणि वदेद्देवि न चोपद्रवमाचरेत् ।
परस्परं तु देवेशि स्वात्म्यैक्यं भावयेद्धिया ॥ २७-५४ ॥
रसावेशस्तदाभूयान्निर्विकारा यदा स्थितिः ।
तस्मात्तत्प्रवणं चेतः प्रकुर्वीत महोत्सवे ॥ २७-५५ ॥
ध्यायन्ति केचन निमीलितपक्ष्मभारा
गर्जन्ति हेतिपरिलब्धगुरुप्रमाणाः ।
नृत्यन्ति तद्रसविलीनमनोरथार्था
भक्त्या द्रवन्त इव दृक्कमलैगैलद्भिः ॥ २७-५६ ॥
तद्ध्यानदृष्टपदहृष्टधियः प्रसन्नाः
स्वानन्दसागरसमुच्छलदच्छभावाः ।
रोमाञ्चकञ्चुकविचित्रतनुप्रदेशा
जानन्ति नेदमखिलं च विभिन्नलिङ्गाः ॥ २७-५७ ॥
यज्जातमुत्सवे किञ्चित् वृत्तान्तं साध्वसाधु वा ।
हृदयाद्विस्मृतमिव बहिर्नैव प्रकाशयेत् ॥ २७-५८ ॥
यथावर्णविभेदेन स्वीकुर्याच्च निवेदितम् ।
पृथगासनपात्राणि कारयेत् सुरवन्दिते ॥ २७-५९ ॥
परस्परं प्रणमेदेवं कुर्यान्महोत्सवोत्सवम् ।
स्वपुत्रस्त्रीजन्मदिने गुरोर्जन्मविपर्यये ॥ २७-६० ॥
मङ्गले सम्पदाधिक्ये लाभे भक्तसमागमे ।
व्यतीपाते तथाष्टम्यामेकादश्यां च सङ्क्रमे ॥ २७-६१ ॥
पुष्यार्के चैव हस्तार्के ग्रहणे चन्द्रसूर्ययोः ।
कृष्णजन्माह्नि देवेशि राधाजन्मदिने तथा ॥ २७-६२ ॥
अवतारदिनेष्वेवं विष्णोरमिततेजसः ।
चैत्रे शुक्लस्य पञ्चम्यां भगवान्मीनरूपधृक् ॥ २७-६३ ॥
ज्येष्ठे शुक्ले द्वादश्यां ततः कूर्मस्वरूपधृक् ।
चैत्रे कृष्णनवम्यां तु हरिर्वाराहरूपधृक् ॥ २७-६४ ॥
वैशाखे शुक्लपक्षे तु चतुर्दश्यां दिनक्षये ।
प्रादुर्बभूव नृहरिर्भक्तरक्षार्थमुद्यतः ॥ २७-६५ ॥
वैशाखे शुक्लपक्षे तु तृतीयायां गिरीन्द्रजे ।
जमदग्निसुतो रामो रेणुकायामजीजनत् ॥ २७-६६ ॥
मासि भाद्रपदे देवि शुक्ले चैकादशी तिथिः ।
अदित्यां कश्यपाज्जातो वामनः सुरकार्यकृत् ॥ २७-६७ ॥
चैत्रे शुक्लनवम्यां तु रामो दशरथात्मजः ।
रावणस्य वधार्थाय कौशल्यायां परः पुमान् ॥ २७-६८ ॥
श्रावणे बहुले पक्षे अष्टम्यां च महानिशि ।
कृष्णः प्रादुरभूद् देवि सुरकार्यचिकीर्षया ॥ २७-६९ ॥
नभसे तु द्वितीयायां बलभद्रोऽभवद्धरिः ।
पौषशुक्ले तु सप्तम्यां बौद्धः प्रादुर्भविष्यति ॥ २७-७० ॥
माघशुक्लतृतीयायां कल्की प्रादुर्भविष्यति ।
एतेष्वन्येषु पुण्येषु दिवसेषु विशेषतः ॥ २७-७१ ॥
प्रकुर्यादुत्सवं देवि वित्तशाठ्यविवर्जितः ।
नोत्सवो भक्ष्यभोज्याद्यैर्न पुष्परचनादिभिः ॥ २७-७२ ॥
रसावेशो भवेद्यत्र तमाहुः परमोत्सवम् ।
निर्विकारं भवेच्चित्तं भगवज्ज्ञानगोचरम् ॥ २७-७३ ॥
प्रेमैकरर्सिकं [प्रेमैक्य रासिकम् इत्यपि पाठः ।] शुद्धं तत्रावेशो भवेद्ध्रुवम् ।
उत्सवे देवदेवेशि त्रिविधैव जनसङ्गमः ॥ २७-७४ ॥
प्रियाणां वासनाश्चैको देवसर्गो द्वितीयकः ।
तृतीयो गौतमैः शप्ता ये च वैडालिनः स्मृताः ॥ २७-७५ ॥
वासनासु रसावेशः शुद्धो नैवात्र संशयः ।
देवेषु देवतावेशो भगवत्प्रेमवत्स्वपि ॥ २७-७६ ॥
प्रेमहीना दुराचाराः परस्त्रीधनलम्पटाः ।
पिशुनाः वञ्चकाः क्रूराः कुटिलाः पापचारिणः ॥ २७-७७ ॥
आचाररहिता दुष्टा निर्लज्जाः कलहोत्सुकाः ।
आसुरं भावमापन्ना वेदशास्त्रार्थनिन्दकाः ॥ २७-७८ ॥
ते वै वैडालिनो देवि ह्यधिकारविवर्जिताः ।
असुरावेशिणस्ते तु मयोक्तमवधार्यताम् ॥ २७-७९ ॥
जानीयात्तत्तदावेशं तत्तच्चेष्टानुरूपतः ।
इत्येतान् त्रिविधान् ज्ञात्वा महोत्सवगतान् शिवे ॥ २७-८० ॥
व्यवहार्यं यथायोग्यं सङ्करो न भवेद्यथा ।
यथायोग्यं यथाकालं यथाद्रव्यं यथोचितम् ॥ २७-८१ ॥
तथा कुर्यान्महेशानि ह्यन्यथा पतितो भवेत् ।
इति तेऽभिहितं देवि किं भूयः श्रोतुमिच्छसि ॥ २७-८२ ॥
तदहं ते प्रवक्ष्यामि सुगुह्यमपि विस्तरात् ॥ २७-८३ ॥
इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे सप्तविंशं पटलम् ॥ २७-२७ ॥