१५

अथ पञ्चदशं पटलम्

शिव उवाच

अन्तर्भूते परमानन्दे द्विधा च हृदि मण्डले ।
अदृष्ट्वा निजनाथं तमतप्यन्विरहातुराः ॥ १५-१ ॥

मनस्यानन्दसम्पूर्णे लतावृक्षादिषु स्फुटम् ।
चैतन्यस्फूर्त्तिरभवत्ततोऽपृच्छंस्तरूल्ँलताः ॥ १५-२ ॥

यो नादादुत्तरं तं तं निनिन्दुर्धृतनिश्चयाः ।
कृष्णावेशात् कृष्णभावं गताः कृष्णोऽहमूचिरे ॥ १५-३ ॥

एवं नानाविधा लीलाः कुर्वन्त्यो विरहातुराः ।
तामसीशिक्षया सर्वा एकीभूत्वाथ यूयशः ॥ १५-४ ॥

व्रजस्य लीलानुकृतिं चक्रुस्तत्प्राप्तिसाधनम् ।
पूतनावधमारभ्य यावद्दाम्ना निबन्धनम् ॥ १५-५ ॥

व्रजलीला [ब्रजलीलाविभवतश्चित्तगो इत्यपि पाठः ।] विधेर्भावश्चित्तगोभूत्परात्मनः [रासलीलावसाने जलक्रीडानन्तरं श्रीयमुनातटमण्डपस्थसखीमध्यगतः भगवान् स्मृतरासमध्यान्तर्धानेन सखीगणेन अन्तर्हिते भवति मया सम्पूर्णतया व्रजलीला कृतेति यदा विज्ञापितस्तदैव सम्पूर्णव्रजलीलां स्मृतिपथारूढां कृतवानिति सम्प्रसादो नवरङ्गस्वामी किलाज्ञापयति ।] ।
नित्याखण्डा व्रजस्येयं लीला वेदेनुवर्णिताः ॥ १५-६ ॥

पुनरक्षरचित्तवृत्तिराविष्टाविबम्भौ ततः ।
सखीनां मण्डलादेव विस्मितोदारमुखाम्बुजः ॥ १५-७ ॥

तडित्प्रकाशवसनस्तारहारविराजिताः ।
स्फुरत्कटाक्षमालाभिः सुधाभिरिव शीलयन् ॥ १५-८ ॥

तं दृष्ट्वा विरहाक्रान्ता दुःखमात्यन्तिकं गताः ।
पुनरानन्दसन्दोहमग्ना एव हि केवलम् ॥ १५-९ ॥

रुदन्तीनां मुखान्यश्रुप्रवाहकलुशान्यपि ।
स्ववस्त्राञ्चलमादाय करेणामृजदच्युतः ॥ १५-१० ॥

आलिङ्गनानि चुम्बानि नानाभावनिदर्शनम् ।
चकार भगवांस्ताभी रसलीलामहोदयम् ॥ १५-११ ॥

सखीभिर्विरहे दुःखमनुभूतमभूच्च यत् ।
तच्चानन्दसुधाम्भोधौ विलापितमभूदहो ॥ १५-१२ ॥

जलक्रीडां ततश्चक्रे यमुनाया जले शुचौ ।
तीरे स्थित्वा पुनर्गोप्यो विवादांश्चक्रिरे ततः ॥ १५-१३ ॥

समाहिता भगवता परमानन्दसमप्लुताः ।
इत्येषा रासलीलायाः स्थितिः प्रोक्ता तवानघे ॥ १५-१४ ॥

शिव उवाच

अवशिष्टस्य कामस्य सखीनां पूरणाय च ।
आविश्चकार कालमायां पुनस्तां पुरुषोत्तमः ॥ १५-१५ ॥

अपश्यदक्षरः स्वप्नं कालमायाविजृम्भितम् ।
प्रातर्नन्दगृहे सुप्तः प्रबुद्धोऽस्मीति निश्चितम् ॥ १५-१६ ॥

सखीश्च ददृशे सर्वा गोपगेहेभ्य उत्थिताः ।
न मूलावेशतः किञ्चित् कूटस्थस्यैव वासनाः ॥ १५-१७ ॥

उज्जृम्भिता बहुविधा तदद्भुतमिवाभवत् ।
कुर्मार्य्यः श्रुतयश्चापि कालमायाप्रपञ्चगाः ॥ १५-१८ ॥

अत्युग्रविरहावेशादुद्धवस्यापि शिक्षया ।
कूटस्थान्तर्हृदि स्फूर्जद्व्रजलीलारसोदधौ ॥ १५-१९ ॥

निम्नगा इव तिष्ठन्ति तच्चित्तस्य रसस्पृशः ।
अथ कंससमदिष्टो ह्यक्रूरो गोकुलं गतः ॥ १५-२० ॥

तेन साकं गते कृष्णे गोपिका विरहातुराः ।
दुःखेन निन्युर्दिवसान् तत्कथा [तत्कथेल्लापनादिभिरित्यपि पाठः ।] ख्यापनादिभिः ॥ १५-२१ ॥

हत्वा कंसं मल्लयुद्धे चाणूरं मुष्टिकं तथा ।
बद्धकच्छोल्लसद्धूलिधूसरश्चासृगाङ्कितः ॥ १५-२२ ॥

पश्यतां सर्वलोकानां प्राप्तः कारागृहं गृहम् ।
देवकी वसुदेवश्च यत्रैवासत्रुत्सुकौ ॥ १५-२३ ॥

ववन्दे चरणौ मातुः पितुः प्रणयविह्वलः ।
बद्धाञ्जलिर्जगादेदं क्षम्यतामिति मां प्रति ॥ १५-२४ ॥

प्रसाद्य पितरं कृष्णो मातरं च विशेषतः ।
यमुनायां ततः स्नात्वा शुचिदिव्याम्बरं दधौ ॥ १५-२५ ॥

जरासन्धादिकान् हत्वा समुद्वाह्य सुलोचनाः ।
षोडशैव सहस्राणि शतमष्टोत्तरं तथा ॥ १५-२६ ॥

हत्वासुरभरं पृथव्याः यादवैरुपबृंहितम् ।
भारं जिहीर्षुर्भगवान् कुले शापमपातयत् ॥ १५-२७ ॥

शापदग्धधियः सर्वे यादवाश्च परस्परम् ।
विनेशुर्भगवांस्तत्र प्रभासे रहसि स्थितः ॥ १५-२८ ॥

चतुर्भुजः कञ्जपलाशलोचनः
पीताम्बरः कौस्तुभशोभिताकृतिः ।
स्वपाञ्चजन्याम्बजचक्रसद्गदः
प्रगल्भसङ्गीतगुणो बभौ हरिः ॥ १५-२९ ॥

व्याधेन शरसंस्पृष्टः पादे मृगविशङ्कितः ।
वैकुण्ठमगमत्साक्षद्धारिः कमललोचनः ॥ १५-३० ॥

कालामायागृहीताङ्गा मूलसख्यस्तुयाः स्थिताः ।
ता अपि स्वप्नलीलायां विचित्राकृतयोऽभवन् ॥ १५-३१ ॥

तद्वासनास्तासु लीना भविष्यन्ति यदा प्रिये ।
बोधमाप्स्यति कूटस्थः प्रलयोऽयं महान् शिवे ॥ १५-३२ ॥

मोहनाशे भविष्यन्ति सर्वे ब्रह्ममया इमे ।
इत्येतत्ते समाख्यातं यत्पृष्टोऽहं त्वया शिवे ॥ १५-३३ ॥

गुह्याद् गुह्यतरं शास्त्रमिदमुक्त मयाऽनघे ।
गोपितव्यं प्रयत्नेन जनजीजारगर्भवत् ॥ १५-३४ ॥

इति माहेश्वरतन्त्रे ज्ञानखण्डे शिवोमासंवादे पञ्चदशं पटलम् ॥ १५-१५ ॥