१६

अथ षोडशं पटलम्

देवेश भगवन् शम्भो यत्त्वयोक्तमलौकिकम् ।
तच्छ्रुत्वा हृदयं मेद्य मज्जते विस्मयोदधौ ॥ १६-१ ॥

तत्रोक्तं यत्त्वया देव प्रिया भगवतस्तु याः ।
कामशेषानुभूत्यर्थमिहासन्निति शङ्कर ॥ १६-२ ॥

अवशिष्टः कथं कामोऽनुभूतस्ताभिरीश्वर ।
कथं वा लक्षयेयुस्ता लक्षणैरिति तद्वद ॥ १६-३ ॥

मर्त्यलोकं गतानां च कृष्णस्त्रीणां महेश्वर ।
गुरुभावं गतोऽसि त्वं प्रोक्तवानसि यद्रहः ॥ १६-४ ॥

योगिनो ज्ञानिनो भक्ताः कर्मनिष्ठास्तपोधनाः ।
तेषां गुरुस्त्वमाद्यो हि तत्तत्तत्त्वोपदेशकः ॥ १६-५ ॥

त्वामनादृत्य ये पापाः प्रवर्त्तन्ते स्वकर्मसु ।
न तेषां जायते सिद्धिः कोटिकल्पशतैरपि ॥ १६-६ ॥

त्वमेव सर्वधर्माणां कर्त्ता वक्ताभिरक्षिता ।
त्वद्भक्त्यैव हि संसिद्धिर्नृणां भवति कर्मजा ॥ १६-७ ॥

त्वदुक्त्या बोधमाप्स्यन्ति भूतले भगवत्प्रियाः ।
मर्त्त्यदेहगतानां तु गुरुभूतोऽसि शङ्कर ॥ १६-८ ॥

तस्मादवश्यमेवैतदुपदेष्टव्यमीश्वर ।
मय्यपि कृपया नूनं रहस्यमिदमद्भुतम् ॥ १६-९ ॥

शिव उवाच

धन्यासि देवदेवेशि ललित ते परं वचः ।
श्रुत्वा प्रसन्नहृदयः कथयिष्ये कथां शुभाम् ॥ १६-१० ॥

अहं लोकगुरुः साक्षात् धर्मवक्ता जगत्त्रये ।
तं मां निन्दन्ति ये मूढास्तेषां सिद्धिः कथं भवेत् ॥ १६-११ ॥

नानादैवतसद्भक्त्या नानाधर्मैर्व्यवस्थिताः ।
तत्र तत्रोपदेष्टाऽहं तं मां निन्दन्ति पामराः ॥ १६-१२ ॥

किं न कुर्वन्ति ते मूढाः यतो माया महेशितुः ।
बलीयसी विमोहार्हान् विमोहयति नापरान् ॥ १६-१३ ॥

भविता फलरूपश्च येषां धर्मः सनातनः ।
ते [बहुधाधुनिका मूढधियः सुखमिति स्वर्गः दुःखमिति नरक इति अभिधायान्यत्र स्वर्गनरकस्थानं पृथक् न मन्यन्ते तदसत् चतुर्दशलोकानां मध्ये इत ऊर्ध्वं तृतीयं स्वः अधः सप्तमः पातालाख्यो लोकस्तत्रैव दक्षिणाशायां निरयाणाः मनकेषां स्थितिरिति सत्यम् ।] न निन्दन्ति देवांश्च धर्मान्वेदान्मतानि च ॥ १६-१४ ॥

पाखण्डवादनिरता वेदधर्मविनिन्दकाः ।
नरकं प्रतिपद्यन्ते न निवर्त्तन्ति कर्हिचित् ॥ १६-१५ ॥

इदमेव लक्षणं देवि मर्त्यलोकगतासु तत् ।
अक्षरः परमात्मा च स्वभिन्नौ पुरुषावुभौ ॥ १६-१६ ॥

शब्दब्रह्म परब्रह्म ह्येतदप्यद्वयं प्रिये ।
शब्दब्रह्मोदिता धर्माः कर्मज्ञानादयः प्रिये ॥ १६-१७ ॥

ते सर्वे स्वात्मबोधाय यदि कामविवर्जिताः ।
धर्माऽनुष्ठातृनिन्दाभिर्धर्मा एव विनिन्दिताः ॥ १६-१८ ॥

तत्र धर्मस्य निन्दाभिः शब्दब्रह्मैव निन्दितम् ।
तन्निन्दया परब्रह्म अक्षरः स्याद्विगर्हितम् ॥ १६-१९ ॥

गर्हिते ह्यक्षरे देवि गर्हितः पुरुषोत्तमः ।
स्वभर्त्तुर्निन्दया देवि तत्प्रियाणां कुतो गतिः ॥ १६-२० ॥

न निन्देन्मनसा वाचा धर्मान्वेदपथान्न् शिवान् ।
ब्राह्मणान्कर्मनिष्ठांश्च हविः कामदुघाश्च गाः ॥ १६-२१ ॥

तस्मादित्यादिकं सर्वं मनसा वेद्य तत्वतः ।
निन्दाद्वेषादिरहितो भजते पुरुषोत्तमम् ॥ १६-२२ ॥

प्रतिविन्द्याद् देवदेवेशि कृष्णस्यैव प्रियेति ताम् ।
सर्वमक्षरसम्भूतं विदित्वानन्यभावतः ॥ १६-२३ ॥

प्रणमेन्मनसा वाचा तमाहुः कृष्णवल्लभा ।
पातिव्रत्यमिदं देवि तदनन्यविभावनम् ॥ १६-२४ ॥

स एवेदं बभूवाग्रे पश्चादप्येवमेव सः ।
क एवान्योऽस्ति देवेशि तत्त्वदृष्ट्यावलोकने ॥ १६-२५ ॥

तस्मादिदं पातिव्रत्यं कृष्णस्त्रीणां मयोदितम् ।
पातिव्रत्यपरिज्ञानं यो न जानाति केवलम् ॥ १६-२६ ॥

न तस्मिन्वासनालेशो निश्चितं सुरवन्दिते ।
पतिव्रताधर्ममिमं सद्गुरोः शास्त्रतोऽपि वा ॥ १६-२७ ॥

निशम्याप्नोति तन्निष्ठां तमाहुः कृष्णवल्लभा ।
केचिद्वदन्ति वै मूढाः पातिव्रत्यमितोऽन्यथा ॥ १६-२८ ॥

एक एव पतिः सेव्यो नान्यो मान्यः कदाचन ।
अन्यस्य सेवया लोके योषित्सा पतिता भवेत् ॥ १६-२९ ॥

पातिव्रत्यमिदं देवि लौकिकं न त्वलौकिकम् ।
अनीश्वरः परिच्छिन्नः सदोषो लौकिकः पतिः ॥ १६-३० ॥

योषित्सापि तथा लोके पातिव्रत्यमतस्तथा ।
ईश्वरस्तु विभुः साक्षाद्विश्वात्मा विश्वविग्रहः ॥ १६-३१ ॥

स एव सर्वरूपैश्च नामभिः ख्यातिमागतः ।
सर्वनामस्वरूपं च ज्ञात्वा ब्रह्म सनातनम् ॥ १६-३२ ॥

दृष्ट्याऽविषमया देवि सर्वत्र परिपश्यति ।
पातिव्रत्यमिदं भद्रे मयैतत्कथितं शुभम् ॥ १६-३३ ॥

इत्येतन्निर्णयाज्ञानाद्विभ्रमन्ति विमोहिताः ।
षट् दर्शनानि मेऽङ्गानि पादौ कुक्षी करौ शिरः ॥ १६-३४ ॥

तेषु भेद तु यः कुर्यान् मदङ्गच्छेदको हि सः ।
एव पतिव्रताधर्मं सम्यक् ज्ञात्वा गुरोर्मुखात् ॥ १६-३५ ॥

पतिं परिचरेद्यस्तु तमाहुः कृष्णवल्लभा ।
श्रुत्वा कृष्णकथालापं यद्वपुः पुलकाङ्कितम् ।
आनन्दाश्रुजलं नेत्रे तमाहुः कृष्णवल्लभा ॥ १६-३६ ॥

श्री पार्वत्युवाच

कामसङ्कल्परहितं कर्म वर्णाश्रमोचितम् ।
कस्मात्करोति यस्येच्छा कामसङ्कल्पवर्जिता ॥ १६-३७ ॥

अनुद्दिश्य फलं देव न बालोऽपि प्रवर्तते ।
ब्रह्मसृष्टि [ब्रह्मसृष्टिवासनेह ह्यत्तमजीवानामुपरि संस्थिता मायामनु भवति ।] गतो जीवः कस्माद् व्यर्थं प्रवर्तते ॥ १६-३८ ॥

मोहसृष्टिसमुद्भूताः स्वर्गादिफलमोहिताः ।
ते कर्मणि प्रवर्त्तन्ते न तच्चित्रं महेश्वर ॥ १६-३९ ॥

कृष्णप्रियाः कृष्णरूपा [कामनाभिरित्यपि पाठः ।] वासनाभिः समागताः ।
कथं ताः कर्मणि व्यर्थे नियोजयसि शङ्कर ॥ १६-४० ॥

शिव उवाच

अप्रबुद्धः प्रबुद्धो वा कर्म कुर्यात्सदाहितम् ।
सकामं निन्दितं कर्म मुमुक्षुं प्रति मानिनी ॥ १६-४१ ॥

क्रियावान् पुरुषः श्रेष्ठो भवाब्धिं तरते सुखम् ।
क्रियाविरहिता लोके धर्मभ्रष्टा विभान्ति मे ॥ १६-४२ ॥

अश्रद्दधानात् धर्मेषु विद्वांसः कृपया विभो ।
नोपदेश्यन्ति शास्त्रार्थमुषरे बीजवत्प्रिये ॥ १६-४३ ॥

न च तत्वस्य निर्धारः शास्त्रहीनस्य जायते ।
तदर्थं निर्णयं शास्त्र त्यक्त्वाऽन्यत् साधनं मुधा ॥ १६-४४ ॥

श्वपुच्छालम्बनं यद्वत्तितीर्षोः सागरं यथा ।
विना तत्वस्य निर्धारं शङ्कापि न निवर्त्तते ॥ १६-४५ ॥

शङ्कापङ्काङ्कमलिने हृदये नैव सुन्दरि ।
प्रेमार्कप्रतिबिम्बः स्याद्येन कृष्णः प्रभासते ॥ १६-४६ ॥

तस्माद्वर्णाश्रमाचारभ्रष्टे नरचतुष्पदे ।
नैव ज्ञानं तथा भक्तिर्यथार्थोदेति निश्चयः ॥ १६-४७ ॥

नित्यं नैमित्तिकं तस्मात्कर्तव्यं तदशङ्कया ।
काम्यं निषिद्धं यत्कर्म तत्तुदूरात्परित्यजेत् ॥ १६-४८ ॥

नित्यं नैमित्तिकं कर्म फलं बध्नाति न क्वचित् ।
अननुष्ठानमात्रेण प्रत्यवायस्तु जायते ॥ १६-४९ ॥

अनुष्ठाने फलं नास्ति चित्तशुद्धिं विनेतरत् ।
काम्यादिकर्मकर्त्तारो देहभाजः पुनः पुनः ॥ १६-५० ॥

तस्मात्काम्यं परित्यज्य नित्यं विद्वान् समाचरेत् ।
अप्रबुद्धदशायां च प्रबुद्धायामपि प्रिये ॥ १६-५१ ॥

कर्त्तव्यं सहजं कर्म न तान्विघ्नः प्रभूयते ।
प्रबुद्धस्यापि यत्कर्म तत्र मे निर्णयं शृणु ॥ १६-५२ ॥

वार्त्तामात्रेण विज्ञानं प्रबोधो नैव वास्तवः ।
साक्षात्प्रबोधे देवेशि देहः सद्यो विलीयते ॥ १६-५३ ॥

तस्माच्छाब्दप्रबोधोऽयं परमार्थो न विद्यते ।
संसारमोहनाशाय शाब्दबोधो न हि क्षमः ॥ १६-५४ ॥

न निवर्त्तेत तिमिरं कदाचिद्दीपवार्तया ।
ज्वलितः पतितो देहौ यदा विरहवह्निना ॥ १६-५५ ॥

तदा विद्यादात्मबोधमन्यथा शाब्द एव सः ।
शाब्दप्रबोधमात्रेण नित्यं नैमित्तिकं त्यजेत् ॥ १६-५६ ॥

प्रत्यवायी स विज्ञेयो नासौ बोधमवाप्नुयात् ।
यावद्देहाभिमानः स्यान्ममता तावदेव हि ॥ १६-५७ ॥

तावद्देहानुबन्धित्वात्कर्म कर्तव्यमेव हि ।
शास्त्रोक्तं कर्म कर्त्तव्यं विकर्म विनिवृत्तये ॥ १६-५८ ॥

विकर्मणि प्रवृत्तिस्तु नृणां स्वाभाविकी यतः ।
विकर्मणः प्रभावेन देहभाजः पुनः पुनः ॥ १६-५९ ॥

नित्यं नैमित्तिकं देवि फलं सङ्कल्पवर्ज्जितम् ।
चित्तं शोधयते साध्वि ! न तु देहाय जायते ॥ १६-६० ॥

का हानिस्तत्र देवेशि निष्कामाचरणे नृणाम् ।
इत्येवं निर्णयाज्ञानान्मूढाः पण्डितमानिनः ॥ १६-६१ ॥

त्यजन्तः शोधनं कर्म पापचित्ता भ्रमन्ति वै ।
सांसारिकसुखासक्तं ब्रह्मज्ञोऽस्मीति वादिनम् ॥ १६-६२ ॥

कर्मब्रह्मोभयभ्रष्टं तं त्यजेदन्त्यजं यथा ।
देहेन्द्रियसुखासक्तो [सुखासक्तमिति मूलपाठः ।] ब्रह्मज्ञोऽस्मीति यो वदेत् ॥ १६-६३ ॥

न तं वैज्ञानिनं मन्ये मणिभूषितगर्दभम् ।
ब्रह्मवादं पुरस्कृत्य वर्णाश्रमनिबन्धनाः ॥ १६-६४ ॥

विलुम्पन्तः क्रियाः सर्वाः लोकनाशकरा हि ते ।
ब्रह्मवादः कलियुगे गेहे गेहे जने जने ॥ १६-६५ ॥

भविष्यति ततः काले धर्मकर्मविलोपनम् ।
धर्मकर्मविहीनानां पापमेवानुसेवताम् ॥ १६-६६ ॥

तेषामासुरजीवानां नरकं न निवर्त्तते ।
तस्मादेवं सुनिर्णीय धर्मकर्मपरायणाः ॥ १६-६७ ॥

कृष्णमेवानुसेवन्तस्तान्मन्ये कृष्णवल्लभाः ।
इति ते कथितं देवि वासनालक्षणं मया ॥ १६-६८ ॥

यज्ज्ञात्वा ह्यचिरादेव स्वात्मबोधः प्रजायते ॥ १६-६९ ॥

इति श्रीपञ्चरात्रे श्रीमाहेश्वरतन्त्रे शिवपार्वती संवादे षोडशं पटलम् ॥ १६-१६ ॥