अथ त्रयोविंशं पटलम्
पार्वत्युवाच
भूयोऽहं श्रोतुमिच्छामि तन्मे ब्रूहि सदाशिव ।
भूतले भगवद्भार्या नानायोनिषु संस्थिताः ॥ २३-१ ॥
तत्र तत्र विचित्राणि कर्माण्यपि कृतानि च ।
क्वचित्तीर्थं क्वचिद्दानं क्वचिद्धोमं क्वचिज्जपः ॥ २३-२ ॥
क्वचिन्मखादिचरणं स्वाध्यायाचरणानि च ।
पितृदेवार्चनं क्वापि ब्राह्मणा योः सताम् ॥ २३-३ ॥
क्वचिन्निन्दादिकरणं देवब्राह्मणातिथिपूजनम् ।
क्वचिद्दत्तविलोपश्च तथेन्द्रियविलोभनम् ॥ २३-४ ॥
असत्यभाषण चैव पैशुन्यं भूतहिंसनम् ।
स्वर्णस्त्येयादिकं चैव सुरामांसनिषेवणम् ॥ २३-५ ॥
द्रोहमात्सर्यहिंसादिपाकभेदादिकं तथा ।
स्वस्ववर्णाश्रमाचारोल्लङ्घनं कामवर्त्तनम् ॥ २३-६ ॥
स्वगुणाख्यानमीशान पङ्क्तिभेदो वृथा क्रिया ।
परेषां मर्मकथनं म्लेच्छान्नात्क्वाऽपिजीवनम् ॥ २३-७ ॥
निषिद्धाचरणं देव विहिताचारलङ्घनम् ।
गोभूगजाश्वकन्यादेस्तथा विक्रयण प्रभो ॥ २३-८ ॥
वेदविक्रयणं चैव भूतसन्त्रासनं तथा ।
आलस्यात्कर्मणस्त्यागस्तथैवाहङ्कृतेरपि ॥ २३-९ ॥
कर्मण्येतानि देवेश सदसन्ति महान्त्यपि ।
प्रारब्धसञ्चितान्येव क्रियमाणानि यानि च ॥ २३-१० ॥
तेषामन्तं न पश्यामि कल्पकोटिशतैरपि ।
स्वरूपज्ञानमात्रेण सञ्चितक्रियमाणयोः ॥ २३-११ ॥
श्रुतिसिद्धो भवेन्नाशः प्रारब्धस्य तु न क्वचित् ।
नाभुक्तं क्षीयते कर्म कर्मणां भोगतः क्षयः ॥ २३-१२ ॥
इत्येवं शास्त्रसिद्धान्तः सर्वथैव त्वयोदितः ।
प्रारब्धविद्यमानत्वात् स्वरूपस्मरणेऽपि च ॥ २३-१३ ॥
कथं वकुण्ठगमनं गोचरो [न्यस्तकर्मणः इत्यपि पाठः ।] ग्रस्तकर्मणः ।
अभुक्तान्येव कर्माणि विहाय यदि यान्ति ताः ॥ २३-१४ ॥
न विना कर्तृ [कर्मसम्बन्धम् इत्यपि पाठः ।] सम्बन्धं क्षणं तिष्ठन्ति तान्यपि ।
इत्येनं संशयं देव छेत्तुमर्हसि मामकम् ॥ २३-१५ ॥
शिव उवाच
साधु पृष्टं त्वया भद्रे रहस्यं परमाद्भुतम् ।
यस्य श्रवणमात्रेण कर्मबन्धाद्विमुच्यते ॥ २३-१६ ॥
सञ्चितं क्रियमाणं च तस्य नश्यति सर्वथा ।
विरहाग्न्याहुतीभूतशरीरा या हि केवलम् ॥ २३-१७ ॥
निक्षिप्य भूते भूतोत्थं तैजसं वपुरास्थिताः ।
प्रारब्धसहिता एव ब्रह्मलोकं व्रजन्ति ताः ॥ २३-१८ ॥
ब्रह्मलोकाद्यदा चोर्ध्वं गच्छन्ति भगवत्प्रियाः ।
वैकुण्ठनिकटे प्राप्ते बलीयान् पवनो ह्यवन् ॥ २३-१९ ॥
तेनाविष्टास्ततः सख्यः कम्पयन्ति वपुर्लताः ।
वपुःकम्पेन देवेशि प्रारब्धानां च पङ्क्तयः ॥ २३-२० ॥
वृक्षेभ्य इव पुष्पाणि क्षरन्ति क्रमशोऽपि च ।
कर्मसम्बन्धरहिता यान्ति वैकुण्ठमुज्ज्वलाः ॥ २३-२१ ॥
सदसन्त्यपि कर्माणि क्षरितानि शरीरतः ।
यानाश्रयन्ति सततं वक्ष्ये तान् त्वं शृणु प्रिये ॥ २३-२२ ॥
यैः सेवाप्रह्वणादीनि स्तोत्राणि रचितान्यपि ।
उपकारः कृतो यैर्वा धनधान्याम्बरार्पणैः ॥ २३-२३ ॥
तद्गुणश्रवणे हृष्टास्तन्निन्दायां च दुःखिताः ।
सहभोज्याः सहवासाः सहयानाः सहासनाः ॥ २३-२४ ॥
तानाश्रयन्ते देवेशि सत्कर्माणि न संशयः ।
यैस्तु दुःखं कृतं तासां निन्दापारुष्यपैशुनैः ॥ २३-२५ ॥
तदर्थहरणं चैव तद्दोषस्यैव कीर्तनम् ।
वृथापवादकथनं ताडन तर्जनं तथा ॥ २३-२६ ॥
असत्कर्माणि सर्वाणि ह्याश्रयन्ते खलान् हि तान् ।
कर्मणां देहसम्बन्धो नात्मनस्तु कदाचन ॥ २३-२७ ॥
स्तुतिर्निन्दापि देवेशि देहगा नात्मगोचरा ।
तस्माद्देहस्य संस्तुत्या निन्दया वापि पार्वति ॥ २३-२८ ॥
प्राप्यते पुण्यपापानि तदीयानि न संशयः ।
पुण्यपापे निहत्यैवं वैकुण्ठे विहरन्ति ताः ॥ २३-२९ ॥
वैष्णव धाम यास्यन्ति सात्विक्यो भगवत्प्रियाः ।
द्विपरार्द्धावसाने तु यास्यन्ति युगपद्धि ताः ॥ २३-३० ॥
राजस्यश्चापि वैरच्यं तामस्यो मन्निकेतनम् ।
न प्रकारविभेदोऽस्ति कर्महानौ गिरीन्द्रजे ॥ २३-३१ ॥
गुणानुरूपाञ्च गर्ति सर्वे यान्ति न संशयः ।
प्रकारं शृणु तत्रापि वैकुण्ठगमनं प्रति ॥ २३-३२ ॥
वासनालिङ्गमेतासां देहान्ते पृथिवीं विशेत् ।
कियत्कालं ततः स्थित्वा पार्थिवेन्द्रियसंयुता ॥ २३-३३ ॥
पार्थिवं विषयं देवि सेव्यमाना जलं विशेत् ।
कियत्कालं ततः स्थित्वा लब्ध्वा तत्रेन्द्रियं रसम् ॥ २३-३४ ॥
अतिदिव्यं सेव्यमाना तेजस्तत्त्वं समाविशेत् ।
कियत्कालं ततः स्थित्वा तैजसेन्द्रियसंयुता ॥ २३-३५ ॥
विषयं रूपमासाद्य वायुतत्त्वं ततः विशेत् ।
कियत्कालं ततः स्थित्वा त्वगिन्द्रियसमन्विता ॥ २३-३६ ॥
दिव्यस्पर्शं च विषयं सेव्यमाना खमाविशेत् ।
कियत्काल ततः स्थित्वा लब्ध्वा च श्रोत्रमिन्द्रियम् ॥ २३-३७ ॥
विषयं शब्दमासाद्य ततो भूतादिमाविशेत् ।
भूतादितामसं हित्वा राजसं याति सुन्दरि ॥ २३-३८ ॥
ततः सत्वमयं प्राप्य वैकुण्ठे रमते चिरम् ।
अनेन क्रमयोगेन गमिष्यन्ति हरेः प्रियाः ॥ २३-३९ ॥
एतत्तुभ्यं समाख्यातं वैकुण्ठगमनादिकम् ।
नाख्येयं यस्य कस्यापि तव स्नेहात्प्रकाशितम् ॥ २३-४० ॥
त्वयापि गोपनीयं हि सत्यं सत्यं न संशयः ।
अपात्रायापि पुत्राय दत्त्वा पापमवाप्नुयात् ॥ २३-४१ ॥
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ २३-४२ ॥
इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे त्रयोविंशं पटलम् ॥ २३-२३ ॥