अथ दशमं पटलम्
शिव उवाच
अथ नन्दगृहे जातः प्रातरेव महोत्सवः ।
नन्दः स्नातः शुचिर्विप्रानाहूयागमपारगान् ।
ददौ महामना गावो वासांस्याभरणानि च ॥ १०-१ ॥
गोपा गोप्यो ययुर्हृष्टा नानाभूषाम्बरावृताः ।
नन्दं वर्धापयामासुराशीर्भिः सर्वतोमुखम् ॥ १०-२ ॥
यशोदां च महाभागां गत्वा गोप्योऽति हर्षिताः ।
उत्सुकानि मनाँस्यासां बभूवुः कृष्णदर्शने [ब्रह्मसृष्टिभ्यः तदानीं किशोरस्वरूपेण श्रीकृष्णो निजदर्शनं दत्तवान् ।] ॥ १०-३३ ॥
श्रीकृष्णदर्शनानन्दनिमग्ना निजमूर्त्तयः ।
बभूवुर्गोपिकाः सर्वाः निजलोकं गता इव ॥ १०-४ ॥
गृहे गृहे समभवन्महोत्सवपरम्पराः ।
याचका वन्दिनः सूता मागधाः समुपाययुः ॥ १०-५ ॥
तेभ्यो ददौ महार्हाणि भूषावासांसि गोपराट् ।
अथ कंससमादिष्टा पूतना बालघातिनी ॥ १०-६ ॥
निघ्नन्ती बालकान् जातान् चचार परितो व्रजम् ।
शिशवस्ते पराभूताः प्रविष्टाः पूतनान्तरम् ॥ १०-७ ॥
नन्दगृहे पुत्रजनिं श्रुत्वा तस्य जिघांसया ।
कृत्वा विमोहनं रूपं दिव्यालङ्कारचर्चितम् ॥ १०-८ ॥
दिव्यमालाम्बारधरं दिव्यगन्धमनोहरम् ।
मनोहरन्ती नन्दस्य प्रविवेश शनैर्गृहम् ॥ १०-९ ॥
अथ सा सूतिकागारमभ्येत्य क्रूरनिश्चया ।
मोहयित्वा वचोभिस्तां बहिःप्रेमनिरूपितैः ॥ १०-१० ॥
सुप्ताहिमिव जग्राह बालं कमललोचनम् ।
अङ्कमारोप्य बहुधा लालयन्ती शुचिस्मिता ॥ १०-११ ॥
ददौ हालाहलालिप्तं स्तनं तन्मुखपङ्कजे ।
तदन्तःस्थशिशृन् प्राणान् पूतनायाः पपौ हरिः ॥ १०-१२ ॥
सार्द्धयोजनविस्तारो देहस्तस्या महीतले ।
पपात पातध्वनिना कम्पयन् व्रजमण्डलम् ॥ १०-१३ ॥
स्तन्यं हालाहलमयं हरये परमात्मने ।
दत्वापि सद्गतिं प्राप्ता किं पुनः साधुकारिणः ॥ १०-१४ ॥
पार्वत्युवाच
व्रज्रस्थाः शिशवो ये च तया व्यापादिता इति ।
पूतनायां स्थितान् सर्वान् तत्प्राणैरपिबद्धरिः ॥ १०-१५ ॥
इति यद्भवता प्रोक्तं के तेऽत्र शिशवः प्रभो ।
शिव उवाच
एकदा ब्रह्मणः सत्रे देवगन्धर्वपन्नगाः ॥ १०-१६ ॥
सिद्धा विद्याधराः सर्वे समाजग्मु महर्षयः ।
आदित्या वसवो रुद्रा मरुतः पितरस्तथा ॥ १०-१७ ॥
अग्नयो वायवश्चान्ये तेषामासीन्महासदः ।
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥ १०-१८ ॥
अप्सरोदर्शनक्षुब्धस्मरग्रस्तोन्यथा मतिः ।
न शशाक मनो यन्तुं यतन्नपि पितामहः ॥ १०-१९ ॥
चस्कन्द रेतस्तस्याशु तपो विद्यामयं महत् ।
अज्ञात्वा तस्य संस्थानं कुण्डाग्नावजुहोत्प्रभुः ॥ १०-२० ॥
अग्निमध्यात्समुद्भूताः कुमारा वह्नितेजसः ।
बद्धाञ्जलिपुटाः सर्वे प्रणेमुस्ते पितामहम् ॥ १०-२१ ॥
ब्रह्मन् पितासि नः कामं वयं ते तनयाः प्रभो ।
उत्पादिताश्च भवता किङ्कुर्मस्तदुदीर्यताम् ॥ १०-२२ ॥
ब्रह्मोवाच
अग्नौ क्षिप्तं मया रेतस्तपोविद्यामयं शुभम् ।
तत्र जाता भवन्तो हि तस्मादग्निकुमारकाः ॥ १०-२३ ॥
दण्डकारण्यमासाद्य तपश्चरत पुत्रकाः ।
इत्युक्ता ब्रह्मणा सर्वे दण्डकारण्यमाश्रिताः ॥ १०-२४ ॥
तपः कुर्वन्तो यत्नेन ब्रह्मणोद्देशयन्त्रिताः ।
ततः कतिपये काले रामो दाशरथिः स्वयम् ॥ १०-२५ ॥
रावणं समरे हत्वा राज्यं कृत्वा बिभीषणे ।
विमानं वरमारूढो दण्डकारण्यमाश्रितः ॥ १०-२६ ॥
तत्रागस्त्याश्रमं रामो गत्वा चक्रेभिवादनम् ।
मुनिः सम्भावयामास कन्दैर्मूलफलादिभिः ॥ १०-२७ ॥
रामस्य दर्शनं चक्रुर्मुनयोपि धृतव्रताः ।
उवास रामः कतिचिद्दिनानि मुनिसत्कृतः ॥ १०-२८ ॥
एकदा जनकी दृष्टुं मुनीनामाश्रमान् शुभान् ।
जगाम मुनिपत्नीनां सौहार्देनापि सुन्दरि ॥ १०-२९ ॥
चक्रे रामकथाः पुण्याः रावणस्य वधं प्रति ।
सत्कृता मुनिपत्नीभिः मुनिभिः साधुभिस्तथा ॥ १०-३० ॥
निवृत्ता जानकी तत्र जगामाग्निकुमारकान् ।
द्रष्टुं तपस्यतः पूर्णान् मुनिकन्यासमावृता ॥ १०-३१ ॥
जानकी तान्नमस्कृत्य कुमाराननलप्रभान् ।
निषसाद क्षणं तत्र वनशोभाहितेक्षणा ॥ १०-३२ ॥
ते विचित्रेण दैवेन प्रेर्यमाणाः कुमारकाः ।
अमर्षजननं वाक्यमब्रुवन्कृतहेलनाः ॥ १०-३३ ॥
अहो सीते प्रभुः साक्षादीश्वरो जगतां पतिः ।
वेदरक्षाविधानार्थमवतीर्णो महीतले ॥ १०-३४ ॥
न यस्य स्वपरो वापि न द्वेष्यः प्रिय एव च ।
सत्यसन्धः क्षमी शूरो रामः कमललोचनः ॥ १०-३५ ॥
जटीवल्कलसंवीतो मोहमग्नो वने वने ।
भ्रान्तश्चचार निर्विण्णः पृच्छमानो वनस्पतीन् ॥ १०-३६ ॥
इयं कान्तेति वै मत्वा मोहविभ्रंशिताशयः ।
क्वचित्पल्लविनीं हृद्यां लतामालिङ्ग्य निर्वृतः ॥ १०-३७ ॥
निवारितो लक्ष्मणेन नेयं कान्तेति जल्पता ।
दधाराम्भोनिधौ सेतुं सख्यं कृत्वा च वानरैः ॥ १०-३८ ॥
त्वन्निमित्तमिदं सीते प्रभोरपि विडम्बनम् ।
तस्मात्स्त्रियः पापरूपा दोषैकनिलयाः सदा ॥ १०-३९ ॥
न धार्या सुखमिच्छद्भिः कदाचित् क्वापि पण्डितैः ।
इत्येवं वचनं तेषां श्रुत्वा दाशरथेः प्रिया ॥ १०-४० ॥
चक्रोध रक्तनयना शापं दातुं मनोदधे ।
सीतोवाच
मन्निन्दायाः फलं शीघ्रमवाप्स्यथ कुमारकाः ॥ १०-४१ ॥
द्विधाविदीर्णदेहाश्च यूयं पण्डितमानिनः ।
पतन्तु भूतले सर्वे सर्वे स्वात्मकृतं भुजः ॥ १०-४२ ॥
इत्युक्ते सीतया तूर्णं द्विधाभूतकलेवराः ।
शिशवः पेतुरुर्व्यान्ते मुनिपत्न्यो विसिस्मिरे ॥ १०-४३ ॥
हाहाकारो महानासीन्मुनीनां तत्र शृण्वताम् ।
एवं शप्त्वा कुमारांस्तान् ययौ सीतानिकेतनम् ॥ १०-४४ ॥
रामः श्रुत्वाथ तां वार्त्तामप्रियां दुर्मना भृशम् ।
निनिन्द सीतां मनसा किमेतद्दुर्विनीतया ॥ १०-४५ ॥
अर्विचारितमेवेह कृतं नष्टविमर्षया ।
अहो मूढधियो दुष्टाः स्त्रियो दारुणचेतसः ॥ १०-४६ ॥
श्रेयसां परिपन्थिन्यो मायेयं दैवनिर्मिता ।
ससारान्मुक्तिकामानां याः स्वयं निगडोपमाः ॥ १०-४७ ॥
महामोहस्य मञ्जूषा स्वार्थायानर्थतत्पराः ।
क्रोधलोभानृतधियो न विश्वस्ताः कदाचन ॥ १०-४८ ॥
न च ता विश्वसेत्क्वापि विश्वस्तान् घ्नन्त्यसंशयम् ।
अल्पार्थे बह्वनर्थेषु प्रवर्त्तन्ते दुराशयाः ॥ १०-४९ ॥
न विद्वान् स्त्रीवशं गच्छेद् वशं प्राप्तो विनश्यति ।
इत्याकलय्य हृदये जानकीं प्राह स प्रभुः ॥ १०-५० ॥
राम उवाच
किमेतत्साधुचरिते विनिन्दितमचीकरः ।
नास्माकमुचितं कर्म यत्कुमारविहिंसनम् ॥ १०-५१ ॥
तपोविद्याधृतधियो विनयाचारशालिनः ।
न चैते शापमर्हन्ति यदि घ्नन्त्यपि सुन्दरि ॥ १०-५२ ॥
यथार्थवादिनां पुंसां श्रुत्वा वाचो यथार्थकाः ।
कुप्यन्ति ये मूढधियो न तेषां निष्कृतिः क्वचित् ॥ १०-५३ ॥
सीते यथार्थमुक्त तैर्मामुद्दिश्य दयालुभिः ।
तेष्वमर्षः कथं जात ईदृशोनर्थदर्शनः ॥ १०-५४ ॥
यदि स्वल्पोपराधोऽपि तस्मिन् दण्डो महान् घृतः ।
न चैतदुचितं चण्डि क्षत्रियाणां दयावताम् ॥ १०-५५ ॥
वनचराणामस्माकं मुन्याश्रमवासिनाम् ।
साध्वीत्थमुक्ता रामेण लज्जया नम्रकन्धरा ॥ १०-५६ ॥
बद्धहस्ताञ्जलिः प्राह भर्तृवाक्यविबोधिता ।
सीतोवाच
अपराधो महान् देव कृतो मे नात्र संशयः ॥ १०-५७ ॥
अदण्डेष्वप्यपापेषु यन्मया ह्युद्यमः [यन्मन्योरुर्दमः कृतः इति मूल पाठः ।] कृतः ।
अपि मे दुर्नयं देव क्षमस्व त्वं दयानिधे ॥ १०-५८ ॥
तेष्वनुग्रहमाधस्त्व साधुष्वपि तपस्विषु ।
राम उवाच
न करिष्याम्यहं भद्रे कुमाराणामनुग्रहम् ॥ १०-५९ ॥
मया त्वनुग्रहीतानां मुक्तिः स्याज्जलवज्जले ।
वेदवेदान्तसङ्गीतः परमात्मा परः प्रभुः ।
करोत्वनुग्रहं तेषामनुभूतिर्यथा भवेत् ॥ १०-६० ॥
तस्मादिमे लिङ्गदेहमात्रशेषाः सुलोचने ।
मयि स्थास्यन्ति सततं कालाविर्भावहेतवे ॥ १०-६१ ॥
रामे च भगवत्येते विलीनास्ते ततः परम् ।
वसुदेवगृहे साक्षादवतीर्णे हरौ स्वयम् ॥ १०-६२ ॥
तेवतीर्णा व्रजभुवि तद्देहस्थाः कुमारकाः ।
पूतनायां स्थिताः सर्वे तया व्यापादिता इति ॥ १०-६३ ॥
तत्प्राणैरपिबद् बालान् दक्षिणाङ्गव्यवस्थितान् ।
वामाङ्गभूताः सकलाः गौडदेशेऽभवन् स्त्रियः ॥ १०-६४ ॥
कुमारीरानयामास परचक्रं जिघांसता ।
निरुद्धा राजधर्मेण नन्दस्तद्देशमागतः ॥ १०-६५ ॥
इति ते कथितं देवि यत्पृष्टोऽहं सुलोचने ।
समासेन महेशानि किं भूयः श्रोतुमिच्छसि ॥ १०-६६ ॥
इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे दशमं पटलम् ॥ १०-१० ॥