अथ एकोनविंशं पटलम् ।
शिव उवाच
अथेदानीं शृणु शिवे प्रियाणां कामनिर्णयम् ।
यस्य श्रवणमात्रेण वैराग्यं देहगेहयोः ॥ १९-१ ॥
मनोरथश्च यश्चासीत् प्रियाणां दुःखदर्शने ।
रासे प्रदर्शिते प्रायो ह्यसम्पूर्णेविशेषितः ॥ १९-२ ॥
तद्भोगार्थं पुनः सर्वाः प्रियास्ता रासविच्युताः ।
कालमायामयं देवि ब्रह्माण्डं विविशुः सह ॥ १९-३ ॥
सम्भूता भारते वर्षे नैकत्र स्थितयोऽभवन् ।
मोहावेशवशाद् देवि ! दुस्तरादीशनिर्मितात् ॥ १९-४ ॥
विच्युतात्मानुसन्धाना बभूवुर्भगवत्प्रियाः ।
यथा स्वप्ने जनः कश्चिन्निद्रात्याजितसंस्मृतिः ॥ १९-५ ॥
स्वप्नलब्धगजाकार आत्मानं मनुते गजम् ।
मोहलब्धाकृतिस्तद्वल्लब्ध्वा तादात्म्यभावतः ॥ १९-६ ॥
उच्चावचासु योओनीषु विभ्रमन्ति विचित्रधा ।
तत्र देहाभिमानोत्त्थकर्मसंसर्गदूषिताः ॥ १९-७ ॥
कर्मबन्धस्ततो जातो यथा स्यादुत्तरोत्तरम् ।
श्वकाकोलूकमार्जार खरगृध्रादि योनिषु ॥ १९-८ ॥
भ्रान्त्वा भ्रान्त्वा मनुष्येषु भूत्वा भूत्वा पुनः पुनः ।
जायन्ते च म्रियन्ते च तेषामन्तो न विद्यते ॥ १९-९ ॥
जन्मदुःख जराःदुख बाल्ये यद्दुःखमुल्बणम् ।
देहत्यागनिमित्तं च दुःखमाप्ताः पुनः पुनः ॥ १९-१० ॥
क्वचिद्धर्मः क्वचिच्छोको रागद्वेषादिकं क्वचित् ।
क्वचिद्बन्धः क्वचिन्मोक्षो राजसन्ताडनं क्वचित् ॥ १९-११ ॥
अन्नादिकाङ्क्षया क्वापि दरिद्रेणापि विद्रुताः ।
म्लानेन्द्रियमुखाकारा दैन्यभावं समागताः ॥ १९-१२ ॥
पुत्रमित्रकलत्रादिनाशोत्थं दुःखमद्भुतम् ।
प्राप्य हाहेति हाहेति परितापान् जुषन्ति ताः ॥ १९-१३ ॥
बृहत्सेनस्य राजर्षेर्यथा राज्ञी पतिव्रता ।
अधौतपादा चोच्छिष्टा सुष्वाप विधिमोहिता ॥ १९-१४ ॥
यक्षः कश्चिन्निशाचारी प्रसुप्तामहरच्च ताम् ।
समुद्रद्वीपमानीय यक्षमायामयं महत् ॥ १९-१५ ॥
ददर्श नगरं दिव्यं दिव्याट्टालकगोपुरम् ।
यक्षस्तिरोदधे तस्यां तदावेशविमोहिता ॥ १९-१६ ॥
सैका बभ्राम नगरे गृहे गृहे विचेतना ।
यत्र यत्र गता सा तु जनैस्तत्र बिभीषिता ॥ १९-१७ ॥
तमिश्रायां तमोमय्यां भ्रमन्ती भ्रान्तमानसा ।
हृतवस्त्राम्बरा क्वापि प्रसह्य परिपन्थिभिः ॥ १९-१८ ॥
मुक्तकेशा वस्त्रहीना धूलिधूसरविग्रहा ।
पिशाचिनीव नगरे बभ्रामैका दिवानिशम् ॥ १९-१९ ॥
रुदन्ती करुणा दीना ताड्यमाना जनैर्मुहुः ।
क्षुत्तृड्व्याकुलचित्ता सा वल्गन्तीव जनाज्जनम् ॥ १९-२० ॥
महाजनैश्च विपिने नगरात्तु विवासिता ।
व्याघ्रसिंहध्वनिं श्रुत्वा भीषणं त्रस्तमानसा ॥ १९-२१ ॥
दृष्ट्वा तांस्तु पुनः साध्वी वृक्षखण्डेष्वेवलीयत ।
वृक्षकोटरगैः सर्पैदंशिता विवशाभवत् ॥ १९-२२ ॥
अशेत भूमिशयने विषव्याघूर्णमानसा ।
भूविलोत्थैर्वृश्चिकाद्यैः सन्दष्टा सर्वसन्धिषु ॥ १९-२३ ॥
एवं नानाविधांस्तापान् प्राप्ता नृपसुन्दरी ।
कर्कराकण्टकैर्विद्धपादाम्भोजा महावने ॥ १९-२४ ॥
का त्वं कस्यासि वामोरु ! पृष्टा सप्तर्षिभिस्तु सा ।
नाहं विदामि चात्मानं न तातं मातरं पतिम् ॥ १९-२५ ॥
दुःखातिदुःखपाथोघौ मग्नास्मीत्यभ्यभाषत ।
भृशं नागरिकैर्दुष्टैः पीडिता भर्त्सिता पुनः ॥ १९-२६ ॥
तस्करैर्वस्त्रभूषादि दुष्टैरपहृतं हि मे ।
क्षुत्तृट्परीता पापिष्ठैर्नगराच्च विवासिता ॥ १९-२७ ॥
याता महावनं भ्रान्ता व्याघ्रसिंहभयाकुला ।
भुजङ्गवृश्चिकैः क्रूरैर्विषव्यापादितान्तरा ॥ १९-२८ ॥
भ्रमाम्यहं दिवारात्रौ न जाने विदिशं दिशम् ।
अतः कुरुध्वं साहाय्यमनाथायाः कृपालवः ॥ १९-२९ ॥
एवमुक्तं तया साध्व्या कृपया पीडिता भृशम् ।
कमण्डलुजलेनौक्षन् यक्षोघ्रेन मुनीश्वराः ॥ १९-३० ॥
लीनायां लक्षमायायाम् आत्मानं समपद्यत ।
सस्मार मातरं तातं बृहत्सेनं पतिं तथा ॥ १९-३१ ॥
व्रीडिताधोमुखी बाला मुनीन्द्रान् प्रत्यभाषत ।
सूर्यवंशप्रसूतस्य बृहत्सेनस्य धीमतः ॥ १९-३२ ॥
प्रियास्म्यहं विप्रदेवा उच्छिष्टा शयनं गता ।
केनचिज्जलधेस्तीरमानीता भयविह्वला ॥ १९-३३ ॥
तत्रैकं नगरं दिव्यं मया दृष्टं महाद्भुतम् ।
तत्रैकला विभ्रमन्त्री लोकपीडासहानिशम् ॥ १९-३४ ॥
ततो निष्कासिता पौरैः प्राप्तेदं विपिनं महत् ।
अस्तङ्गतात्मविज्ञाना भ्रान्ता दुःखमयेऽध्वनि ॥ १९-३५ ॥
भवद्भिर्नष्टमज्ञानं तमः सूर्यांशुभिर्यथा ।
नष्टं लब्धमिवात्मानं मेने भवदनुग्रहात् ॥ १९-३६ ॥
सवस्त्रभूषणाकल्पं देहं चैव यथा पुरा ।
पश्यामि शयनोद्बुद्धा यथा स्वप्ने लयं गते ॥ १९-३७ ॥
भवत्प्रसादाद् दुःखाब्धिमुत्तीर्णा भगवत्तमाः ।
इत्युक्त्वा मुनिपादाब्जं प्रणताभूत्पुनः पुनः ॥ १९-३८ ॥
ततः प्रोचुर्मुनिवराः सान्त्वयन्तश्च तां सतीम् ।
भयं मा कुरु कल्याणि पातिव्रत्यपरायणे ॥ १९-३९ ॥
अज्ञानप्रभवं विश्वं वस्तुतो नास्ति किञ्चन ।
यावदज्ञानमात्मस्थं तावद्दर्शयते भयम् ॥ १९-४० ॥
मिथ्या स्वप्नोऽपि राजर्षिप्रिये ! भयकरो यथा ।
तथा मिथ्यापि संसारो भयकृत्तादृशा जुषाम् ॥ १९-४१ ॥
अज्ञातैव यथा रज्जुः सर्पभूता भयप्रदा ।
अविद्यासबलब्रह्मविवर्त्तोऽयं प्रपञ्चकः ॥ १९-४२ ॥
तदंशभूतजीवानामविज्ञातो भयङ्करः ।
स्वात्मत्वेन तु विज्ञातो भयं नोद्वहते पुनः ॥ १९-४३ ॥
आत्मा शुद्धोऽव्ययः सूक्ष्मो व्यापी नित्यो निरञ्जनः ।
स्वमायावरणाच्छन्नः स्वस्मिन् स्वप्नं प्रपश्यति ॥ १९-४४ ॥
यथा तदुद्भवैश्छन्नं शैवालैः सलिलं भवेत् ।
स्वमायया तथा छन्न अक्षरं ब्रह्मकेवलम् ॥ १९-४५ ॥
मायावृतं परं ब्रह्म स्वप्नसाक्षितया पुनः ।
स्वाप्नमण्डं प्रविश्याशु धत्तं नारायणाभिधाम् ॥ १९-४६ ॥
तस्य नाभेरभूत्पद्मं तत्र जातश्चतुर्मुखः ।
प्रवरो वेदविदुषां बीजं संसारभूरुहः ॥ १९-४७ ॥
तत्र जाता वयं सर्वे स्वाप्निका एव भामिनि ।
भ्रमामः कर्मभिर्नुन्न्नाः स्वप्नमायामये पथि ॥ १९-४८ ॥
त्वयानुभूतमेतद्धि यथेदं यक्षमायिकम् ।
तस्यापसरणे साध्वि स्वात्मालब्धो यथा पुरा ॥ १९-४९ ॥
जीवाः सर्वे वयं तद्वद् ब्रह्माभासमया अपि ।
मायाकार्यांशविलये भविष्यामोऽक्षरात्मकाः ॥ १९-५० ॥
मायाकार्ये विद्यमाने दुःखशोको भयं शुचः ।
धर्माधर्मौ पुण्यपापे सत्यमित्येव गम्यते ॥ १९-५१ ॥
तस्मादवास्तवं दुःखं विज्ञाय हृदये दृढम् ।
वीतशोका वीतभया भव भामिनि नित्यदा ॥ १९-५२ ॥
इत्युक्त्वा तां मुनिश्रेष्ठा योगमायाबलेन च ।
निमिषेण गृहं निन्युर्घटिकान्तरितं प्रिये ॥ १९-५३ ॥
प्रिया राज्ञोऽपि तद्वृत्तं विचार्य च पुनः पुनः ।
महाकुतूहलाक्रान्ता राज्ञे सर्वं न्यवेदयत् ॥ १९-५४ ॥
एवं ता देवदेवेशि प्रिया भगवतो हि ताः ।
भ्रान्तात्मरूपविज्ञाना मायास्वप्ने परात्मनः [परात्मना इत्यपि पाठः ।] ॥ १९-५५ ॥
नानायोनिषु देवेशि ससरन्ति पुनः पुनः ।
भ्रान्तात्मानश्च्युतानन्दाः संसारेप्यसति प्रिये ॥ १९-५६ ॥
निजधाम्नि महानन्दे दुःखाभासो न विद्यते ।
न दुःखानुभवश्चापि तत्रत्यानां कदाचन ॥ १९-५७ ॥
न कार्पण्यं न दुःखं च नोद्वेगो नारतिः क्वचित् ।
तत्प्रियाप्रार्थितं मत्वा निर्बन्धेन गिरीन्द्रजे ॥ १९-५८ ॥
कूटस्थस्वप्नसम्बन्धमनो भावान् [बावः इत्यपि पाठः ।] प्रचक्रिरे ।
असन्नपि महेशानि स्वप्नोऽयं दुःखदो महान् ॥ १९-५९ ॥
स्ववासनाकामशेषो ह्यधुनापि निषेव्यते ॥ १९-६० ॥
इति श्रीपञ्चरात्रे श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे एकोनविंशं पटलम् ॥ १९-१९ ॥