अथ द्वाविंशं पटलम्
पार्वत्युवाच
यदुक्तं देवदेवेश त्वया पशुपते प्रभो ।
प्रविश्य कर्णरन्ध्रेण चिदानन्दायते हृदि ॥ २२-१ ॥
तीर्थानां परमं तीर्थं ज्ञानानां ज्ञानमुत्तमम् ।
योगानां परमो योगो धर्माणां धर्म उत्तमः ॥ २२-२ ॥
श्रोतव्यानां च परमं श्रोतव्यमिदमेव हि ।
ज्ञातव्यानां च परमं ज्ञातव्यमिदमुच्यते ॥ २२-३ ॥
श्रुतं मया विशेषेण सोपपत्तिकमित्यपि ।
न तथाप्यन्तरात्मा मे तृप्तिमायाति शाश्वतीम् ॥ २२-४ ॥
अतस्त्वां परिपृच्छामि विशेषं तत्र धूर्जटे ।
तं च ब्रूहि महादेव प्रसादपरमो भव ॥ २२-५ ॥
स्वप्नभूतप्रपञ्चेस्मिन्नक्षरस्य परात्मनः ।
प्रियाः सख्यो भगवतो वासनावशतो गतः ॥ २२-६ ॥
क्रियांस्तत्र गतः कालस्तासामागमनादनु ।
कियत्कालं च ताः सर्वा इह स्थास्यन्ति मोहिताः ॥ २२-७ ॥
कथ ता बोधमाप्स्यन्ति कस्तासां प्रतिबोधकृत् ।
युगपद्वा गमिष्यन्ति पृथक् वा परमेश्वर ॥ २२-८ ॥
एतत्सर्वं महादेव कथयस्व प्रसादतः ।
संशयो मे महानद्य तमपानुद शङ्कर ॥ २२-९ ॥
शिव उवाच
शृणु पार्वति वक्ष्यामि तव प्रश्नानशेषतः ।
त्वं मे प्राणाधिकैवासि तस्माद्वक्ष्ये यथातथम् ॥ २२-१० ॥
विरञ्चेर्ब्रह्मणः पूर्व अष्टवक्त्रोऽभवद्विधिः ।
शब्दब्रह्मेति य प्राहुर्वेदवेदान्तपारगाः ॥ २२-११ ॥
द्विपरार्द्धावसानेस्य ब्राह्मः कल्पो महानभूतः ।
प्रलयोऽयं महेशानि प्रकृत्यवधिरुच्यते ॥ २२-१२ ॥
एका [एकावशेषा-प्रकृतिः इत्यपि पाठः ।] शिष्टा च प्रकृतिः पुरुषाधिष्ठिता हि सा ।
कियत्कालं ततो देवि शून्यमासीदिति श्रुतिः ॥ २२-१३ ॥
आविर्भूता ततो निन्द्रा अक्षरे परमात्मनि ।
महत्तत्वमतस्तस्माद् अहङ्कृतिरजायत ॥ २२-१४ ॥
स एव च त्रिधा जातो गुणभेदेन सुन्दरि ।
सात्विकाच्च मनो जज्ञे देवताश्च दशैव ताः ॥ २२-१५ ॥
राजसादिन्द्रियाण्यासन् भूतानि तमसोऽभवन् ।
तेभ्यौऽण्डमभवेद्देवि तत्र नारायणः स्थितः ॥ २२-१६ ॥
[तत्र इत्यपि पाठः ।] तस्य नाभेरभूत्पद्म यत्र ब्रह्माभवत्स्वयम् ।
द्विपरार्द्धमितं चास्य परमायुर्निगद्यते ॥ २२-१७ ॥
अस्मिन् ब्रह्माण्डगोले हि जम्बूद्वीपे महेश्वरि ।
वर्षे भारतसञ्ज्ञे हि प्रियाणां वासनाः स्थिताः ॥ २२-१८ ॥
परार्द्धः प्रथमो जातो द्वितीयेस्मिन् महेश्वरि ।
निर्बन्धात्स्वामिनीनां च लीलामाविश्चकार ह ॥ २२-१९ ॥
श्रीकृष्णः परमानन्दो नन्दगेहेभवत्तदा ।
गोपकन्यामिषेणैव ह्याविर्भूतास्ततः प्रियाः ॥ २२-२० ॥
तत्कामपूर्त्तये साक्षात् श्रीकृष्णः पुरुषोत्तमः ।
रासलीलां प्रकुर्वाणो रमयामास ताः प्रियाः ॥ २२-२१ ॥
योगमायासमावेशान्मायाकार्यं विलुम्पतः ।
ब्रह्मणोऽपि लये जाते यथापूर्वमभूदिदम् ॥ २२-२२ ॥
पुनर्जातं ततः सर्वं ब्रह्मादिस्थावरान्तकम् ।
मनोरथस्य चापूर्त्या वासनाः कार्यमध्यगाः ॥ २२-२३ ॥
विचरन्ति यथा कालं यथादेशं यथारुचि ।
द्विपरार्द्धे त्वतिक्रान्ते नष्टे स्थावरजङ्गमे ॥ २२-२४ ॥
विरञ्चौ मुक्तिमापन्ने प्रबुद्धे ह्यक्षरे प्रिये ।
प्रबुद्धा वासनास्ता हि भविष्यन्ति स्वबिम्बगाः ॥ २२-२५ ॥
आविर्भावाच्च लीलाया द्वापरान्ते कलौ युगे ।
[क्वचित्पुस्तके २६-२७ श्लोकयोः आस कृष्णः प्रियाणां च दुःखलीलानुदर्शने । तासामेका च परमा सुभगा सुन्दरी प्रिया । प्रबोधयिष्यति सा सर्वाः कथयित्वा विनिर्णयम् । ईदृशः पाठभेदो भाति ।] असहिष्णुः स्वप्रियाणां दुःखलीलानुदर्शनम् ॥ २२-२६ ॥
तासामेकां च परमां सुभगां सुन्दरीं प्रियाम् ।
प्रबोधयिष्यतितरां कथयित्वा विनिर्णयम् ॥ २२-२७ ॥
ततस्तत्सम्प्रदायेन सर्वास्ता भगवत्प्रियाः ।
स्वभर्तृविरहाक्रान्ताः त्यक्त्त्वा देहान् प्रपञ्चगान् ॥ २२-२८ ॥
भगवल्लोकवैकुण्ठे स्थितिमाप्स्यन्ति यूथशः ।
पद्मया रममाणास्ताः कालभोगे यथाविधि ॥ २२-२९ ॥
दिव्यदेहानपि त्यक्त्त्वा भविष्यन्ति स्वबिम्बगा ।
अक्षरोऽप्यनुभूयैतत्स्वप्नवत् परमेश्वरि ॥ २२-३० ॥
परमानन्दसम्मग्नो भविष्यति कृतार्थधीः ।
सर्वा लीला नित्यरूपा भविष्यन्ति तदा प्रिये ॥ २२-३१ ॥
भगवल्लोकमात्मानं दिव्यभावेऽपि सुन्दरि ।
अविद्यालेशसम्बन्धादक्षरस्य परात्मनः ॥ २२-३२ ॥
निद्रांशस्यापि शेषत्वात् कियत्कालमवस्थितिः ।
युगपद्देवि सर्वास्ता गमिष्यन्ति निजं गृहम् ॥ २२-३३ ॥
न कथञ्चन देवेशि गतिस्तासां पृथक् भवेत् ।
स्वप्नस्य विषये साम्यादैकात्म्याच्च तथा प्रिये ॥ २२-३४ ॥
वैरस्याच्च विचित्रत्वे भर्तृस्नेहाविशेषतः ।
न पृथक् गमनं तासां तस्माद्वैकुण्ठसंस्थितिः ॥ २२-३५ ॥
क्रमयोगेन देवेशि सर्वा यास्यन्त्यसंशयम् ।
तस्माद्देवि विशेषेण स्वपतिः पुरुषोत्तमः ॥ २२-३६ ॥
भजनीयो हि सततं वेदशास्त्रानुरोधतः ।
देहेन्द्रियस्वभावानामन्तं कर्माणि पार्वति ॥ २२-३७ ॥
आत्मनोन्तं परब्रह्मध्यानश्रवणकीर्तनम् ।
स्वभावाज्जायते कर्म सदसच्चेति सर्वथा ॥ २२-३८ ॥
सत्त्यागादसदासङ्गन्नानायोनिभ्रमो भवेत् ।
आधिव्याधिदरिद्रोत्थपीडाविस्मारिततात्मनः ॥ २२-३९ ॥
उद्रिक्ततमसो देवि न शुभं स्यात्कदाचन ।
तस्मात्कर्तव्यमेवेह देहपर्यवसायि यत् ॥ २२-४० ॥
देहान्ते कर्मसम्बन्धो न भविष्यति कर्हिचित् ।
प्रत्यवायनिवृत्यर्थमनिष्टाचरणस्य च ॥ २२-४१ ॥
नित्यं नैमित्तिकं कार्यं काम्यं कर्म परित्यजेत् ।
एवं यो वर्त्तते देवि निष्प्रत्यूहं स सिध्यति ॥ २२-४२ ॥
यः शास्त्रविधिमुत्सृज्य वर्तते कामलोलुपः ।
स सिद्धिमिह नाप्नोति परत्र न पराङ्गतिम् ॥ २२-४३ ॥
एतत्ते सर्वमाख्यातं यत्पृष्टोऽहं त्वया प्रिये ।
समासेन महेशानि किं भूयः श्रोतुमिच्छसि ॥ २२-४४ ॥
इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे द्वाविंशं पटलम् ॥ २२-२२ ॥