अथ द्वादशं पटलम्
शिव उवाच
कृष्णस्तामागतां दृष्ट्वा हर्षाकुलितचेतसाम् ।
कार्यसिद्धिमिमां ज्ञात्वा हर्षान्दुल्लसितेक्षणः ॥ १२-१ ॥
पप्रच्छ तां सखीं प्रेम्णा किमुक्तं राधया सखि ।
तदिदानीं ममाचक्ष्व श्रुत्वा सन्तोषमाप्नुयाम् ॥ १२-२ ॥
त्वयि गतायां यावन्तः कालस्यावयवा ययुः ।
तावन्त्येव युगान्यासन् विरहाकुलितस्य मे ॥ १२-३ ॥
सख्युवाच
त्वत्सङ्गविरहात्कृष्ण राधापि क्लिश्यतेतराम् ।
न निवृत्तिमवाप्नोति विना ते दर्शनं क्वचित् ॥ १२-४ ॥
कृष्ण कृष्णेत्यमु मन्त्रं विरहाकुलया तया ।
जप्यतेऽहर्निश मन्यमानया निकटे मृतिम् ॥ १२-५ ॥
विरहानलनिर्दग्धा शोभते न वपुर्लता ।
हिमक्लिष्टेव हेमन्ते मृदुला पद्मिनी यथा ॥ १२-६ ॥
दिवारात्रौ तु रहसि कृत्वा चित्रमयीं प्रभो ।
मूर्त्तिं निधाय हृदये शेते विरहकर्षिता ॥ १२-७ ॥
शुष्कौ बिम्बाधरौ तस्यास्तन्द्रा लोचनयोः स्थिता ।
अन्यथा भाषणं वक्त्रात् किमन्यत्कथयामि ते ॥ १२-८ ॥
नानुसन्धानमाधत्ते मनोवृत्तिर्मनागपि ।
अन्यथासिद्ध एवासौ कामस्ते नन्दनन्दन ॥ १२-९ ॥
तस्मात्तन्निकटं याहि सङ्केते कृतनिश्चयः ।
इति सख्योदितं श्रुत्वा उल्ललास हृदि प्रभुः ॥ १२-१० ॥
श्रीकृष्ण उवाच
अहं तत्रागमिष्यामि सङ्केते कृतनिश्चयात् ।
तत्र तामानय क्षिप्रं वेषगुप्तिं विधाय च ॥ १२-११ ॥
कस्यापि न भयं भीरु त्वया कर्त्तव्यमण्वपि ।
वञ्चयिष्ये जनान् सर्वान् इन्द्रजालकलादिभिः ॥ १२-१२ ॥
राधिकायै प्रणाम मे तत्र गत्वा निवेदय ।
त्वं मे प्रियासि नितरां प्राणादप्यधिका मम ॥ १२-१३ ॥
नावयोरन्तरं किञ्चित् प्राणरूपात्मनामपि ।
त्वन्नामस्मरणाच्चाह यथा तुष्यामि सुन्दरि ।
मत्सेवया मम ध्यानात्तथा तुष्टिर्न मे क्वचित् ॥ १२-१४ ॥
इत्यादि मम वाक्यानि राधिकायै निवेदय ।
पुनर्याता सखी राधामुवाच सकलं हि तत् ॥ १२-१५ ॥
सुधामाधुर्यधिक्कारक्षम कृष्णवचोमृतम् ।
पीत्वोल्ललास हृदय ग्रीष्मतप्तेव भूर्यथा ॥ १२-१६ ॥
अथ सङ्केतसदने शय्या पुष्पमयोचिता ।
नानागन्धमहामोदपुष्पराजिविराजिते ॥ १२-१७ ॥
निर्दग्धागरुसद्धूमधूपिते च समन्ततः ।
पानयोग्यरसेर्दिव्यैस्ताम्बूलैरङ्गलेपनैः ॥ १२-१८ ॥
सत्कृते सदने रम्ये राधा सख्यावृता ययौ ।
तत्रासनगता राधा काङ्क्षन्ती प्रियसङ्गमम् ॥ १२-१९ ॥
अचञ्चलतडित्कोटिप्रभापिञ्जरिताम्बरा ।
समावृत्तसुवृत्तोरुजघनस्तनमण्डला ॥ १२-२० ॥
कटाक्षसरणीनिर्यद्रसमोहितमन्मथा ।
शुकाकारसमाकारनासाभरणभासुरा ॥ १२-२१ ॥
दाडिमीबीजसन्देहकारिदशनहीरका ।
वीणारवघृणादायिनिजवाणीगुणोदया ।
कर्पूरबीटिकामोदसुगन्धितदिगन्तरा ॥ १२-२२ ॥
मणिदर्पणदर्पघ्नकपोलफलकप्रभा ।
मणिमङ्गलसूत्रेण विलसत्कम्बुकन्धरा ॥ १२-२३ ॥
रत्नाङ्गुलीयनिवहोल्लसदङ्गुलिपल्लवा ।
कुचभारलसन्मध्यत्रिवलीललितोदरा ॥ १२-२४ ॥
चन्दनागरुकस्तूरीकर्पूरादिसुगन्धिनी ।
निःश्वासहारिकुर्पासनिबद्धस्तनमण्डला ॥ १२-२५ ॥
कुचोपरिलसन् मुक्ताहारतारसुशोभिता ।
क्वणन्माणिक्यमञ्जीरप्रभाभिर्बद्धमण्डला ॥ १२-२६ ॥
रेजे राधासनगता कथञ्चक्रे प्रियश्रया ।
कथं नाद्यावधि प्रेयान् नागतः सखि तर्कय ॥ १२-२७ ॥
रुद्धः कयाचित्प्रियया किं वा त्वं तेन वञ्चिता ।
तद्वचः किमतथ्यं वा तथ्यं वा ज्ञायते कथम् ॥ १२-२८ ॥
नागमिष्यति चेत्कान्तः प्राणांस्त्यक्ष्याम्यसंशयम् ।
वयस्यामेतदाश्राव्य कृत्वा करतले मुखम् ॥ १२-२९ ॥
विरहाग्निशिखात्युष्णं निशश्वास प्रियंवदा ।
ताम्बूलगन्धपुष्पादिरतिसाधनमाहितम् ।
निनिन्द मनसा सर्वं वियोगज्वरविप्लुता ॥ १२-३० ॥
तद्वक्रं हसितेन्दुमण्डलमतिस्फारं तदालोकितं
सा वाणीजितकामकार्मुकरवा सौन्दर्यमेतस्य तत् ।
इत्थं सन्ततमालि वल्लभतमध्यानप्रसक्तात्मन-
श्चेतश्चुम्बितकालकूटमिव मे कस्मादिदं मुह्यति ॥ १२-३१ ॥
तदैव कृष्णः सङ्केतं प्राप्तः प्राण इव स्वयम् ।
स्वासनात्तुर्णमुत्तस्थौ राधा कमललोचना ॥ १२-३२ ॥
समानासनसमासीनौ परस्पररतिप्रियौ ।
भावपूरितदृक्प्रान्तनिक्षेपान्योऽन्यमोहितौ ॥ १२-३३ ॥
श्रीकृष्ण उवाच
प्रिये त्वद्विरहज्वालावलीढवपुरुषो हि मे ।
न शान्तये सुधाम्भोधिकोटिपीयूषसेचनम् ॥ १२-३४ ॥
त्वदीयविरहे राधे प्रियमप्यास विप्रियम् ।
अमृतांशोरपिकराश्चण्डांशोरिव दारुणाः ॥ १२-३५ ॥
ग्लपयन्ति वपुर्वल्लीं विरहे तव सुन्दरि ।
शय्या पीयूषचित्ता वह्न्यङ्गारचितेव सा ॥ १२-३६ ॥
मलयालेपनं देहे व्यथते विस्फुलिङ्गवत् ।
कोटिकल्पायते रात्रिः पुष्पं सूचीफलायते ।
दावाग्निज्वालेव मरुत् शीतलो व्यथयेत्तनुम् ॥ १२-३७ ॥
ध्यायामि त्वां दिवारात्रौ त्वत्प्राणस्त्वन्मनाः प्रिये ।
राधिके राधिके चेति महामन्त्रजपेन च ॥ १२-३८ ॥
विरहाहिविषं प्राणहारि प्रशमयाम्यहम् ।
अद्य लब्धासि भो कान्ते निधानमिव निर्धनैः ॥ १२-३९ ॥
विवेकविद्याविनयप्रसाद-
महेन्धने चाशुविदीप्यमाने ।
वियोगवातद्विगुणीकृतेन्तः
स्मरानले गोपि जुहोमि देहम् ॥ १२-४० ॥
इतः क्षणं वा च ततः क्षणं वा
गृहे क्षणं वा शयने क्षणं वा ।
बहिस्तथान्तः क्षणमात्मनस्वद्-
ग्रहगृहीतस्य निवृत्तिरस्ता ॥ १२-४१ ॥
कियन्त्य एवात्र न सन्ति राधे
सुलोचना मां तु न हर्षयन्ति ।
पयोदबिन्दुप्रतिरुद्धबुद्धे-
र्विहङ्गमस्येव जलोपकण्ठम् ॥ १२-४२ ॥
दिशां मुखेषु प्रमदे त्वदीयां
भ्रमोपनीतामपि वीक्ष्य मूर्त्तिम् ।
गतावधिव्याप्तिमुपैति चित्ते
हर्षस्य वैयर्थ्यमुदीक्ष्य शोकम् ॥ १२-४३ ॥
समुद्ररुद्रौ प्रथितौ जगत्या-
मौर्बेण हालाहलधारणेन ।
अहं तु कल्पान्तहुताशकल्प-
वियोगदग्धोऽपि न चित्रमेतत् ॥ १२-४४ ॥
अपि प्रिये त्वद्विरहानलोत्थ-
ज्वालाहुतीभूतशरीरयष्टेः ।
त्वमेव [अत्र प्रतिपादिताक्षरातीताख्यस्य कृष्णस्यानबतारित्वेऽपि स्वप्रेममहिमप्रदर्शनायैवेत्थमुक्तं श्रीराधिका प्रतीतीति विवेकः ।] मे जन्मनि जन्मनि स्याः
प्रिया सखी चेति विधिर्व्यधत्ताम् ॥ १२-४५ ॥
अपि प्रिये केतककुङ्मलौघाः
स्फुटन्ति मे हृदयेन साकम् ।
विलोचनाभ्यां तु समं पयोदाः
किरन्ति वारिप्रकरानमन्दान् ॥ १२-४६ ॥
वियोगदावानल एष एव
क्षणात् क्षिणोत्येव तनुं मदीयाम् ।
यदा सुधारस्मिसहोदरास्य-
मसङ्कुचध्यानपथादपैति ॥ १२-४७ ॥
धुन्वन् पयोदावलिविस्फुरन्तस्-
तडित्प्रकाशाः शिखिनर्त्तनानि ।
सुकेतकामोदमुचश्च वाताः
सहस्रधा मे हृदयं दलन्ति ॥ १२-४८ ॥
स्मराशुगीभूतविलोचने द्वे
भ्रूभ्यां धनुर्भावमुपागताभ्याम् ।
स्फुटं वहन्ती जनमोहविद्या
विद्या किमेषा मम मोक्षकर्त्रीम् ॥ १२-४९ ॥
स्मितोदयादर्शितदन्तपङ्क्ति-
प्रभावलीढाननपङ्कजेन ।
परिस्फुरल्लोचनषट्पदेन
विमोहयन्ती हृदयं मदीयम् ॥ १२-५० ॥
ध्येयं ममैतत्तवपादपङ्कजं
गेयं ममैतत्तव रूपसौभगम् ।
त्वत्तो न किञ्चित्प्रतिभाति तत्त्वं
त्वया विनान्ध्यं जगतो विभाति ॥ १२-५१ ॥
इत्यं प्रियामनुनयन् वचोभिः प्रेमगर्भितैः ।
रेमे कृष्णः कुचतटीपरिरम्भादिभिस्तथा ॥ १२-५२ ॥
इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे द्वादशं पटलम् ॥ १२-१२ ॥