११

अथ एकादशं पटलम्

श्री शिव उवाच

हृत्वाथ पूतनाप्राणान् सहबालान् कृपानिधिः ।
शकटं पातयामास पादपल्लवलीलया ॥ ११-१ ॥

तृणावर्त्तमथाकाशे हरन्तमहनद्धरिः ।
स्तनं पीत्वा यशोदायै जृम्भमाणस्तु केवलम् ॥ ११-२ ॥

मुखे प्रदर्शयामास भुवनानि चतुर्दश ।
बाललीलाविनोदेन मृदमश्नन् कृपानिधिः ।
अकल्पयद्देहयोगं कुमाराणामलौकिकम् ॥ ११-३ ॥

नाश्नाति मृदमानन्दो दधिदुग्धान्यपि स्वयम् ।
पुष्ट्यर्थं च कुमाराणामकरोत्सकलं प्रभुः ॥ ११-४ ॥

व्रजस्था गोपिकाः सर्वाः कृष्णलीलाहृताशयाः ।
विलोभयन्त्यः श्रीङ्कृष्णं दास्ये दुग्धं दधीन्यपि ॥ ११-५ ॥

मृदूनि नवनीतानीत्युक्त्वा निन्युर्गृहान् स्वकान् ।
ततोप्येकान्त आहूय दत्वा दधिमधूनि च ॥ ११-६ ॥

कृष्णमालिङ्गयामासुश्चुचुम्बुर्मुखपङ्कजम् ।
बालोभूत्वापि लोकस्य यशोदानन्दयोरपि ॥ ११-७ ॥

आलिङ्ग्यत्यालिङ्ग्यमानः प्रतिचुम्बति चुम्बितः ।
गोपिकाहृदयानन्दं वर्धयन् रतिचेष्टितैः ॥ ११-८ ॥

रतिज्ञमिव तं मत्वा गोपिका रतिचेष्टयाः ।
कुतूहलनिमग्नास्ता न वक्तुं शेकुरुत्सुकाः ॥ ११-९ ॥

अन्यापि गृहमानीय खाद्यपानैरतोषयत् ।
भूषयित्वाञ्जनाकल्पैरङ्गरागैः सुगन्धिभिः ॥ ११-१० ॥

शुभासने समारोप्य दत्वा ताम्बूलवीटिकाम् ।
इहैव बालकैरेतैः परिक्रीडस्व निर्भयः ॥ ११-११ ॥

मान्यत्र गच्छ ते माता ज्ञापिता ताडयिष्यति ।
इत्याहुर्गोपिकाः काश्चित्प्रेमबद्धा व्रजार्भके ॥ ११-१२ ॥

व्रजेश्वरसुतं नीत्वा गृहमूचुः पराः स्त्रियः ।
यदि नृत्यति सत्कृष्ण भवान् दास्ये मनोरथम् ॥ ११-१३ ॥

इत्युक्तो नृत्यति स्मासौ रभसा वै मुदान्वितः ।
हरन् कटाक्षमालाभिर्भावपूर्णाभिरावृतः ॥ ११-१४ ॥

वव्रे नृत्यविधानार्थं कामं देहि प्रतिश्रुतम् ।
कस्ते कामस्तयोक्तेसौ वव्रे कृष्णः स्ववाञ्छितम् ॥ ११-१५ ॥

त्वदीयहृदये भाति कन्दुकद्वयमुत्तमम् ।
देह्येतद्रमणार्थाय मित्रैः गोपसुतैः सह ॥ ११-१६ ॥

जहास गोपीकृष्णस्य वाक्यश्रवणहर्षिता ।
वृषभानोः सुता देवि राधिकानामविश्रुता ॥ ११-१७ ॥

स्वामिनी वासना जाता श्रीकृष्णप्रेमविह्वला ।
द्वादशैवसहस्राणि याः सख्यः परिकीर्त्तिताः ॥ ११-१८ ॥

तदङ्गभूतास्ताःसर्वाः वस्तुभेदो न किञ्चन ।
स्वामिन्यात्मा भवेत्कृष्णः कृष्णात्मा स्वामिनी हि सा ॥ ११-१९ ॥

न तयोर्विद्यते भेदश्चन्द्रचन्द्रिकयोरिव ।
रसात्मकं रसभोक्तृ परं ब्रह्म श्रुतीरितम् ॥ ११-२० ॥

रसः शृङ्गार एवोक्तो रसशास्त्रविशारदैः ।
संयोगो विप्रलम्भश्च शृङ्गारो द्विविधो मतः ॥ ११-२१ ॥

संयुक्तयोश्च [द्र० पृ० चतुर्विंशपटलम् ११-१२ ।] संयोगो विप्रलम्भो वियुक्तयोः ।
रसनित्यतया जातो वियोगस्तद्दलात्मकः ॥ ११-२२ ॥

रसस्वभाव एवाय यत्सयोगवियोगवान् ।
अन्यथा ह्यक्षरे कस्माद्दिदृक्षा जायते तथा ॥ ११-२३ ॥

कथं प्रियाणां च तथा रसस्तस्माद्धि ताद्दृशः ।
सच्चिदानन्दकं ब्रह्म यदुक्त श्रुतिमौलिभिः ॥ ११-२४ ॥

चिदानन्दौ तु कूटस्थे पुरुषोत्तमे एव च ।
उभावपि भवेद्ब्रह्म ब्रह्मभेदैर्विवर्जितम् ॥ ११-२५ ॥

सजातीयविजातीयस्वगतैश्च सुलोचने ।
ब्रह्मत्वे ह्यक्षरस्यापि आनन्दो द्विदलात्मकः ॥ ११-२६ ॥

सदंशबीजमूला च प्रकृतिर्ह्यक्षरात्मगा ।
न तस्माद्रसलीलायाः स्थितिः कुटस्थ ईश्वरे ।
प्रकृतेश्च परत्वाच्च निर्गुणत्त्वान्महेश्वरि ॥ ११-२७ ॥

उत्तमे पुरुषे पूर्णे ह्यानन्दात्मनि केवले ।
लीला रसमयी रम्याः प्रतिक्षणनवा स्थिता ॥ ११-२८ ॥

दिदृक्षितान्तःकरणवृत्तिः स्यादक्षरस्य या ।
पुरुषोत्तमावेशती जाता नन्दगृहे तु सा ॥ ११-२९ ॥

गुणलीलादिदृक्षायुक्वासनास्तत्प्रियासु याः ।
ता एव व्रजसुन्दर्यस्ताभिः सङ्क्रीडते रसः ॥ ११-३० ॥

स्वामिनीवासना राधा स्वयं वृन्दावनेश्वरी ।
लवमात्रकालावच्छिन्नो विरहोऽभूद्रसात्मकः ॥ ११-३१ ॥

नलिनीपत्रसंहत्याः सूक्ष्मसूच्याभिवेधने ।
दले दले च यः कालः स कालो लववाचकः ॥ ११-३२ ॥

अत्रापि संयोगवियोगभावैः क्रीडति वै हरिः ।
कृष्णो राधास्वरूपेण विरहाक्रान्तचेतनः ॥ ११-३३ ॥

कथं सा सङ्गता मे स्यादिति चिन्तापरोऽभवत् ।
तत्सखीकृतमैत्रस्तु तत्कथाः कुरुतेऽनिशम् ॥ ११-३४ ॥

नित्यं स्वरूपस्तवनैर्गतिहासनिरूपणैः ।
वस्त्रमद्यतनं हृद्य तव सङ्ख्याः परिष्कृतम् ॥ ११-३५ ॥

इत्यावेदितहार्दास्ताः सख्यः प्राहुश्च राधिकाम् ।
राधे नन्दसुतः सोऽयं सुन्दरः प्रतिभाति मे ॥ ११-३६ ॥

तव रूपानुरूपोऽयं चतुरो व्रजबल्लभः ।
नित्यं च त्वत्कथालापः त्वत्प्राणस्त्वन्मनाः सदा ।
त्वामेव ध्यायते चित्ते सङ्गमस्ते यथा भवेत् ॥ ११-३७ ॥

राधोवाच

कुत्र सङ्गतिरेतेन मम स्यात्सखि चिन्तय ।
अहमप्यस्य रूपेण सौन्दर्येण गुणेन च ।
मोहितास्मि क्षणं नैनं विस्मरामि कथञ्चन ॥ ११-३८ ॥

यशोदानन्दनं कृष्णं स्वप्ने पश्यामि सन्ततम् ।
क्रीडमानं मया सार्द्धं पिबन्तमधरासवम् ॥ ११-३९ ॥

यस्मिन् दृष्टे ममाङ्गेषु स्वेदरोमाञ्चकञ्चुकम् ।
वेपथुः स्वरभङ्गो वा जायते साम्प्रतं सखि ॥ ११-४० ॥

यत्सौन्दर्यरसाम्भोधौ निमग्नं सखि मे मनः ।
न निवृत्तिमवाप्नोति विना तद्दर्शनं क्वचित् ॥ ११-४१ ॥

कृष्णमूर्तिं प्रपश्यामि भ्रमान्निकटवर्तिनीम् ।
क्षणादन्तर्हितां दृष्ट्वा मदात्मा तप्यते भृशम् ॥ ११-४२ ॥

किं करोमि क्व गच्छामि कस्याग्रे कथयाम्यहम् ।
नय मां नन्दतनयं कृष्णं प्राणाधिकं मम ॥ ११-४३ ॥

विरहाग्निमहाज्वालावलीढा मे वपुर्लता ।
कृष्णाधरसुधापूरप्लाविता शान्तिमेष्यति ॥ ११-४४ ॥

तस्य मे सङ्गमोपायं विचारय निजे हृदि ।
गच्छ कृष्णागमे यत्नं कुरु सङ्केतसद्मनि ॥ ११-४५ ॥

इत्येवं राधया प्रोक्ता सखी प्राणपतिं ययौ ॥ ११-४६ ॥

इति श्रीपञ्चरात्रे माहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे एकादशं पटलम् ॥ ११-११ ॥