अथ पञ्चविंशं पटलम्
शिव उवाच
पुरा ह्यविद्यमानत्त्वान्नित्यतायाः कथं स्थितिः ।
इति यद्देवि ते प्रोक्त [पृष्ठम् इत्यपि पाठः ।] तत्र मे निर्णयं [निर्णये इ० पा० ।] शृणु ॥ २५-१ ॥
अविद्यमानं यत्किञ्चिन्नैव प्रादुर्भविष्यति ।
सर्वथा विद्यमानं हि वस्तु प्रादुर्भवेत्प्रिये ॥ २५-२ ॥
तस्मात्सदंशतो देवि प्रपञ्च उपवर्ण्यते ।
घटो नास्तीत्युच्यमाने घटसत्ता तु लभ्यते ॥ २५-३ ॥
असच्छ्रुत्या तथा देवि प्रपञ्चः सन्निरूप्यते ।
अपरोक्षपरोक्षत्व सदसच्छ्रुतिनोदितम् ॥ २५-४ ॥
तथा प्रपञ्चलीलेय रसलीलापि तादृशी ।
सर्वास्ता नित्यरूपा हि विज्ञेया वेदवादिभिः ॥ २५-५ ॥
यथा मृदि घटस्यैव प्रागभावः प्रकल्प्यते ।
मृत्सकाशात्समुत्पत्तिः पश्चात्तस्योपचर्यते ॥ २५-६ ॥
न पुनस्तस्य देवेशि ह्यभावोऽत्यन्तसञ्ज्ञितः ।
आम्रबीजस्थितो ह्याम्रस्तस्माद् व्यक्तो यथा भवेत् ॥ २५-७ ॥
अभूतमेव देवेशि यदि व्यक्तिं प्रयाति हि ।
आम्रबीजात् [आम्रबीजादुभ्रवस्य इत्यपि पाठः ।] छुद्छुदस्य कथं व्यक्तिर्भवेन्नहि ॥ २५-८ ॥
व्यावहारिकी वास्तवी तथा च प्रातिभासिका ।
सत्ता तु त्रिविधा ज्ञेया देवि शास्त्रार्थकोविदैः ॥ २५-९ ॥
शुक्तौ रजतमित्येषा सत्ता स्यात्प्रातिभासिकी ।
गजाश्वादिमहासम्पत् [स्वप्नवत् इत्यर्थ ।] स्वाप्निकी वापि तद्विधा ॥ २५-१० ॥
व्यवहारार्थमित्येषा जागर्तिं व्यावहारिकी ।
ब्रह्मसत्ता तु देवेशि वास्तवी परिकीर्त्तिता ॥ २५-११ ॥
ब्रह्मसत्तावशाद् देवि लीलासत्यत्वमुच्यते ।
सत्यस्याभावमीशानि शक्तः कर्त्तं न कश्चन ॥ २५-१२ ॥
तस्माद् देवि यथाकाल लीलाविर्भावमुच्यते ।
द्वादशद्वादशतमे स्वामिन्या वत्सरे प्रिये ॥ २५-१३ ॥
आविर्भवति लीलेयं पौनःपुन्येन सर्वदा ।
एतावति गते काले ह्यक्षरे परमात्मनि ॥ २५-१४ ॥
रहस्यरमणालोके जायते सा सुमङ्गला ।
ततः प्रियासु जायेत लीलाविस्तरणं ततः ॥ २५-१५ ॥
अक्षरात्मनि सा लीला ततश्चास्थिरतां व्रजेत् ।
स्मृतिमात्रा हि सा देवि न तु साक्षात्कदाचन ॥ २५-१६ ॥
गते द्वादशमे वर्षे स्वामिन्याः परमेश्वरि ।
पुनस्तथावलोकाय कामांशेनात्मयोगतः [नामयोगतः इत्यपि पाठः ।] ॥ २५-१७ ॥
इच्छा प्रवर्त्तते देवि कूटस्थस्य परात्मनः ।
ततश्च त्रिविधा [एतल्लीलात्रैविध्यं सुन्दरीतन्त्रे आलमन्दारसंहितायां श्रीशिवेन श्रीपार्वत्यै सुस्पष्टं निरूपितम् ।] लीला काले प्रादुर्भवेत्प्रिये ॥ २५-१८ ॥
श्वेतद्वीपस्य तु च्छाया मथुरायां प्रतिष्ठिता ।
वैकुण्ठप्रतिबिम्बस्तु द्वारिकायां तथा प्रिये ॥ २५-१९ ॥
व्रजस्तु साक्षाद्देवेशि गोलोकप्रतिबिम्बजः ।
गोलोकातीत[तथैवोक्तं पुराणसंहितायां प्रथमेऽध्याये-
एवं ब्रह्मणि चिन्मात्रे निर्गुणे भेदवर्जिते ।
गोलोकसञ्ज्ञके कृष्णो दिव्यतीति श्रुतं मम ॥ २५-५४ ॥
नातः परतरं किञ्चिन्निगमागमयोरपि ।
तथापि निगमो वक्ति ह्यक्षरात् परतः परः ॥ २५-५५ ॥
गोलोकवासिभगवानक्षरात्पर उच्यते ।
तस्मादपि परः कोऽसौ श्रुतिभिर्गीयते सदा ॥ २५-५६ ॥
पाद्मेऽपि गोलोकलीलातोऽस्याः लीलायाः परत्वं पठ्यते ।]लीला [लीलेयम् इत्यपि पाठ ।] च रसानन्दमयी शिवे ॥ २५-२० ॥
आविर्भवति देवेशि समये समये हि सा ।
समयं तं प्रवक्ष्यामि शृणुष्वैकाग्रमानसा ॥ २५-२१ ॥
परमाणुद्वयमणुः त्रसरेणुः त्रिभिश्च तैः ।
त्रयरेणुत्रयेणैव कालः स्यात् त्रुटितसञ्ज्ञितः ॥ २५-२२ ॥
तच्छतेन भवेद्वेधः त्रिभिर्वेधैर्लवः स्मृतः ।
निमिषस्त्रिलवैर्देवि क्षणो ज्ञेयस्त्रिभिश्च तैः ॥ २५-२३ ॥
क्षणैश्च पञ्चभिः काष्ठा पञ्चभिर्दशभिस्तथा ।
काष्ठाभिर्लघु विज्ञेयं लघुभिर्दशपञ्चभिः ॥ २५-२४ ॥
घटिकैका तु विज्ञेया मुहूर्तो घटिकाद्वयम् ।
प्रहरः सप्तघटिकाश्चतुर्भिस्तैरहः स्मृतः ॥ २५-२५ ॥
पुनश्चतुर्भिः प्रहरैरुच्यते तदहर्निशम् ॥ २५-२६ ॥
दशभिः पञ्चभिः पक्षः पुनश्च दशपञ्चभिः ।
आद्यः शुक्लस्तथा कृष्णः पितृणां तदहर्निशम् ॥ २५-२७ ॥
मासः पक्षद्वयेनोक्तः तावेव द्वौ ऋतुः स्मृतः ।
ऋतुत्रयेणाप्ययनं दक्षिणं परिकीर्तितम् ॥ २५-२८ ॥
त्रयेणैवोत्तरं प्राहुर्देवानां तदहर्निशम् ।
संवत्सरस्तु ह्ययनद्वयं देवि निगद्यते ।
तच्छतं मानवानां च परमायुर्निरूपितम् ॥ २५-२९ ॥
दिव्यैर्द्वादशसाहस्रैर्वर्षाणां सुरवन्दिते ।
कृतं त्रेता द्वापरश्च कलिश्चेति चतुर्युगाः ॥ २५-३० ॥
चतुर्युगीसहस्रेण ब्रह्मणो दिनमुच्यते ।
तावत्येव भवेद्रात्रिस्त्रिलोकी यत्र लीयते ॥ २५-३१ ॥
ब्रह्मणो दिवसे जाता मनवस्तु चतुर्दश ।
प्रतिमन्वन्तरे देवि युगानामेकसप्ततिः ॥ २५-३२ ॥
प्रतिमन्वन्तरे देवि विष्णोरवतरणं भुवि ।
इन्द्राद्या देवताश्चैव तथा सप्तर्षयश्च ये ॥ २५-३३ ॥
मन्वन्तरविभेदेन भिन्ना एव भवन्ति हि ।
स्वायम्भुव स्वारोचिषोत्तमतामसरेवताः ॥ २५-३४ ॥
चाक्षुषश्चेति मनवो व्यतिक्रान्ताः षडम्बिके ।
वैवस्वतो मनुर्नाम सप्तमोऽद्य प्रवर्तते ॥ २५-३५ ॥
चतुर्युगी व्यतिक्रान्ता तस्याष्टाविंशति प्रिये ।
अष्टाविंशतिके देवि कलौ लीलेयमागता ॥ २५-३६ ॥
परार्द्धः प्रथमोऽतीतो द्वितीयस्तु प्रवर्तते ।
तत्रापि प्रथमाब्दस्य नवमो मास उच्यते ॥ २५-३७ ॥
दिन तु षोडशं चैव यामस्तस्यद्वितीयकः ।
मुहूर्त्तं तृतीयं देवि वर्त्ततेऽद्य प्रियंवदे ॥ २५-३८ ॥
एवं विधेरहोरात्रैर्ब्रह्मणो हि दिनं स्मृतम् ।
पक्षमासविभेदेन यावत्संवत्सरः प्रिये ॥ २५-३९ ॥
एवं संवत्सरशत तदा स्याद् ब्रह्मणो लयः ।
विष्णोर्नेत्रनिमेषेण यात्यायुर्ब्रह्मणोऽखिलम् ॥ २५-४० ॥
तावन्निमेषमारभ्य लवक्षणविभेदतः ।
यावद्वषेशत विष्णोर्मदीयः स्यान्निमेषकः ॥ २५-४१ ॥
मन्निमेषक्रमेणापि यावद्वर्षशतं भवेत् ।
निमेषमात्रमीशस्य तन्निमेषक्रमेण च ॥ २५-४२ ॥
शतवर्षं भवेद्यावत्तावच्छिवनिमेषकः ।
तन्निमेषक्रमेणैव यावद्वर्षसहस्रकम् ॥ २५-४३ ॥
अपाङ्गस्फुरणं तावत्स्वामिन्याः कृष्णविभ्रमे ।
तन्निमेषक्रमेणैव वर्षं द्वादशकं भवेत् ॥ २५-४४ ॥
लीलावलोकनार्थाय भूयः कामो भवेत्तदा ।
वर्षद्वादशकेऽतीते स्वामिन्याः सुरपूजिते ॥ २५-४५ ॥
पौनःपुन्येन लीलायाः नित्याविर्भाव उच्यते ।
अक्षरस्यैव हृदये यः कामांशोऽप्यधिष्ठितः ॥ २५-४६ ॥
तत्संयोगाद्दिदृक्षास्य स्वस्वकाले भवेद्धि सा ।
एवं नित्येव सा लीला रसरूपा प्रियवदे ॥ २५-४७ ॥
संयोगविप्रलम्भाख्यदलाभ्यां यानुवर्णिता ।
रसो यदाविप्रलम्भदलं समधितिष्ठति ॥ २५-४८ ॥
तदेवाविर्भवत्येषा लीला च सुरपूजिते ।
यदा तु संयोगदलं समधिव्याप्य तिष्ठति ॥ २५-४९ ॥
निजधाम्नि तदा लीला साक्षात्कृष्णकृता भवेत् ।
यदा संयोगविश्लेषसन्धिं याति रसः प्रिये ॥ २५-५० ॥
तदा प्रबोधसमयो निकटः कृष्णचेतसाम् ।
गुरोः सत्सम्प्रदायेन शास्त्रार्थस्यानुरूपतः ॥ २५-५१ ॥
वर्त्तितव्यं ततो भद्रं साधनैरात्मलब्धये ।
इत्येवं ते मया ख्यातं यत्पृष्टोऽहं सुलोचने ॥ २५-५२ ॥
समासेन महेशानि किं भूयः श्रोतुमिच्छसि ? ॥ २५-५३ ॥
इति श्रीनारदपञ्चरात्रे श्रीमाहेश्वरतन्त्रे शिवपार्वतीसंवादे पञ्चविंशं पटलम् ॥ २५-२५ ॥