२६

अथ षड्विंशं पटलम्

पार्वत्युवाच

महेश श्रोतुमिच्छामि साधनानां विनिर्णयम् ।
यस्य श्रवणमात्रेण सर्वं हि सफलं भवेत् ॥ २६-१ ॥

श्रीशिव उवाच

शृणु देवि प्रवक्ष्यामि साधनस्य विनिर्णयम् ।
गुह्याद्गुह्यतरं साक्षान्न वाच्यं यस्य कस्य कस्यचित् ॥ २६-२ ॥

तन्त्रार्थोऽयं रहस्यार्थो यस्तु वेदेषु गोपितः ।
ईश्वरात्तु मया लब्धः प्राप्तस्तेन सदाशिवात् ॥ २६-३ ॥

मञ्चे फलकमापन्नो लक्षयोजनविस्तृते ।
सदाशिवोऽशृणोदेतत्कूटस्थोपरिसंस्थया ॥ २६-४ ॥

इच्छाशक्त्या तु देवेशि वर्ण्यमानं मया रहः ।
तच्च ते गदितं साध्वि शृण्वतः परमप्युत ॥ २६-५ ॥

एकदा मे वितर्कोऽम्भूद्विजने स्मरतः प्रिये ।
अहमेवेश्वरो लोके मदन्यो वापि कश्चन ॥ २६-६ ॥

इति तर्कयता देवि समाधिर्हि मया धृतः ।
तस्मिन् युगसहस्राणि व्यतीयुः पञ्च सुन्दरि ॥ २६-७ ॥

[समाधिगीतम् इ० पा० ।] समाधिस्थेन देवेशि श्रुतमीश्वरभाषितम् ।
तच्छ्रुत्वा हृदयं देवि निर्विकल्पमभून्मम ॥ २६-८ ॥

तदाप्रभृति देवेशि लीलामेनां रहःस्थितः ।
ध्यायामि ध्यानयोगेन निर्विकल्पेन चेतसा ॥ २६-९ ॥

समाधावीश्वरेणोक्तमिदं तन्त्रं यतो मम ।
तस्मान्माहेश्वर तन्त्रमित्येवङ्ख्यातिमागतम् ॥ २६-१० ॥

चतुःषष्टीनि तन्त्राणि मयैवोक्तानि पार्वति ।
मोहोच्चाटवशीकारमारणार्थानि तानि तु ॥ २६-११ ॥

सद्यःप्रत्ययहेतूनि नानामन्त्रमयानि च ।
मोहनानि तु लोकस्य इन्द्रजालकलादिभिः ॥ २६-१२ ॥

तानि विस्तरतो देवि ! तदाग्रे कथितानि च ।
न तेषु विद्यते किञ्चित्परमार्थं सुरेश्वरि ॥ २६-१३ ॥

मायिक वर्णितं सर्वं मायाजीवोपयोगिकम् [मया इ० पा० ।] ।
इदं माहेश्वरं तन्त्रं समाधौ यच्छ्रुतं मया ॥ २६-१४ ॥

प्रबोधसाधनीभूतं प्रियाणामिति मे मतम् ।
अन्यथेश्वरविज्ञानान्नान्यदेतत्प्रयोजनम् [तन्महेश्वरविख्यातं तन्मयेश्वरविख्यातं तन्मेश्वरविख्या वेत्यपपि पाठः ।] ॥ २६-१५ ॥

वैष्णवान्यपि तन्त्राणि पञ्चरात्राभिधानि तु ।
विष्णुप्रोक्तानि देवेशि पञ्चविंशतिसङ्ख्यया ॥ २६-१६ ॥

हयशीर्षं तन्त्रमाद्यं तन्त्रं सम्मोहनं तथा ।
वैभवं पौष्करं तन्त्रं प्रह्लादं गार्ग्यगालवम् ॥ २६-१७ ॥

नारदीयं च श्रीप्रश्नं [वैष्णवं पौष्करं तन्त्रं प्रह्लादं गार्गमाणवम् ।
नारदीयं च श्री वत्सम् ॥। इति वा पाठः ।] शाण्डिल्यं चेश्वरं तथा ।
सत्योक्तं शौनकं तन्त्रं वाशिष्ठं ज्ञानसागरम् ॥ २६-१८ ॥

स्वायम्भुवं कापिलं च तार्क्ष्यं नारायणीयकम् ।
आत्रेयं [नारसिंहाक्षम् इति वा पाठः ।] नारसिंहाख्यम् आनन्दं [आदाक्षम् आट्टाक्षम् इति वा पाठः ।] च तथारुणम् ॥ २६-१९ ॥

वैहायसं तथा ज्ञानं विश्वोक्तं चेति सुन्दरि ।
अत्यन्तस्खलितानाञ्च जनानां वेदमार्गतः ॥ २६-२० ॥

पञ्चरात्रादयो मार्गाः कालेनैवोपकारकाः ।
बौद्धतन्त्राणि देवेशि वर्त्तन्ते सुबहून्यपि ॥ २६-२१ ॥

तानि प्रोक्तानि सर्वाणि बौद्धरूपेण विष्णुना ।
न तत्र धर्मलेशोऽस्ति मोहनानि दुरात्मनाम् ॥ २६-२२ ॥

अन्ते तु नरकायैव भविष्यन्ति न संशयः ।

पार्वत्युवाच

किमर्थं देवदेवेन विष्णुना सत्वमूर्त्तिना ॥ २६-२३ ॥

दयावतापि लोकस्य प्रतारणमहो कृतम् ।
निर्दोषे पुरुषे देव नानृतं स्यात्कदाचन ॥ २६-२४ ॥

केन प्रयुक्तस्तु हरिर्मोहशास्त्रमरीरचत् ।
एतन्मे ब्रूहि सर्वज्ञ सन्देहविनिवृत्तये ॥ २६-२५ ॥

शिव उवाच

शृणु देवि प्रवक्ष्यामि कारणं मोहकल्पने ।
एकदा विधिविष्णू च स्वाभिमानावृतान्तरौ ॥ २६-२६ ॥

नित्यं विवदमानौ तावन्योऽन्यं प्रतिचक्रतुः ।
अहं ब्रह्मेति न भवानित्येवं पूर्णमानिनौ ॥ २६-२७ ॥

क्रुद्धचित्तावुभौ देवि शेपतुस्तौ परस्परम् ।

ब्रह्मोवाच

यस्मात्त्वं मामवज्ञाय स्वात्मानं बहु मन्यसे ॥ २६-२८ ॥

अपूज्यस्त्वं तु लोकेषु भविष्यसि न संशयः ।
इत्येव दारुणं शापं निशम्य मधुसूदनः ॥ २६-२९ ॥

क्रुद्धः शापं प्रतिददौ त्वमप्येवं भविष्यसि ।
अन्योऽन्यं शापमाश्राव्य भवितव्येन मोहितौ ॥ २६-३० ॥

मामेव शरणं यातौ परिम्लानमुखावुभौ ।
व्यवस्था तु कृता देवि मया शापस्य वै तयोः ॥ २६-३१ ॥

ब्रह्मणो यन्मया प्रोक्त तत्ते वक्ष्यामि संशृणु ।
ब्रह्मन्नो वैष्णवं वाक्यमन्यथा भवति क्वचित् ॥ २६-३२ ॥

तस्मादपूज्यो लोकेषु भविष्यति भवान् किल ।
पञ्चायतनपूजायां न शापस्ते भविष्यति ॥ २६-३३ ॥

केवलं भवतः पूजाबाधकं शाप एव हि ।
त्वमेकं वपुराधत्स्व शापस्य विषयं हरे ॥ २६-३४ ॥

तत्रैवास्तु च ते शापः सत्त्वमूर्त्तौ न सर्वथा ।
एवमुक्ते मया चोभौ ययतुः स्वस्य केतनम् ॥ २६-३५ ॥

एतस्मिन्नन्तरे देवि देवासुरमहारणः ।
वभूव तत्र समरे जिता देवैः सुरेतराः ॥ २६-३६ ॥

जयोपाय प्रकुर्बाणास्तपस्तेपुर्महत्तरम् ।
तपोविघ्नाय तान् देवो बौद्धरूप स्वयं गतः ॥ २६-३७ ॥

बौद्धतन्त्राणि निर्माय दैत्येभ्यः समदर्शयत् ।
देहादन्यो न चात्मास्ति न मुक्तिर्मरणात् परा ॥ २६-३८ ॥

न देवाः पितरः सन्ति मुधा वेदेन दर्शिताः ।
स्ववृत्तये तु निगमः कल्पितो ब्राह्मणैरिह ॥ २६-३९ ॥

सर्वथा न प्रमाणत्वे धार्यः स्यादसुरेश्वराः ।
एवं तन्त्रेषु नैरात्म्यवादमुख्येषु मोहिताः ॥ २६-४० ॥

असुराः समसज्जन्त बौद्धमायाहृताशयाः ।
तदा प्रभृति तद्रूप अपूज्यत्वं हरेर्ययौ ॥ २६-४१ ॥

बौद्धोपदेशस्य [शुद्धोदनस्य च गृहे जातस्य इत्यपि पाठः ।] ग्रहो जातश्च परमेश्वरि ।
तस्मात्तदुक्ततन्त्राणि नास्तिवादपराणि च ॥ २६-४२ ॥

न ग्राह्याणि बुधैर्देवि धर्माधर्मविचारणे ।
इदं माहेश्वरं तन्त्रं सर्वतन्त्रोत्तमोत्तमम् ॥ २६-४३ ॥

सामरस्येच्छया शक्त्या यथाभूतार्थमीरितम् ।
अक्षरस्यासनीभूतस्तन्निशम्य सदाशिवः ॥ २६-४४ ॥

प्रोक्तवानीश्वरायैतत् यथाश्रुतमनिन्दिते ।
समाधावीश्वरः प्राह मह्यं देवि यथाश्रुतम् ॥ २६-४५ ॥

मयापि च तव स्नेहादुच्यते नान्यथा प्रिये ।
त्वया तु गोपनीयं हि न वाच्यं यस्य कस्यचित् ॥ २६-४६ ॥

एतत्तन्त्रार्थविज्ञाने न सर्वे ह्यधिकारिणः ।

पार्वत्युवाच

अधिकारविहीनोऽपि यदि चात्र प्रवर्त्तते ॥ २६-४७ ॥

निःशङ्को निर्भयो भूत्वा प्रेमासक्तिसमन्वितः ।
नित्यानन्दं च पुरुष विभाव्य स्वपतिं हृदि ॥ २६-४८ ॥

तदीयविरहज्वालाग्लपितां तनुमुत्सृजेत् ।
कां गतिं याति देवेश तन्मे साधु निरूपय ॥ २६-४९ ॥

शिव उवाच

ब्रह्माभासमयः कश्चिद्यदि जीवः परिभ्रमन् ।
अनेकजन्मसंसिद्धपुण्यराशिभिरूर्ज्जितैः ॥ २६-५० ॥

साधुसङ्गेन देवेशि यदिदं ज्ञानमाप्नुयात् ।
जितेन्द्रियो निविंषयः प्रेमासक्तिसमन्वितः ॥ २६-५१ ॥

त्यजन् देहमवाप्नोति कुमार्यः प्रापुरेव यत् ।
न जले जलवत्तस्य लयो भवति चाक्षरे ॥ २६-५२ ॥

यदय विरही जातो नित्यलीलाविहारिणि ।
न पश्यति तथा चापि नित्यलीलाविहारिणम् ॥ २६-५३ ॥

अक्षराभासमात्रत्त्वात् स्वस्यैव परमेश्वरि ।
तस्माद् वृन्दावने देवि [अक्षरे हृदयङ्गमे इत्यपि पाठः ।] कूटस्थहृदयङ्गमे ॥ २६-५४ ॥

लीलामनुभवन् तिष्ठेत् तिष्ठेत् पुनरागविवर्ज्जितः ।
इति ते निर्णयः प्रोक्तोऽनधिकारिणि सुन्दरि ॥ २६-५५ ॥

अतः परं च भजने निर्णयं वच्मि सं शृणु ॥ २६-५६ ॥

इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे षड्विंश पटलम् ॥ २६-२६ ॥