अथ विंशं पटलम्
पार्वत्युवाच
अहो देव महादेव परात्मन् परमेश्वर ।
त्वदुक्तमेतदाश्रुत्य मनो मे क्षुभ्यतेतराम् ॥ २०-१ ॥
निरीहस्यापि देवस्य कूटस्थपरमात्मनः ।
दिदृक्षा यत्समुत्पन्ना रहःक्रीडावलोकने ॥ २०-२ ॥
नित्यानन्दविहाराणां प्रियाणां परमात्मनः ।
दिदृक्षा यत्समुत्पन्ना केवलं दुःखदर्शने ॥ २०-३ ॥
इत्येतन्महदाश्चर्यं प्रतिभाति महेश्वर ।
तन्निराकुरु देवेश मनः शल्यं महार्तिकृत् ॥ २०-४ ॥
पूर्णस्यैवाप्तकामस्य किन्तु क्रीडावलोकनैः ।
तदङ्गभूतास्तत्तुल्याः प्रियास्तु परमात्मनः ॥ २०-५ ॥
दुःखकामः कथं तासु केवलानन्दमूर्त्तिषु ।
न दुःखदर्शने कश्चिन्मूर्खो वा रमते क्वचित् ॥ २०-६ ॥
एतदाचक्ष्व भगवन् कृपां कृत्वा ममोपरि ।
शिव उवाच
शृणु देवि प्रवक्ष्यामि रहस्यं परमाद्भुतम् ॥ २०-७ ॥
वेदागमपुराणेषु यत्तु गुप्ततरं प्रिये ! ।
अद्यप्रभृति कस्यापि नोक्तवानहमद्रिजे ॥ २०-८ ॥
तव स्नेहवशाद् देवि ! प्रवक्ष्यामि न चान्यथा ।
त्वयापि गोपितव्यं हि स्कन्दाच्च गणपादपि ॥ २०-९ ॥
प्रकाशितं हरेद्धर्मं यशोलक्ष्मीसुखानि च ।
वेदशास्त्रपुराणानि सामान्यगणिका इव ॥ २०-१० ॥
इयं विद्या महाविद्या गोप्या कुलवधूरिव ।
सुगुप्तेयं महाविद्या ज्ञानसिद्धिकरी नृणाम् ॥ २०-११ ॥
यथा प्रकाशितं द्रव्यं तस्करेभ्योपगच्छति ।
तथा प्रकाशिता विद्या पशुभ्य उपगच्छति ॥ २०-१२ ॥
गोपितव्या ततो यत्नाद्विद्येयं ब्रह्मदर्शिनी ।
मन्त्रौषधक्रियाधर्माः गुप्ता एव फलन्ति हि ॥ २०-१३ ॥
आवाच्यमपि ते वच्मि शृणुष्वैकाग्रमानसा ।
गणनाविषयानन्दो वर्त्तते केवलेऽक्षरे ॥ २०-१४ ॥
सप्तद्वीपवतीं पृथ्वीं यः शास्ता व्याहतेन्द्रियः ।
निरामयो निःसपत्नो युवा राजेन्द्रवन्दितः ॥ २०-१५ ॥
तदानन्दो हि देवेशि ! मनुष्यानन्द ईरितः ।
मनुष्यानन्दशतकं गन्धर्वानन्द उच्यते ॥ २०-१६ ॥
गन्धर्वानन्दशतकं पित्रानन्द उदीरितः ।
पित्रानन्दशतेनैको ह्युपदेवस्य चोच्यते ॥ २०-१७ ॥
उपदेवानन्दशतं देवानन्द उदीर्यते ।
देवानन्दशतं देवि ! वैरञ्च्यानन्द उच्यते ॥ २०-१८ ॥
वैरञ्च्यानन्दशतकमानन्दो वैष्णवः स्मृतः ।
वैष्णवानन्दशतकं रुद्रानन्दस्तु उच्यते ॥ २०-१९ ॥
रुद्रानन्दशतेनोक्तः ईशानन्दपरो महान् ।
ईशानन्दशतेनोक्त [ईश्वरानन्दसञ्ज्ञकः इत्यपि पाठभेदः ।] शैवानन्दस्तु केवलः ॥ २०-२० ॥
तच्छतेन भवेद् देवि ! प्रकृत्यानन्द उत्तमः ।
प्रकृत्यानन्दशतकं पुरुषानन्द उच्यते ॥ २०-२१ ॥
पुरुषानन्दशतकम् अक्षरानन्द उच्यते ।
अक्षरं परमं ब्रह्म ब्रह्मानन्दस्ततः स्मृतः ॥ २०-२२ ॥
ब्रह्मानन्दमयं विश्वं नानाभावो न विद्यते ।
मायोपाधिसमायोगान्नानात्वेन प्रतीयते ॥ २०-२३ ॥
तत्प्रतीतिनिरासे तु पर ब्रह्मैव शिष्यते ।
तन्माया प्रकृतिर्देवि नित्या तत्सहधर्मिणी ॥ २०-२४ ॥
शुद्धसत्वप्रधाना हि निर्मला ज्ञानरूपिणी ।
तत्र यः प्रतिबिम्बोऽभूदक्षरस्य परात्मनः ॥ २०-२५ ॥
तमाहुः पुरुषं देवि ! श्रुतिसिद्धान्तवादिनः ।
स एव कालरूपेण प्रकृतिक्षोभकारकः ॥ २०-२६ ॥
तस्मान्नारायणो जज्ञे स एव प्रणवाभिधः ।
हिरण्यगर्भमपि तं प्रवदन्ति मनीषिणः ॥ २०-२७ ॥
शब्दब्रह्ममय प्राहुस्तमेवागमवेदिनः ।
तस्माद्वेदाः प्रवर्त्तन्ते शब्दब्रह्मात्मना प्रिये ॥ २०-२८ ॥
आदौ शब्दात्मकं विश्वं ततश्चार्थमयं भवेत् ।
शब्दः प्रकृतिरूपश्च अर्थः स्यात्पुरुषात्मकः ॥ २०-२९ ॥
उभयात्मकः प्रपञ्चोऽयं तस्मात्स्त्रीपुंस्वरूपधृक् ।
त्वमहं च तथा विष्णुर्लक्ष्मीर्ब्रह्मा सरस्वती ॥ २०-३० ॥
सूर्यः सञ्ज्ञानलः स्वाहा पुरूहूतः पुलोमजा ।
अम्भोनिधिश्च मर्यादा वृक्षः पल्लविनी लता ॥ २०-३१ ॥
महद्वाल्पतरं वापि तत्सर्वमुभयात्मकम् ।
अक्षरे शाश्वतावेतौ प्रकृतिः पुरुषस्तथा ॥ २०-३२ ॥
जाग्रत्स्वप्नविभेदेन प्रपञ्चपरिणामिनौ ।
नित्यत्वमुभयोर्देवि विवदन्तेऽत्र वादिनः ॥ २०-३३ ॥
नित्यः प्रपञ्च एवेति ह्यनित्य इति केचन ।
अहङ्कारवशाद्देवि वादिनो मूढबुद्धयः ॥ २०-३४ ॥
नित्यानित्यं न जानन्ति स्वपक्षाग्रहदोषतः [स्वमताग्रहदोषतः इत्यपि पाठः ।] ।
नित्यत्वात्कारणस्यापि प्रवाहे नित्यतास्तु वा ॥ २०-३५ ॥
श्रौतत्वाज्जन्यनाशस्य ह्यनित्यत्वेऽपि का क्षतिः ।
द्वैताद्वैते तथा देवि विवदन्ते कुबुद्धयः ॥ २०-३६ ॥
ईश्वराज्जीवपार्थक्यमिति तत्त्वविदो विदुः ।
ब्रह्मैवाज्ञानवशतो जीवस्तत्प्रतिगीयते ॥ २०-३७ ॥
न जीवं परमार्थेन विदुरद्वैतवादिनः ।
न विरुद्धमिदं देवि ! ह्यज्ञानावधिभेदतः ॥ २०-३८ ॥
ज्ञानेनाज्ञाननाशे तु लब्धेनेश्वरतुष्टितः ।
जाग्रत्स्वप्नस्य विलये स्वप्नसाक्षीव सुन्दरि ! ॥ २०-३९ ॥
एकमेवावशिष्येत नित्यं ब्रह्मैव केवलम् ।
अद्वैतवादिनो ह्येवं श्रुतिमात्रावलम्बिनः ॥ २०-४० ॥
एकमेव परं ब्रह्म नाना नास्तीह किञ्चन ।
मृदेव सत्यमित्येवं नामरूपे विकारवत् ॥ २०-४१ ॥
इत्यद्वैतं श्रुतिशतैरुद्धोषितमनेकधा ।
द्वैतवादरताश्चापि द्वासुपर्णावितीरणात् ॥ २०-४२ ॥
द्वैतमेव प्रशंसन्ति ह्यभेदो भजनात्मकः ।
अद्वैतभूमिकाधस्तात्सोपानास्थास्तु ते प्रिये ॥ २०-४३ ॥
तेषां नारायणः साक्षात्परब्रह्म श्रुतीरणात् ।
ब्रह्माभासमया जीवाः क्षुद्रोपाधिगुणाश्रिताः ॥ २०-४४ ॥
अस्वतन्त्राः पराधीना नित्या इत्यपि चक्षते ।
अव्याहतं च नित्यत्वं भ्रान्तिमूलमपि प्रिये ॥ २०-४५ ॥
निद्रोपलब्धभावानां निद्रा तावत्स्थितिः स्थिरा ।
इति यत् शास्त्रहृदयमज्ञात्वा विवदन्ति ये ॥ २०-४६ ॥
द्वैताद्वैतविचारेऽस्मिन्न ते तत्त्वमवाप्नुयुः ।
तस्मात्सर्वप्रयत्नेन सर्वशास्त्रैकनिश्चयम् ॥ २०-४७ ॥
ज्ञात्वा भजन्ति देवेशि ! निःसन्देहः फलात्मकः ।
वाक्यभेदाननादृत्य बुद्धिक्लेशादहङ्कृतेः ॥ २०-४८ ॥
ये प्रवर्तन्त एवैते सशल्याः फलविच्युताः ।
एकमेवाद्वयं ब्रह्म द्विधा लीलाविभेदतः ॥ २०-४९ ॥
प्रवृत्तिश्च निवृत्तिश्च लीलाभेदे व्यवस्थिता ।
निवृत्तिः सुखसञ्ज्ञा हि सुखमानन्दरूपकम् ॥ २०-५० ॥
प्रसङ्गात् प्रकृतेर्देवि प्रवृत्तिर्बहुरूपिणी ।
अजानतां वरारोहे ! दुःखरूपतया स्थिता ॥ २०-५१ ॥
अक्षरस्य तु सा प्रोक्ता लीलान्यातीतधर्मिणी ।
प्रवृत्तिलीलालेशोऽपि नैवातीते परात्मनि ॥ २०-५२ ॥
आग्रहमात्रो देवेशि ! नित्यानन्दमहोदधेः ।
लेश एव सदा तिष्ठेत्सकामो नित्यरूपधृक् ॥ २०-५३ ॥
कामरूपी सदानन्दः कामांशो लेश उच्यते ।
तस्मादेवाक्षरे देवि ! नित्यकामो हि दर्शने ॥ २०-५४ ॥
तस्मादेवाक्षरे जाता दिदृक्षा या तु पार्वति ।
न चैककर्तृका सा तु परापरमयी हि सा ॥ २०-५५ ॥
अक्षरे ज्ञानतन्मात्रे स्वत इच्छा न जायते ।
न प्रवर्तयते साक्षात्पूर्णात्मा पुरुषोत्तमः ॥ २०-५६ ॥
सामरस्यमयीं प्राहुस्तस्मादागमवेदिनः ।
आनन्दगा सामरस्यात् स्वपक्षविषयग्रहा ॥ २०-५७ ॥
साङ्गिनं तु परित्यज्य भृशमङ्गेष्वसर्पत ।
स्वामिनीषु ततो जाता दिदृक्षा दुःखदर्शने ॥ २०-५८ ॥
उभयव्यापिनी सा तु सर्वकारणकारणा [सर्वकारणकारणम् इत्यपि पाठः ।] ।
ततः कार्यप्रवृत्तिस्तु हेतोर्गुणनिबन्धिनी ॥ २०-५९ ॥
स्त्रीपुम्भावात्मिका जाता ब्रह्मादिस्तम्बभेदतः ।
इच्छया ससृजे निद्रा सापि जातोभयात्मिका ॥ २०-६० ॥
ज्ञानात्मिका स्वतः शुद्धा बहिर्वृत्तिविवर्जिता ।
निद्रया सृजते मोहश्चेतनाचेतनो हि सः ॥ २०-६१ ॥
सचैतन्यस्य कार्यस्य हेतुर्यच्चेतनात्मकः ।
स एव जडहेतुश्च यस्मादयमचेतनः ॥ २०-६२ ॥
विद्याविद्ये स एवोक्त शृणु तत्रापि कारणम् ।
चिदचिद्ग्रन्थिको ह्येषश्चिदाकारेण केवलम् ॥ २०-६३ ॥
यदा परिणमेद् देवि ! यदा विद्येति तां विदुः ।
यदा चैतन्यमावृत्य केवलं मोहरूपधृक् ॥ २०-६४ ॥
जीवबुद्धिं समावृण्वन् अविद्येति च गीयते ।
तमः कालुष्यमुत्सृज्य शुद्धसत्वप्रधानिका ॥ २०-६५ ॥
जीवबुद्धेर्भेदकरी मायेति कथिता प्रिये ।
सात्विकांशं परित्यज्य केवलं चित्स्वरूपिणी ॥ २०-६६ ॥
अपरोक्षकरी विद्या ब्रह्मविद्येति तां विदुः ।
तस्माद्विधा त्रिधा प्रोक्ता मया ते वरवर्णिनि ! ॥ २०-६७ ॥
ततो गुणास्त्रयो जातास्तेऽपि तादृग्विधा शिवे ! ।
सत्वं तु चेतनं विद्धि तमो विद्यादचेतनम् ॥ २०-६८ ॥
रजस्तदुभयात्मत्वाच्चेतनाचेतनात्मकम् ।
भूतानि पञ्च जातानि तानि तादृग्विधान्यपि ॥ २०-६९ ॥
अधिष्ठेयान्यधिष्ठातृतया द्वैविध्यवन्ति च ।
ब्रह्माण्डमभवत्तेभ्यस्तदेवोभयरूपधृक् ॥ २०-७० ॥
एतत्ते सर्वमाख्यातं यत्पृष्टोऽहं त्वया शिवे ! ।
समासेन महेशानि ! किं भूयः श्रोतुमिच्छसि ॥ २०-७१ ॥
इति श्रीपञ्चरात्रे श्रीमाहेश्वरतन्त्रे शिवपार्वती संवादे विंशं पटलम् ॥ २०-२० ॥