१४

अथ चतुर्दशं पटलम्

पार्वत्युवाच

देवेश परमेशान धूर्जटे नीललोहित ।
ततः किमभवत्तत्र तन्मे ब्रूहि सदाशिव ॥ १४-१ ॥

शिव उवाच

रूक्षं वचनमाश्रुत्य सहसा जातसम्भ्रमाः ।
गतप्राणा इवासंस्ताः प्राणरूपी प्रियोऽभवत् ॥ १४-२ ॥

दुःखाकुला रुद्धवाचो निरुछ्वासा व्रजस्त्रियः ।
अश्रूण्यमुञ्चन्नेत्रेभ्यस्तापेनोष्णतराणि च ॥ १४-३ ॥

अब्रुवन् धैर्यमालाम्ब्य तामस्यो विरहातुराः ।
किमेवं भाषसे कृष्णविचाररहितं वचः ॥ १४-४ ॥

अविचारितवक्तारो लोके मूर्खा इति स्थिताः ।
तस्माद्विचार्य वक्तव्यं सर्वज्ञोऽसि यतः स्वयम् ॥ १४-५ ॥

वयं गोप्यो भवद्दास्यस्त्वच्चित्तास्त्वत्परायणाः ।
त्वत्प्राणास्त्वन्मयाः कृष्ण नान्यत्पश्यामि किञ्चन ॥ १४-६ ॥

नास्माकं पतयः पुत्रां भ्रातरो न च बान्धवाः ।
वयं त्वदेकशरणाः त्वन्न्यस्तात्मकलेवराः ॥ १४-७ ॥

अहं स्त्री मत्पतिश्चायमिति यासां मतिः स्थिता ।
तासामयं परो धर्मो यस्त्वया चोपदिश्यते ॥ १४-८ ॥

यस्याधिकारो यद्धर्मे त्यजेत्त न कदाचन ।
नोचेत्सन्न्यासिनः कुर्युः कथं न गृहिवादिनाम् ॥ १४-९ ॥

देहातीता गुहातीता लोकातीता वयं प्रभो ।
त्वामेव शरणं प्राप्ताः कथमर्हन्ति लौकिकम् ॥ १४-१० ॥

विकारेऽहमिति भ्रान्तिः पुत्रदारधनादिषु ।
तदध्यासवशात्तेषां देहधर्माधिकारिता ॥ १४-११ ॥

प्रवृत्ते ह्यधिकारे तु धर्मं लुम्पति यः खलः ।
पतत्येव न सन्देहो यतः स वासनान्तरे ॥ १४-१२ ॥

अह ममायमित्येषः पतिपुत्रादिषु स्थितः ।
समूलमाग्रहो नष्टः कथं तत्र नियुञ्जसि ॥ १४-१३ ॥

न प्रेम्णि बाधकं किञ्चित्प्रेमस्थितिरलौकिकी ।
वयं प्रेमसमाकृष्टा निशि प्राप्ता वनान्तरे ॥ १४-१४ ॥

अविद्वानिव तद्विद्वानपि त्वं किं प्रजल्पसि ।
लोकवेदपथांस्त्यक्त्वा समूलान्विपिनान्तरे ॥ १४-१५ ॥

निशि स्त्रियो वयं प्राप्तास्ता अपि त्यजता त्वया ।
विनाशिता प्रेमरीतिः कृतध्नत्वमुपार्जितम् ॥ १४-१६ ॥

वयं तु न गमिष्यामस्त्यक्तसर्वपरिग्रहाः ।
विरहाग्नौ तनुर्हुत्त्वा त्वामेष्यामो न संशयः ॥ १४-१७ ॥

तस्माद्भजस्व गोविन्द नोपेक्ष्या गोपिका वयम् ।
त्यजाग्रहमिमं कृष्ण प्रेमरीतिं समाश्रय ॥ १४-१८ ॥

इत्यावेदितमाकर्ण्य गोपिकानां यथार्थतः ।
वचः पीयूषधाराभिस्तासामाह्वादयन्मनः ॥ १४-१९ ॥

उवाच वचनं कृष्णो मधुरस्मितवीक्षणः ।
धन्यातिधन्या भो गोप्यो यूयं मत्प्राणवल्लभाः ॥ १४-२० ॥

न निवार्याः कदाचिद्वा भवत्प्राणमयेन मे ।
निषेधो वाग्विलासोत्थो मयि युञ्ज्यो न कर्हिचित् ॥ १४-२१ ॥

जानेऽहं भवतीः प्रेमबद्धा एव मयि स्फुटम् ।
त्वद्वचः श्रीतुकामत्वान्निषेधोऽयं न वास्तवः ॥ १४-२२ ॥

जिज्ञासूनामसन्दिग्धो रूपितो धर्मनिर्णयः ।
पतिसेवापरं शास्त्रं मामेव पतिरूपिणम् ॥ १४-२३ ॥

निरूपयत्यलब्धत्वाद् भावनामात्रमन्यतः ।
भवतीनां पतिस्तस्मादहमेव सनातनः ॥ १४-२४ ॥

इत्युक्त्त्वा मध्यगस्तासां रेमे रामाभिरन्वितः ।
पृथगालिङ्ग्य ताः सर्वा बिम्बाधरसुधां पपौ ॥ १४-२५ ॥

हासयन् प्रहसन् कृष्णो नानाक्रीडाकुतूहलैः ।
नीवीराकर्षयन्कासां कासामास्यं पिबन्नपि ॥ १४-२६ ॥

आलिङ्गतीर्विहायान्या अन्याम् आलिङ्गयन्नपि ।
पिबन्नधरपीयूषं कासाञ्चिद्दद्भिरादशत् ॥ १४-२७ ॥

सीत्कृतान्यसृजन् गोप्यः अर्द्धमीलितलोचनाः ।
एवं रसवशः कृष्णो रेमे तन्मण्डले प्रभुः ॥ १४-२८ ॥

अत्यातुरमिति ज्ञात्वा कृष्णं स्ववशमागतम् ।
मेनिरे गोपिकाः सर्वाः स भावोऽपि रासात्मकः ॥ १४-२९ ॥

रसः परिणतः सोऽय मानरूपेण निश्चितम् ।
एषा शृङ्गारमर्य्यादा रसशास्त्रनिरूपिता ॥ १४-३० ॥

कारण शृणु तत्रापि यन्न वाच्यं कथञ्चन ।
अक्षरस्य दिदृक्षाय या पूरणार्थमपेक्षिता ॥ १४-३१ ॥

अन्तर्द्धानं च तत्रापि मानो हेतुतयोद्गतः ।
अथ मानवतीर्वीक्ष्य तासामेव हृदि प्रभुः ।
रसरूपो विलीनोभून्मानमुत्सादयन्निव ॥ १४-३२ ॥

अक्षरस्थ मनोवृत्तिरावेशरहिता पुनः ।
स्थानं प्राप्ता रासलीलावासनावासिता सती ॥ १४-३३ ॥

तया विहितविज्ञानो मण्डलस्थमतर्कयत् ।
एवं ददर्श भगवान् रासक्रीडामहोदयम् ॥ १४-३४ ॥

इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे चतुर्दशं पटलम् ॥ १४-१४ ॥