१८

अष्टदशं पटलम्

शिव उवाच

एवं सम्भावितास्तेन मुनिना मुनयस्तदा ।
असम्बाधे शिवे तस्मिन्नाश्रमे न्यवसन्सुखम् ॥ १८-१ ॥

[प्रातरुत्थाय इति वा पाठः ।] प्रातरुप्तानि मध्याह्ने परिणामं गतानि च ।
अन्यान्यपरभागे तु तैर्मुनिस्तानजीवयत् ॥ १८-२ ॥

हव्येर्देवान् पितृन्कव्यैस्तर्पयन्तो मुनीश्वराः ।
ततः शेषामृतभुजो निन्युस्तेऽहर्गणान् बहून् ॥ १८-३ ॥

ततो द्वादशवर्षान्ते वृष्टिरासीत्सुशोभना ।
साङ्कुरा सजला पृथ्वी पुनरासीद्यथा पुरा ॥ १८-४ ॥

प्रजाः स्थानानानि भेजुस्ताः पूर्वं गिरिगुहाशयाः ।
अन्नादिविरहान्नष्टो धर्मः प्रावर्तत प्रिये ॥ १८-५ ॥

क्षितिरन्नादिसम्पूर्णा विश्वमासीत्सुमङ्गलम् ।
ततः कतिपये काले गन्तुकामाः मुनीश्वराः ॥ १८-६ ॥

प्रेमबद्धोऽन्वह विप्रान्न्येषधद्विरहाक्षमः ।
निषिद्धाः कतिचिन्मासान् न्यवसंस्ते मुनीश्वराः ॥ १८-७ ॥

पुनः पप्रच्छुरौत्सुक्यात्स्वस्वाश्रमगतिं प्रति ।
नेत्याह गौतमो विप्रान् विरहव्यथितो भृशम् ॥ १८-८ ॥

ततस्ते कृतसङ्केताः केचित्तेष्वपि वाडवाः ।
ऊचुः परस्परं येन मुनित्यागः कथं भवेत् ॥ १८-९ ॥

मुनिः स्नेहवशाद्बद्धः स्वयमस्मान्न सन्त्यजेत् ।
अस्माभिस्त्यज्यते सोऽयं तथा कुर्वध्वमादृताः ॥ १८-१० ॥

विमर्षन्तस्तथान्योऽन्यमुपायं मनसागमन् ।
अभिषापं मुनौ धृत्वा गमिष्यामो यथारुचि ॥ १८-११ ॥

ते दैवनिहताः सर्वे परस्परममन्त्रयन् ।
कदाचिदथ मध्याह्ने कर्तुं मध्याह्निकीं क्रियाम् ॥ १८-१२ ॥

ऋषिसङ्घैः परिवृतो जगाम तपतीं प्रति ।
निर्मितां मुनिभिर्धेनुं जरठामतिवेपतीम् ॥ १८-१३ ॥

सीदन्तीं कलिले वीक्ष्य गौतमः करुणोऽभवत् ।
आसाद्य सुरभेः पार्श्वं यावत्तामस्पृशन्मुनिः ॥ १८-१४ ॥

तावत्पपात सहसा मायाधेनुर्मृतिं गता ।
तद्दृष्ट्वा मुनयः प्रोचुर्धिग्धिक् गौतम ते कृतिम् ॥ १८-१५ ॥

हिंसिता धेनुरबला किमतो निन्दितं भवेत् ।
अद्य प्रभृति ते द्वारि जलमात्रार्थिभिर्नरैः ॥ १८-१६ ॥

न स्थातुमर्हाः किं कुर्मो गमिष्यामो वयं ततः ।
एवमुक्तो मुनिर्ध्यात्वा तत्कृतानर्थमाप सः ॥ १८-१७ ॥

उवाच वचनं क्रुद्धो ज्वलन्निव हुताशनः ।
वेदबाह्या भविष्यध्वं कृतघ्नाः स्वेन कर्मणा ॥ १८-१८ ॥

वेदब्राह्मणगोमन्त्रनिन्दावादपरायणाः ।
कलौ भविष्यथो मूढाः ब्रह्मवादपरायणाः ॥ १८-१९ ॥

अन्तर्दुष्टा बहिः स्वच्छा हेतुवादपरायणाः ।
ब्रह्मज्ञत्वाभिमानेन धर्मकर्मबहिर्मुखाः ॥ १८-२० ॥

ब्रह्म सत्यं जगन्मिथ्येत्यनुवादविचक्षणाः ।
मिथ्यात्वाज्जगतः किं स्यात्कर्मभिश्च शुभाशुभैः ॥ १८-२१ ॥

इत्येवं नास्तिका मूढा दुर्हृदा वेदनिन्दकाः ।
ब्रह्मवादविलासोत्थैर्वचनैर्भावगर्वितैः ॥ १८-२२ ॥

साधुवेषेण शिक्षाभिः प्रियवाक्यामृतादिभिः ।
एतैर्जवनिकाकारैः पापमावृत्य केवलम् ॥ १८-२३ ॥

ज्ञानित्त्वमात्मनो लोके ख्यापयन्तो दुराशयाः ।
यूयं वैडालिनो लोके भवन्तु चरमे युगे ॥ १८-२४ ॥

न तु वो वास्तवं ज्ञानमुदेष्यति कदाचन ।
इति गौतमशप्तानां धर्मच्छेदोद्यमे ततः ॥ १८-२५ ॥

वासना समभूत्तेषां गौतमं प्रतिकुर्वताम् ।
अथ तद्वासनायुक्ताः कलौ पापयुगे शठाः ॥ १८-२६ ॥

अवतीर्य क्षितितले [वचनमिदमाकर्ण्यं श्रीपूर्णपुरुषोत्तमसेवामतिक्रम्य वेदप्रतिपादितकर्मकाण्डादि चावलम्ब्य निजधाममार्गों ब्रह्मसृष्टिभिरिह नैव त्याज्यः पतिसेवात्यागेन प्रत्यवायदर्शनात् अतो ब्रह्मसृष्टीनां निजपतिपुरुषोत्तमसेवैव परमो धर्मः ।] ब्रह्मसृष्टिमुपाश्रिताः ।
वेदशास्त्रविरुद्धानि ह्याचरन्तीह पामराः ॥ १८-२७ ॥

द्विषन्त्याचारमास्तिक्यं यज्ञव्रततपांसि च ।
द्रुह्यन्त्यन्योऽन्यमासाद्य नष्टज्ञाना विचेतसः ॥ १८-२८ ॥

परद्रव्यपरद्रोहपरस्त्रीगमनोत्सुकाः ।
तत्सम्बन्धात् ब्रह्मसृष्टिर्मालिन्यमुपयास्यति ॥ १८-२९ ॥

यथा कालिमसम्बन्धात् स्फटिकोऽपि मलीमसः ।
आभाति तद्वदेवेयं ब्रह्मसृष्टिस्तदाश्रयात् ॥ १८-३० ॥

तस्माद् बुभुत्सुभिः साध्वि त्याज्यो वैडालिकाश्रयः ।
समधर्मक्रियाछद्मधारिणस्ते तु कीर्त्तिताः ॥ १८-३१ ॥

अन्येऽपि सन्ति पाषण्डा आसुरं भावमाश्रिताः ।
तेऽपि निन्दन्ति पापिष्ठा वेदधर्म पुरातनम् ॥ १८-३२ ॥

तांस्ते व्रवीमि सङ्क्षेपात् शृणुष्वेकाग्रमानसा ।
यत् शृण्वतां न पाखण्डो बुद्धिं मोहयति क्वचित् ॥ १८-३३ ॥

पुरा देवासुरयुद्धे निर्जितेष्वसुरेष्वथ ।
पाखण्डाधिकृताः सर्वे ह्येते सृष्टाः स्वयम्भुवा ॥ १८-३४ ॥

तपश्चरत्सु सर्वेषु असुरेषु जयार्थिषु ।
विष्णुः सुदुस्तरां मायामास्याय सुरनोदितः ॥ १८-३ ॥

मोहयामास योगात्मा तपोविघ्नाय तान्प्रभुः ।
स मूढान् बुद्धरूपेण तानुवाच महामनाः ॥ १८-३६ ॥

शक्या जेतुं सुराः सर्वे युष्माभिरितिदर्शनैः ।
बौद्धधर्मं समास्थाय शक्यास्ते बभूविरे ॥ १८-३७ ॥

तानुवाचार्हतो मम यूयं भवत मद्विधाः ।
ज्ञानेन सहितं धर्मं ते चार्हन्त इति स्मृताः ॥ १८-३८ ॥

बौद्धश्रावकनिर्ग्रन्थाः सिद्धपुत्रास्तथैव च ।
ऐते सर्वेपि चार्हन्तो विज्ञेया दुष्टचारिणः ॥ १८-३९ ॥

त्रयीक्लेशं समुत्सृज्य जीवतेत्यव्रवीत्तु यान् ।
जीवकानाम् ते जाताः सर्वधर्मबहिष्कृताः ॥ १८-४० ॥

यान् भूत्वादित्यवद्व्योम्नि धर्मान्वै प्रतिपादयत् ।
कापिलास्तेपि सम्प्रोक्ताः कपिलो हि दिवाकरः ॥ १८-४१ ॥

चरध्वं तानुवाचेदं मच्छासनमतिद्युति ।
चरकास्तेपि विज्ञेया अधर्माचारणाः शठाः ॥ १८-४२ ॥

दीर्घचरमिति प्रोक्त सूक्ष्मं वा धर्मरूपकम् ।
धर्मचरध्वमित्युक्ता यस्मात्ते दीर्घचक्षुषः ॥ १८-४३ ॥

चीराणि चैव नीलानि बिभ्राणाश्चीरकास्ततः ।
एषश्चोक्षोतिसंशुद्धो धर्मस्तं श्रयतेति यान् ॥ १८-४४ ॥

उवाच मायया विष्णुस्ते हि चौक्षाः प्रकीर्त्तिताः ।
विट्भक्षाश्चैव ये केचित् कपालकृतभूषणाः ॥ १८-४५ ॥

तथेतरे दुरात्मानः सर्वेप्यासुरदेवताः ।
बौद्धश्रावकनिर्ग्रन्थाः सिद्धपुत्रास्तथैव च ॥ १८-४६ ॥

नैरात्म्यवादिनः सर्वे अपज्ञानास्तिवादिनः ।
वर्त्तमानास्त्वधर्मेषु जायन्ते तु पुनः पुनः ॥ १८-४७ ॥

निरय प्राप्य तैरेव कर्मभिर्भावितैः पुनः ।
वृथा जटी वृथा मुण्डी वृथा नग्नाश्च ये नराः ॥ १८-४८ ॥

एतेऽन्ये च त्रयीबाह्याः पाखण्डाः पापचारिणः ।
पाशब्देन त्रयीधर्मः पालनाज्जगतः स्मृतः ॥ १८-४९ ॥

तं खण्डयन्ति यस्मात्ते पाखण्डास्तेन हेतुना ।
यदि ह्मनादरेणैषां न कथ्येता प्रमाणता ॥ १८-५० ॥

अशक्यैवेति मत्वान्ये भवेयुः समदृष्टयः ।
त्रयीमार्गस्य सिद्धस्य ये ह्यत्यन्तविरोधिनः ॥ १८-५१ ॥

अनिराकृत्य तान् सर्वान् धर्मशुद्धिर्न लभ्यते ।
पाखण्डिनो विकर्मस्थान् बैडालान् हेतुकांस्तथा ॥ १८-५२ ॥

बकवृत्तांश्च यान् तान्वै वाङ्मात्रेणापि नार्चयेत् ।
या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः ॥ १८-५३ ॥

सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ते स्मृताः ।
पुराणानि तथा साङ्ख्यं योगः पाशुपतं तथा ॥ १८-५४ ॥

देशजातिकुलानां च धर्माश्चान्ये महत्तराः ।
सर्वे वेदाविरोधेन प्रमाणं नान्यथा भवेत् ॥ १८-५५ ॥

या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः ।
सर्वास्ता निष्फलाः किञ्च प्रत्यवायस्य हेतवः ॥ १८-५६ ॥

तस्मात्सर्वप्रयत्नेन देवि देवेन्द्रवन्दिते ।
त्यक्त्वा वेदविरुद्धानि वेदमेकं समाश्रयेत् ॥ १८-५७ ॥

पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानि विद्यानां घर्मस्येति चतुर्द्दश ॥ १८-५८ ॥

यथा वेदास्तथा तन्त्रं धर्मनिर्द्धारहेतवे ।
तदुक्तमाचरन् देवि ! भवपाशाद्विमुच्यते ॥ १८-५९ ॥

अतोऽन्यथा प्रवर्त्तन्ते ये मूढाः पापबुद्धयः ।
असुरास्तान्विजानीहि विष्णुना मोहिताः पुरा ॥ १८-६० ॥

ब्रह्मवादेषु वाचाला धर्मोच्छेदैकतत्पराः ।
तेषां मुखावलोकेन कुर्यात्सूर्यांवलोकनम् ॥ १८-६१ ॥

तस्य संस्पर्शमात्रेण सवासा जलमाविशेत् ।
कलौ ते घोषयिष्यन्ति ब्रह्मवादं जने जने ॥ १८-६२ ॥

इति मे कथितं देवि यत्त्वया पृष्टमुत्तमम् ।
समासेन महादेवि किं भूयः श्रोतुमिच्छसि ॥ १८-६३ ॥

इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे अष्टादशं पटलम् ॥ १८-१८ ॥