२१

अथ एकविंशं पटलम्

शिव उवाच

अतोऽन्यत् शृणु देवेशि ! रहस्यं किञ्चिदुत्तमम् ।
गोपनीयं प्रयत्नेन यस्मै कस्मै न दर्शयेत् ॥ २१-१ ॥

परीक्षिताय वक्तव्यं ताडनैस्तर्जनादिभिः ।
ऋते पात्रमिदं ज्ञानं न तिष्ठति कदाचन ॥ २१-२ ॥

अविर्भूताक्षरे शक्तिरिच्छा नाम सुमङ्गला ।
अङ्गान्यावृत्य सत्प्रेमविरहौत्कण्ठ्यदर्शने ॥ २१-३ ॥

रतिमुत्पादयामास ततः सा पुरुषोत्तमम् ।
प्रार्थयामासुरौत्सुक्यात्स्वामिन्या सह सङ्गता ॥ २१-४ ॥

निवारिता बहुविधैर्वाक्यैरिच्छाविमोहिताः ।
न मेनिरे प्रियाः सर्वा प्रार्थयामासुरन्वहम् ॥ २१-५ ॥

प्रार्थना स्वीकृतास्तासामतीतेनाक्षराद्यदा ।
तदा सा पुनरासाद्य निद्रा चित्यन्वधात्प्रिये ॥ २१-६ ॥

चिदात्मा पुरुषः साक्षान्मोहमय्यैव निद्रया ।
घूर्णितोशेत सन्मञ्चे पञ्चब्रह्ममये शुभे ॥ २१-७ ॥

यदैव निद्रया घूर्णो विस्मृतात्माऽभवत् प्रिये ।
हृदयाब्जकर्णिकामध्ये विहरेतापरा हि सा ॥ २१-८ ॥

व्यचिनोत्पञ्चधा देवि ! स्वरूपमपि चात्मना ।
उद्गारिणी पालिका च तथा संहारिकापि च ॥ २१-९ ॥

विशाला व्यापिका चेति शक्तयः पञ्च कीर्तिताः ॥ २१-१० ॥

रजः प्रधानहारिणी पालिनी सात्विकी मता ।
तमःप्रधाना संहर्त्री शुद्धसत्वा विशालिका ॥ २१-११ ॥

निर्गुणा व्यापिका शक्तिरिच्छा पञ्चविधोदिता ।
एता एवोदिता देवि ! जाग्रति प्राकृतास्तथा ॥ २१-१२ ॥

इच्छामय्यस्तु शयने तस्मान्मञ्चो निरामयः ।
उद्गारिणीपालिकयोः स्कन्धयोस्तत्पदद्वयम् ॥ २१-१३ ॥

विशालाहारिणीकण्ठदेशे पाणिद्वयं स्थितम् ।
व्यापिका मञ्चफलकीभूताधारतया स्थिता ॥ २१-१४ ॥

पञ्चसु प्रतिबिम्बोऽभूदक्षरस्य चिदात्मनः ।
बिम्बितं यत्तु चैतन्यं तस्मिन्नुद्गारिणी हि सा ॥ २१-१५ ॥

दर्शयामास वेदास्याद्युपाधिमतिविस्तृतम् ।
बिम्बितं यत्तु चैतन्यं तस्मिन् या पालिनी शिवे ॥ २१-१६ ॥

अदर्शयच्चतुर्भुजाद्युपाधिमतिविस्तृतम् ।
बिम्बितं यत्तु चैतन्य तस्मिन् संहारिणी तु या ॥ २१-१७ ॥

अदर्शयन्त्रिनेत्राद्युपाधिमतीव सुन्दरि ! ।
बिम्बितं यत्तु चैतन्यं तस्मिन् या तु विशालिका ॥ २१-१८ ॥

अष्टबाह्वाद्युपाधिं च दर्शयामास केवलम् ।
बिम्बितं यत्तु चैतन्यं तस्मिन् या व्यापिका मता ॥ २१-१९ ॥

दशबाहुं च पञ्चास्याद्युपाधिमसृजत्प्रिये ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥ २१-२० ॥

पञ्चपादत्वमापन्ना नित्यमुद्वहते परम् ।
सृष्टिं स्थितिं च संहारं तिरोधानमनुग्रहम् ॥ २१-२१ ॥

नित्यमेव प्रकुर्वन्ति भूताधिष्ठातृरूपिणः ।
सृष्ट्यादित्रयसिद्ध्यर्थं त्रयाणां बुभुजेंशतः [बुभुवे इत्यपि पाठः ।] ॥ २१-२२ ॥

तिरोधानानुग्रहौ तु मञ्चपादस्थयोर्विदुः ।
पेञ्चशक्तिप्रभेदेन परेच्छैव सुमङ्गला ॥ २१-२३ ॥

ब्रह्मविष्ण्वादिरूपाणि धत्ते नानास्वरूपिणी ।
अक्षरस्य तु रूपे द्वे पुरुषाक्षरभेदतः ॥ २१-२४ ॥

नारायणस्तु पुरुषाज्जज्ञे स्वप्नेक्षिता स्वयम् ।
नादबिन्दू शिवः शक्तिर्जातौ नारायणात्प्रिये ॥ २१-२५ ॥

नादबिन्दुमयत्वेन त्रिधा नारायणः स्थितः ।
सङ्कर्षणो वासुदेवः प्रद्युम्नः अनिरुद्धकः ॥ २१-२६ ॥

चतुर्धा विष्णुरेवोक्तो ह्यंशभेदा ह्यनेकशः ।
एकादश विभेदात्मा रुद्रोऽहमहमीश्वरि ॥ २१-२७ ॥

मदात्मभेदाः शतशः कोटिशः सन्ति सुन्दरि ।
सदाशिवेश्वरावेतौ आत्मभेदाविवर्ज्जितौ ॥ २१-२८ ॥

वेदप्रणवभेदेन द्विधा नारायणोदभूत् ।
नाद एव महेशानि बहु स्यामित्यवेक्षणात् ॥ २१-२९ ॥

न भेदो विद्यते बिन्दौ अखण्डात्मनि सुन्दरि ।
महत्तत्वमिदं भद्रे मनो नारायणस्य तत् ॥ २१-३० ॥

मनसस्तु बहु स्यामित्यमन्यत यदा हि सः ।
अहङ्कारस्ततो जज्ञे प्रसृतो बिन्दुतां ययौ ॥ २१-३१ ॥

बिन्दुः शून्यात्मको ज्ञेयस्तस्माद्विश्वं निरर्थकम् ।
व्याप्तोऽहङ्कार एवायं ब्रह्माभासे दृश्यते ॥ २१-३२ ॥

ब्रह्माभासो निर्विकारो निष्प्रपञ्चो निरञ्जनः ।
न करोति न लिप्येत प्रदीप इव भासकः ॥ २१-३३ ॥

अहङ्कारस्य कर्तृत्त्वं भोक्तृत्वमपि सुन्दरि ।
धर्माधर्मौ पुण्यपापे बन्धमोक्षादिकं तथा ॥ २१-३४ ॥

अहङ्कारेण भिद्येत नानाभेदव्यवस्थया ।
अहङ्कारेण तादात्म्यादाभासेऽपीक्षते स्फुटम् ॥ २१-३५ ॥

अहङ्कारमयो ग्रन्थिर्यावन्नैव विभिद्यते ।
अविद्यमानः संसारः तथाप्येनं न मुञ्चति ॥ २१-३६ ॥

स्फटिकस्यैव रागित्वं जपाकुसुमयोगजम् ।
नापगच्छति तद्देवि कुसुमापहृतिं विना ॥ २१-३७ ॥

तथा संसरणं जीवे ह्यहङ्कारच्युतिं विना ।
निवर्तते न देवेशि कल्पकोटियुतायुतैः ॥ २१-३८ ॥

सोऽहङ्कारस्त्रिधा प्रोक्तो गुणभेदेन पार्वति ।
अहङ्कारोऽयमेवाहं तथा जीवगतो द्विधा ॥ २१-३९ ॥

महत्तत्वं त्रिधा प्रोक्तम् आध्यात्मादिप्रभेदतः ।
नारायणमनोरूपमाधिदैविकमुच्यते ॥ २१-४० ॥

जीवानां चित्तरूपं यदध्यात्म्यमिति चक्ष्यते ।
ब्रह्मणो देहरूपस्थमाधिभौतिकमुच्यते ॥ २१-४१ ॥

नारायणेधिदैवेन रूपेण [नारायणे यदध्यात्मरूपेण इत्यपि पाठः ।] परिनिष्ठितम् ।
आविर्बभूव तद्वर्णभेदैर्वेदस्वरूपतः ॥ २१-४२ ॥

जीवगं यत्तु देवेशि चित्तरूपतया स्थितम् ।
सुषुम्णावर्त्तिना प्राणवायुना सह सङ्गतम् ॥ २१-४३ ॥

वायुस्तेन युतो देवि ब्रह्मरन्ध्राहतः पुनः ।
ताल्वोष्ठपुटनासादिभेदेन [देहेन इत्यपि पाठः ।] परमेश्वरि ॥ २१-४४ ॥

वर्णात्माविर्भवति गद्यपद्यादिभेदतः ।
ब्रह्मदेहतया यस्मात् स्थितं त्रैलोक्यकारणम् [तल्लोक इत्यपि पाठः] ॥ २१-४५ ॥

अतस्तस्माज्जगज्जातं देवासुरनरोरगम् ।
इति तेऽभिहितं देवि रहस्यं परमाद्भुतम् ॥ २१-४६ ॥

श्रद्धाहीनाय दुष्टाय कृतघ्नाय दुरात्मने ।
नास्तिकायाविनीताय वेदशास्त्रोद्गताय च ॥ २१-४७ ॥

अविश्वस्ताय देवेशि दर्शयेन्न कथञ्चन ।
यदा राजा तु सर्वस्वं बलं कोशो महीगजान् ॥ २१-४८ ॥

निवेदयतु जिज्ञासुस्तदा तस्मै प्रकाशयेत् ।
अन्यथा सिद्धिहानिः स्यात् सत्यं सत्यं न संशयः ॥ २१-४९ ॥

तस्मात्सर्वप्रयत्नेन गोपितव्यं त्वयापि हि ॥ २१-५० ॥

इति श्रीनारदपञ्चरात्रे श्रीमाहेश्वरतन्त्रे शिवपार्वती संवादे एकविंशं पटलम् ॥ २१-२१ ॥