२४

अथ चतुर्विंशं पटलम्

पार्वत्युवाच

देव देव महेशान धूर्जटे नीललोहित ।
भूयोऽहं श्रोतुमिच्छामि नित्यलीलाविनिर्णयम् ॥ २४-१ ॥

निर्गुणे स्यात्कथं लीला लीला चेन्निर्गुणः कथम् ।
सगुणे वा कथं लीला नित्या गुणमयी यतः ॥ २४-२ ॥

यत्तु कालत्रयाबाध्यं तच्च नित्यं प्रचक्षते ।
कदाचिद्वा पुरा जाता लीलेयं वा भविष्यति ॥ २४-३ ॥

अथवा नैव जातेयं भविष्यति न वा पुनः ।
इदानीं लीला चेज्जाता जन्यकार्यं विनश्यति ॥ २४-४ ॥

कथं नित्येति तां वक्तुं शक्यते विदुषा प्रभो ।
यद्यक्षरस्य हृदये लीला नित्यत्वमागता ॥ २४-५ ॥

पुरा ह्यविद्यामानत्वान्नित्यतायाः कथं स्थितिः ।
इति मे संशयं देव छेत्तुमर्हसि साम्प्रतम् ॥ २४-६ ॥

त्वदन्यं नैव पश्यामि सन्देहविनिवर्त्तनम् ।
न तवाविदितं किञ्चित्सर्वज्ञोऽसि यतः स्वयम् ॥ २४-७ ॥

शिव उवाच

शृणु पार्वति वक्ष्यामि तव स्नेहादशेषतः ।
यस्य श्रवणमात्रेण भवेद्विज्ञानमुत्तमम् ॥ २४-८ ॥

निर्गुणेप्यक्षरातीते लीलायाः किं विरुध्यते ।
सगुणस्य तु या लीला सगुणा सा निगद्यते ॥ २४-९ ॥

निर्गुणे या भवेल्लीला सा लीला निर्गुणा भवेत् ।
निर्णयं तत्र वक्ष्यामि लीलाया ब्रह्मणस्तथा ॥ २४-१० ॥

रसरूपं भवेद् ब्रह्म वेदविद्यासु गीयते ।
संयोगविप्रलम्भात्मा रसः स्याद् द्विदलात्मकः [द्रष्टव्य- ११,२१-२२ पृ० १२२ ।] ॥ २४-११ ॥

संयुक्तयोस्तु संयोगो विप्रलम्भो वियुक्तयोः ।
नानाभावात्मिका तत्र लीला भवति शाश्वती ॥ २४-१२ ॥

ब्रह्मणो निर्गुणत्वाच्च नित्यत्वाच्चेति सुन्दरि ! ।
नित्या च निर्गुणा चैव लीलेयं न विरुध्यते ॥ २४-१३ ॥

केचिदाहुर्निर्गुणस्य नैव लीलोपयुज्यते ।
लीलाविशिष्टं [लीलाविष्टं च इत्यपि पाठः ।] सगुणं मायासम्बन्धभावतः ॥ २४-१४ ॥

निर्गुणं तु परं सूक्ष्ममवाङ्मानसगोचरम् ।
वर्णयन्ति विभागेन मायामोहितचेतसः ॥ २४-१५ ॥

श्रुतेर्विरोधमाशङ्क्य विनियोगः पृथक् कृतः ।
रसश्रुतिविरोध तु न ते पश्यन्ति मोहिताः ॥ २४-१६ ॥

निषेधयन्ति चाकारं श्रुतयः प्राकृतं प्रिये ।
आनन्दमात्रमाकारं रसश्रुतिरुपासते ॥ २४-१७ ॥

अन्यथाद्विदलः सोऽयं श्रुतिसिद्धः प्रियवदे ।
निराकारस्य देवेशि नोपयुक्तः कदाचन ॥ २४-१८ ॥

प्रलापाः शतशः सन्ति श्रुतियुक्तिमजानताम् ।
न तेषु रमते चित्तं रसज्ञस्य विवेकिनः ॥ २४-१९ ॥

रसस्तादृग्विधो देवि लीलाभिर्योनुभूयते ।
तस्माल्लीलारसमयी रसो लीलामयः स्मृतः ॥ २४-२० ॥

तादात्म्यादेकरूपत्त्वाल्लीला ब्रह्ममयी भवेत् ।
लीलोपयोगिनो भावा विभावा व्यभिचारिणः ॥ २४-२१ ॥

आलम्बनानुभावाश्च तेऽपि तादृग्विधाः प्रिये ! ।
चन्द्रालङ्कारभूषादिमालालेपसमीरणाः ॥ २४-२२ ॥

दीर्घिकोपवनाराम-ऋतुवृक्षलतादयः ।
वस्त्रपानाशनं भृङ्गशुककोकिलकूजितम् ॥ २४-२३ ॥

रसोत्पादनसामग्री रसरूपा हि सा स्मृता ।
लीलोपयोगिनस्तस्मात् पदार्था रसरूपिणः ॥ २४-२४ ॥

द्रवीभूतः घनीभूतो रसस्य द्विविधा स्थितिः ।
द्रवीभूतः प्रियाधारो घनीभूतोक्षिगोचरः ॥ २४-२५ ॥

तस्मात्प्रियाभीष्टभावान् स्वतः प्रकटयत्यसौ ।
द्रवीभूतः प्रियाधारः प्रियाभावात्मको रसः ॥ २४-२६ ॥

प्राधान्यं तत्र चेच्छन्ति घनीभूतादपि प्रिये ! ।
रसो नैव प्रसिध्येत प्रियालम्बनवर्जितः ॥ २४-२७ ॥

प्रियादर्शे रसः पश्येत् स्वात्मानं प्रतिबिम्बवत् ।
आदर्शापसरे यद्वन्मुखस्यानुपलम्भनम् ॥ २४-२८ ॥

अङ्गहीनो रसस्तद्वत्स्वानुभूतिं न विन्दति ।
आनन्दो हि रसस्तस्मात्प्रियाप्रियदलद्वयम् ॥ २४-२९ ॥

आनन्दरूपा सामग्री सर्वभावात्मको रसः ।
न मायागुणसंसर्गः कदाचित्कुत्रचित्प्रिये ॥ २४-३० ॥

रसरूपं निर्गुणं च नित्यलीलाविहारि यत् ।
अद्वैतं ब्रह्म परमं पुरुषोत्तमसञ्ज्ञकम् ॥ २४-३१ ॥

अतीतानागता चासौ वर्तमानापि सुन्दरि ।
नित्या एवेति विज्ञेया लीलेयमनपायिनी ॥ २४-३२ ॥

इत्येतत्कथितं देवि प्रश्नमन्यं निशामय ।
यस्य श्रवणमात्रेण सन्देहो विनिवर्त्तते ॥ २४-३३ ॥

इति श्रीनारदपञ्चरात्रे श्रीमाहेश्वरतन्त्रे शिवपार्वती संवादे चतुर्विंशं पटलम् ॥ २४-२४ ॥