१३

अथ त्रयोदशं पटलम्

शिव उवाच

एकदा तु कुमार्यस्ता व्रतं चेरुः समाहिताः ।
कात्यायनीमर्चयन्त्यः कृष्णो भर्त्ता भवेदिति ॥ १३-१ ॥

मासान्ते फलदानाय गतः कृष्णः सरित्तटम् ।
तीरस्थितानि वासांसि हृत्वा नीपमथारुहत् ॥ १३-२ ॥

कुमार्यः कृष्णचरितं दृष्ट्वा प्रेमपरिलुप्ताः ।
लज्जितस्मेरवदनाः कृष्णमूचुः कदम्बकम् ॥ १३-३ ॥

कृष्ण वासांसि नो देहि खिन्नाः स्म सलिले वयम् ।
त्वं वृद्धसम्मतो भूत्वा नैतत्कर्त्तुं त्वमर्हसि ॥ १३-४ ॥

यदि जानाति वै कश्चित्तदायं दुर्नयो महान् ।
जानिष्यति यदा राजा कंसः क्रूरमतिर्मनाक् ॥ १३-५ ॥

तदा ह्यनर्थ एवायमस्माकं भवतोऽपि च ।

श्रीकृष्ण उवाच

इहागत्य प्रतीच्छध्वं स्वं स्वं वासः सुलोचना ॥ १३-६ ॥

अन्यथा न ददाम्येव कंसभीत्या बिभीषितः ।
निशम्य वचनं तस्य गोप्यो लज्जास्मितेक्षणाः ।
जलादुत्तीर्य वासांसि कृष्ण देहीति चाब्रुवन् ॥ १३-७ ॥

कृष्णः प्रीतमनास्ताभ्यो वासांसि पृथगाददौ ॥ १३-८ ॥

तत्तद्भागैश्च [कुमारीभ्यः स्वगततत्तदंशस्वरूपदानायैव वस्त्रहरणलीलां कृतवान् भगवानिति ज्ञेयम् ।] ताः सर्वाः स्वान्तःस्थैः सन्नियुज्य च ।
चक्रे पूर्णतराः कृष्णो रसयोग्या रसप्रियः ॥ १३-९ ॥

ततः प्रसन्नो भगवान् कुमारीभ्यो वरं ददौ ।

श्रीकृष्ण उवाच

रात्रयो ह्याधिदैविक्यो मयि तिष्ठन्ति ताः प्रियाः ॥ १३-१० ॥

पश्यध्वं रमयिष्यामि तासु वः पद्मलोचनाः ।
प्रतियात गृहं तस्मात्कामः कालेन सेत्स्यति ॥ १३-११ ॥

ततो लब्धवराः सर्वा गोप्यः पूर्णमनोरथाः ।
गृहं जग्मुः प्रगायन्त्यः कृष्णलीलां मुदान्विताः ॥ १३-१२ ॥

जनयन् मन्युमिन्द्रस्य कृत्वा गोर्वधनोत्सवम् ।
इन्द्रोत्सृष्टजलैरन्नैः सङ्कर्षणमहीश्वरम् ॥ १३-१३ ॥

वर्षद्वादशकं योऽसौ त्यक्ताम्बुफलमूलकः ।
तर्पयामास तं कृष्णः पुरूहूतमदं नुदन् ॥ १३-१४ ॥

एकदा कृष्ण एवैको गतो वृन्दावनं शुभम् ।
रमणाय मतिं चक्रे सखीभिः सह केवलम् ॥ १३-१५ ॥

दृष्ट्वा वृन्दावनं रम्यं नमत्कुसुमपादपम् ।
कूजत्पक्षिमरालालिप्रतिध्वनिमनोहरम् ॥ १३-१६ ॥

प्रफुल्लमल्लिकाम्भोजं मन्दमारुतकम्पितम् ।
योगमायामथो कृष्णः कालमायाविनाशिनीम् ॥ १३-१७ ॥

जाग्रदन्ते सुषुप्त्यादौ स्फुरणायोपलभ्यते ।
तादृशीमकरोद् देवि लीलार्थं पुरुषोत्तमः ॥ १३-१८ ॥

प्रकाशा चाप्रकाशा च द्विधा सेयं व्यवस्थिता ।
दर्शनांशे प्रकाशा च दृषट्टत्वाच्छादने तथा ॥ १३-१९ ॥

बहिः प्रकाशं विच्छिद्य अन्तराकाशते यथा ।
योगमायेति विख्याता जाग्रत्स्वप्नमायीशितुः ॥ १३-२० ॥

कालमाया हृता तूर्णं तया तच्चित्स्वरूपया ।
तत्कार्यमात्रमखिलं लीन स्थावरजङ्गमम् ॥ १३-२१ ॥

योगमायोद्भवं स्वप्नमक्षरः सन्ददर्श ह ।
अन्यूनाधिकमीशानि भूतेन्द्रियगुणात्मकम् ॥ १३-२२ ॥

दिव्यमाणिक्यमुकुटं स्फुरन्मकरकुण्डलम् ।
दिव्यमुक्तामणिभ्राजन्नानाभूषणभूषितम् ॥ १३-२३ ॥

कृष्णरूपमभूत्तत्र योगमायोपबृंहितम् ।
अलौकिकलतादिव्यकुसुमामोदवायुना ॥ १३-२४ ॥

सेवितं सर्वतः श्रीमद् वृन्दावनमहाद्भुतम् ।
खगा मृगा लता वृक्षा वायवश्चन्द्रतारकाः ॥
ऋटुः पुष्पाणि रात्रिश्च सर्वमासीन्नवं प्रिये ॥ १३-२५ ॥

प्रससारोत्सृजन्ती सा ग्रसन्ती विश्वमोजसा ।
उत्सारयन्ती तिमिरं यथा दीपशिखाम्बरे ॥ १३-२६ ॥

योगमायाप्रपञ्चोऽपि सदेवासुरमानवः ।
तासु सङ्कल्पमकरोन्मनसा पुरुषोत्तमः ॥ १३-२७ ॥

अबोधयत्पूर्वकामं कामरूपतया हृदि ।
यावदङ्कुरितो भूयात् हृदि कामस्तु सुभ्रुवाम् ॥ १३-२८ ॥

तावत्तद्वर्धनार्थाय वेणुनादमथाकरोत् ।
योगमायोद्भवाकाशे वेणुनादः प्रतिष्ठितः ।
तं नादमेव गोप्यस्ताः शुश्रुवुः प्रथमं प्रिये ॥ १३-२९ ॥

अधरामृतसंसिक्तवेणुनादः सहानिलः ।
प्रविश्य कर्णरन्ध्रेण हृच्छयं समतेजयत् ॥ १३-३० ॥

ततस्ताः सहसा हित्वा शयनासनभोजनम् ।
सात्विकी राजसी चैव तामसी चेति विश्रुताः ॥ १३-३१ ॥

श्रुतिरूपा कुमार्यश्च आजग्मुर्नादमोहिताः ।
निषिद्धा अपि यत्नेन बन्धुवर्गैरनेकधा ॥ १३-३२ ॥

न निवृत्ता यथा वेगः सरितामर्णवं प्रति ॥ १३-३३ ॥

बलात् रुद्धा अपि जहुः प्राणान् विरहकर्षिताः ।
काश्चिद्गोप्यः क्षणादेव दिव्यदेहाः समाययुः ॥ १३-३४ ॥

पुरः प्रकाशः पश्चात्तु शून्यमासीत् व्रजस्त्रियः ।
प्रविष्टा मण्डलं सर्वा योगमायिकमुत्तमम् ॥ १३-३५ ॥

कुमार्यो द्वादश प्रोक्ताः सहस्राणि तथा पराः ।
तावन्त्यः किल विज्ञेयाः श्रुत्वा वेणुरव निशि ॥ १३-३६ ॥

चत्त्वारिंशत्तु यूथानि तासां प्रोक्तानि योषिताम् ।
तासां द्वादशसाहस्री सङ्ख्या संयोगभावतः ॥ १३-३७ ॥

प्रियसङ्गार्हमेतासां माया वेषमरीरचत् ।
भूषामालाम्बराण्यासन् लोकसिद्धेतराणि च ॥ १३-३८ ॥

समानवेषाभरणाः सर्वाः सवयसः प्रिये ।
समचित्ताः समरसाः कृष्णस्य निकटं ययुः ॥ १३-३९ ॥

वेदस्थित्यर्थमेवासौ क्रीडन्नपि समाहितः ।
मर्यादामुक्तवान् वाचा वागासीत्कारणोदया ॥ १३-४० ॥

न निषिद्धाः स्वरूपेण स्वरूपं वागगोचरम् ।
रसभोक्तृरसात्मत्वं विरुद्धेदान्यथा प्रिये ॥ १३-४१ ॥

श्रीकृष्ण उवाच

किमर्थमागताः सर्वाः मिलिताश्च परस्परम् ।
रात्र्यामघटमानं तु वनेष्वागमनं स्त्रियः ॥ १३-४२ ॥

स्त्रीधर्मं सहसा हित्वा भर्तृसेवामयं शुभम् ।
ऐहिकं पारलौकिक्यं स्त्रियो नाशयति ध्रुवम् ॥ १३-४३ ॥

येन सन्तुष्यते भर्त्ता स धर्म उचितः स्त्रियः ।
तं विहाय ध्रुवं नारी पतत्येव न संशयः ॥ १३-४४ ॥

तस्माद्व्रजं स्त्रियो यात मदुक्त्या यन्त्रिताशयाः ।
गोप्यस्तद्वाक्यमाकर्ण्य तीक्ष्णं हालाहलोपमम् ॥ १३-४५ ॥

किं वज्रनिर्घातहता इव पेतुः क्षितेस्तले ॥ १३-४६ ॥

इति श्रीपञ्चरात्रे माहेश्वरतन्त्रे उत्तरखण्डे गुप्तसारे शिवोमासंवादे त्रयोदशं पटलम् ॥ १३-१३ ॥