अथ सप्तदशं पटलम्
पार्वत्युवाच
भगवन् देवदेवेश निर्णयः साधुसम्मतः ।
कथितोऽयं सदाचारलक्षणः पावनो नृणाम् ॥ १७-१ ॥
धर्मकर्मविहीनानां सदाचारं विमुञ्चताम् ।
मलीमसानां दुष्टानां ब्रह्मसिद्धिर्न जायते ॥ १७-२ ॥
यथा जह्यात् शनैरम्भः सोपानानि क्रमात् क्रमात् ।
तथा देहानुसम्बन्धान् शनैर्जह्यात् स पण्डितः ॥ १७-३ ॥
देहाभिमाने गलिते विज्ञाते स्वात्मनि स्वयम् ।
अश्मकाञ्चनयोस्तुल्यं भावप्राप्तौ समस्थितौ ॥ १७-४ ॥
उदासीनारिमित्रेषु स्वानन्दानुभवोदये ।
न कर्मभिस्तदा कार्यं सम्राजो भिक्षया यथा ॥ १७-५ ॥
यथामृतेन तृप्तस्य नाहारेण प्रयोजनम् ।
स्वात्मानन्दोदये तद्वत्कर्माभिनं प्रयोजनम् ॥ १७-६ ॥
तालवृन्तेन किं कार्यं लब्धे मलयमारुते ।
स्वात्मानन्दोदये जाते कर्मणा किं प्रयोजनम् ॥ १७-७ ॥
पार्वती उवाच
साध्वेतद्व्याहृतं देव त्वया भागवता प्रभो ।
परं वेदितुमिच्छामि सन्देहाकुलमानसा ॥ १७-८ ॥
ब्रह्मवादः कलियुगे गेहे गेहे जने जने ।
धर्मकर्मविलोपार्थं भविष्यति न संशयः ॥ १७-९ ॥
इति यद्भवता प्रोक्तं तत्र मे संशयो महान् ।
ब्रह्मवादेन सदृशं पवित्रं नहि किञ्चन ॥ १७-१० ॥
तपो दानं क्रिया योगः स्वाध्यायनियमा यमाः ।
समाप्यन्ते महेशान ब्रह्मज्ञानोदयादनु ॥ १७-११ ॥
ब्रह्मज्ञानैकनिष्ठानां महादेव महात्मनाम् ।
सर्वं सम्पूर्णतां याति नित्यं नैमित्तिकं च यत् ॥ १७-१२ ॥
ब्रह्मज्ञानेन मुच्येत यदि चेद्विश्वघातकः ।
न तस्य कर्मलोपोऽस्ति पद्मस्यैवाम्भसा यथा ॥ १७-१३ ॥
कलिस्तु सुमहान् पापस्तामसात्मा मलीमसः ।
अधर्मे रमते नित्यं येन स्पृष्टा प्रजा भुवि ॥ १७-१४ ॥
यत्रोदेष्यन्ति पाषण्डा धर्मनिर्नाशहेतवः ।
वर्णानां सङ्करो यत्र स्वस्वकर्मविलुम्पताम् ॥ १७-१५ ॥
कन्या विक्रयिणश्चैव वेदविक्रयिणो द्विजाः ।
म्लेच्छाचाररता लोके म्लेच्छभाषाविशारदाः ॥ १७-१६ ॥
म्लेच्छान्नपानपुष्टाङ्गा धर्मकर्मविनिन्दकाः ।
स्वाहास्वधाविरहिताः शिश्नोदरपरायणाः ॥ १७-१७ ॥
परस्त्रीपरधनलोभाय हेतुवादपरायणाः ।
कलौ सर्वे भविष्यन्ति सर्वधर्मविवर्जिताः ॥ १७-१८ ॥
ब्रह्मवादः कलियुगे गेहे गेहे जने जने ।
असम्भाव्यमिवाभाति ममैतत्सुरपूजित ॥ १७-१९ ॥
कलावपि महापापे प्रवृत्तं ब्रह्मकीर्तनम् ।
तत्कथं धर्मलोपाय लोकानां मेऽत्र विस्मयः ॥ १७-२० ॥
विचार्य ब्रुहि मे देव कृपया करुणानिधे ।
शिव उवाच
साधु पृष्टं त्वया भद्रे सर्वलोकैकहेतवे ॥ १७-२१ ॥
तदहं ते प्रवक्ष्यामि शृणुष्वैकाग्रमानसा ।
यस्य श्रवणमात्रेण धर्मश्रद्धा प्रजायते ॥ १७-२२ ॥
पुरा द्वादशवार्षिक्यामनावृष्ट्यामनम्भसि ।
दवाग्न्यर्कविनिर्दग्धवनकन्दादिसम्पदि ॥ १७-२३ ॥
क्षुत्तृट्परीतावै [क्षतृड्भ्यां च परीतापैः इत्यपि पाठः ।] काश्चित्प्रजा गिरिगुहाश्रिताः ।
परस्परं भक्ष्यमाणामम्रिरे व्याधिकर्षिताः ॥ १७-२४ ॥
गौतमस्याश्रमे रम्ये तपतीतीरसंस्थिते ।
क्षुधार्ता ब्राह्मणाः प्राप्ता देहनिर्वाहकाम्यया ॥ १७-२५ ॥
अलक्षन् गौतममुनिं शिष्यराशिपरिवृतम् ।
ब्रह्मतेजःप्रभावेन ज्वलन्तमिव पावकम् ॥ १७-२६ ॥
अन्नान्युत्पाद्य तपसा पुष्णन्तं शिष्यसंहतिम् ।
प्रणेमुर्ब्राह्मणाः सर्वे निबद्धकरसम्पुटाः ॥ १७-२७ ॥
ब्राह्मणा ऊचुः
त्राहि त्राहि मुने प्राप्तान् शरण्यान् शरणप्रद ।
जाठरेणाग्निना तप्ता वयं सर्वे द्विजातयः ॥ १७-२८ ॥
अलभ्यं कन्दमूलादि निर्जले क्षितिमण्डले ।
न प्रवर्त्तन्त एवेह क्रिया निगमचोदिताः ॥ १७-२९ ॥
अन्नं वै प्राणिनां प्राणाः प्राणदोन्नं ददाति यः ।
तस्मादन्नप्रदानेन प्राणदो नः पिता भवान् ॥ १७-३० ॥
एकतः सकला धर्मा यज्ञाः सर्वस्वदक्षिणाः ।
तपांस्युग्राणि दानानि व्रतानि सुबहून्यपि ॥ १७-३१ ॥
न तुलामधिगच्छन्ति ह्यन्नदानस्य वै मुने ।
क्षुत्पिपासे प्राणधर्मौ क्षुधया कृष्यते वपुः ॥ १७-३२ ॥
वपुःकार्श्ये चेन्द्रियाणि कर्षितानि भवन्ति वै ।
म्लानेन्द्रियमनोवृत्तेः विवशित्वं प्रपद्यते ॥ १७-३३ ॥
मनोम्लानौ बुद्धिलयस्ततो ध्यानं निवर्तते ।
अध्यायतः कुतः स्वात्मानुभूतिर्भवति प्रभो ॥ १७-३४ ॥
तस्मादन्नेन सदृशं दानं नास्ति जगत्त्रये ।
म्लानेन्द्रियमनोवृत्तेः क्षुधया पीडितस्य च ॥ १७-३५ ॥
अन्नाभिकाङ्क्षिणो येन प्राणतृप्तिः कृता मुने ।
तेन दत्तं हुतं जप्तं तपस्तप्तं शुभं कृतम् ॥ १७-३६ ॥
पृथ्वी रत्नेन सम्पूर्णा तेन दत्ता द्विजातये ।
तस्यैव ज्ञानससिद्धिर्भवतीति श्रुतं हि नः ॥ १७-३७ ॥
किमन्यज् ज्ञाप्यते तुभ्यं सर्वज्ञाय मुनीश्वर ।
तथाविधेह्यङ्ग तूर्णं यथा नः प्राणधारणा ॥ १७-३८ ॥
शरीरमूलमन्नं हि धर्ममूलमिदं वपुः ।
चित्तशुद्धौ विशेषेण धर्म एव हि कारणम् ॥ १७-३९ ॥
भक्तिर्ज्ञानं च वैराग्यं [शुद्धिश्चित्तस्य इत्यपि पाठः ।] शुद्धचित्तस्य जायते ।
सर्वार्थसाधनं तस्माच्छरीरमिदमुच्यते ॥ १७-४० ॥
पुनर्ग्रामं पुनर्वित्तं पुनः क्षेत्रं पुनर्गृहम् ।
पुनः शुभाशुभं कर्म न शरीरं पुनः पुनः ॥ १७-४१ ॥
शरीररक्षणायासः कर्त्तव्यः सर्वथा बुधैः ।
नहीच्छन्ति तनुत्यागमपि कुष्टादिरोगिणः ॥ १७-४२ ॥
तद्गोपितं स्याद्धर्मार्थे धर्मो ज्ञानार्थमेव च ।
ज्ञानं तु ध्यानयोगार्थमचिरात्तेन मुच्यते ॥ १७-४३ ॥
तपः प्रभावमास्थाय पाह्यस्मान् कृपणानिह ।
इत्येवं वचनं तेषां ब्राह्मणानां तपोधनः ॥ १७-४४ ॥
दीनानां क्षुधयार्त्तानां निशम्य करुणोऽभवत् ।
गौतम उवाच
साधु साधु महाप्राज्ञा न्याय्यमेतद्वचो हि वः ॥ १७-४५ ॥
धर्मार्थकाममोक्षाणां साधनं देह उच्यते ।
रक्षितव्यः प्रयत्नेन तस्माद्देहो मुनीश्वराः ॥ १७-४६ ॥
देहत्यागं न चेच्छन्ति ये भक्ता ये च साधकाः ।
महापापादिभिर्लिप्तः सर्वकर्मविनिर्गतः ॥ १७-४७ ॥
पृथिवीभारभूतो यो देहस्त्याज्यः स एव हि ।
पितृदेवातिथीनां च कर्मणि यः सुपुण्यकृत् ॥ १७-४८ ॥
ईश्वरध्यानयोग्यश्च स कथं त्यागमर्हति ।
कर्मणापि निषिद्धेन देहः पोष्य इहा यदि ॥ १७-४९ ॥
दग्ध्वा तानि पुनः सोऽयं नयते हि गतिं पराम् ।
यावद्देहस्थितिर्लोके तावत्कुशलमाचरेत् ॥ १७-५० ॥
जलबुद्बुदतुल्योऽयं यस्मादेषो विनश्वरः ।
अस्थिरेण शरीरेण स्थिरधर्मं समाचरेत् ॥ १७-५१ ॥
सर्वं ब्रह्ममयं पश्यन् मुच्यते मोहसङ्कटात् ।
स चाहं तपसा तस्मात्करिष्ये वः समीहितम् ॥ १७-५२ ॥
विज्वराः सन्तु भो विप्राः स्वस्वकर्मण्यतन्द्रिताः ।
धन्यस्य कृतपुण्यस्य द्वार्यायान्त्यर्थिनो जनाः ॥ १७-५३ ॥
तेन सम्भावनीयास्ते प्राणैरपि धनैरपि ।
पञ्चभूतात्मको देहस्वनित्यः क्षणभङ्गुरः ॥ १७-५४ ॥
अवश्यं नाशमायाति कीर्तिधर्मौ न सर्वथा ।
भूतद्रोहं परित्यज्य दया भूतेषु नो धृता ॥ १७-५५ ॥
नोपार्जितोऽपि सद्धर्मः स्फारितं न यशो भुवि ।
नात्मा विमर्शितः शुद्धो वेदविद्भिश्च साधुभिः ॥ १७-५६ ॥
भूमिभराय तज्जन्म जीवन्नेव मृतो हि सः ।
तस्मात्तपोव्ययेनाहमर्थिनां वो मुनीश्वराः ॥ १७-५७ ॥
परिचर्यां करिष्येहं यथा स्याद्देहधारणा ।
इत्युक्त्वा गौतमस्तान् वै दानमानार्हणादिभिः ॥ १७-५८ ॥
सम्भावयामास तदातिथ्यागमनहर्षितः ॥ १७-५९ ॥
इति श्रीपञ्चरात्रे श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे सप्तदशं पटलम् ॥ १७-१७ ॥