अथ नवमं पटलम्
श्री शिव उवाच
अथ श्रुत्वा सखीवाक्यं दर्शनावश्यकं प्रिये ।
तूष्णीं स्थितोऽपि मनसा मेने सर्वं भवत्विति ॥ ९-१ ॥
स्वामिनीसहिताः सर्वाः सख्यस्तन्मुखपङ्कजम् ।
वीक्ष्यमाणा इवातस्थुः प्रभुश्चापि तथा स्थितः ॥ ९-२ ॥
वासनांशैर्गताः सर्वा मथुरामण्डलस्थिते ।
गोकुले गोपिका जाता गोपगेहेषु ताः पृथक् ॥ ९-३ ॥
वृषभानुगृहे जाता राधिकेति च विश्रुता ।
स्वामिनीवासनालेशः केनाप्यंशेन सुन्दरि ॥ ९-४ ॥
तत्सख्यश्चापि सञ्जातास्तासां नामानि कानिचित् ।
कथयिष्यामि देवेशि शृणुष्वैकाग्रमानसा ॥ ९-५ ॥
सुन्दरी स्वर्णवर्णा च रम्याङ्गी स्वर्णमालिनौ ।
ललिता चित्रवर्णा च विशाखा विजया जया ॥ ९-६ ॥
सुकुण्डला कुण्डलिनी मालिनी स्वर्णम्मञ्जरी ।
मञ्जुघोषा विचित्रा च देवसेना वरूथिनी ॥ ९-७ ॥
गौरी चित्राम्बरा तन्वी चन्द्रलेखा मनोजवा ।
अजिता जयिनी श्यामा बलाकी विमलप्रभा ॥ ९-८ ॥
तारा कुरङ्गनयना कमला वनमालिका ।
नित्या विलासिनी ताम्रा अनङ्गानङ्गमालिनी ॥ ९-९ ॥
अनङ्गमेखला माध्वी मोहिनी मदनावती ।
पुष्पावती हेमलता हेममाला मनोजवा ॥ ९-१० ॥
कर्पूरगन्धा काश्मीरी पद्मगन्धा विहारिणी ।
हंसिनी चित्रिणी चित्रा सुनन्दा बिन्दुमालिनी ॥ ९-११ ॥
मनोजापाङ्गलालित्या वैताली विमलप्रभा ।
पद्मरागा विचित्राङ्गी नित्यानन्दा निरङ्कुशा ॥ ९-१२ ॥
इत्येवं कोटिशः ख्याताः सख्यः कुवलयेक्षणाः ।
न सङ्ख्यया परिच्छेद्या नित्यवृन्दावनाश्रयाः ॥ ९-१३ ॥
तासां द्वादशसाहस्री सङ्ख्या प्रोक्ता तथापि या ।
अन्तःपुरगतानां च रहोमिलितचेतसाम् ॥ ९-१४ ॥
जाग्रत्स्वप्नं गताः सर्वाः स्वात्मानं ददृशुस्तदा ।
नन्दव्रजमिवोपेतमनुल्लङ्घितकेतनाः ॥ ९-१५ ॥
यथा समीरवेगेन नीयते पद्मसौरभः ।
न पद्मस्याधिकं किञ्चिन्न्यूनं वा भवति प्रिये ॥ ९-१६ ॥
तथा मोहेन ता नीता अपि स्वप्नं परात्मनः ।
अनुभूतवन्त्यस्तास्तत्र स्वप्नमायामनोरथम् ॥ ९-१७ ॥
परात्मा भगवांश्चापि लीलामेतां ददर्श सः ।
पार्वत्युवाच
नन्दगोपव्रजं प्राप्ताः सख्यो या भवतोदिताः ।
कूटस्थलीलानुभवप्रकारं वद शङ्कर ॥ ९-१८ ॥
परात्मा भगवांश्चापि कथं लीलां ददर्श सः ।
कीदृशी सा भवेल्लीला सगुणानिर्गुणापि वा ॥ ९-१९ ॥
अनित्या वाथ नित्या वा यथार्थं ब्रूहि शङ्कर ।
शिव उवाच
शृणु पार्वति वक्ष्यामि तव प्रश्नान् सुगोपितान् ॥ ९-२० ॥
न नास्तिकेभ्यो धूर्तेभ्यो हैतुकेभ्यः सुरेश्वरि ।
न वेदनिन्दकेभ्यश्च नाविश्वासाय कर्हिचित् ॥ ९-२१ ॥
वेदशास्त्रपुराणादिश्रद्धापूतान्तरात्मने ।
अनिन्दकाय शुद्धाय सर्वत्र ब्रह्मदर्शिने ॥ ९-२२ ॥
अलोलुपाय शान्ताय निर्मलाय महेश्वरि ।
कृतज्ञाय क्रियाकाण्डाचारसंशुद्धचेतसे ॥ ९-२३ ॥
स्नानदानदयादाक्ष्यदमाद्यमलमूर्त्तये ।
परीक्ष्य शतधा देवि दद्यान्नान्यत्र कर्हिचित् ॥ ९-२४ ॥
स्नेहाद्वा धनलोभाद्वा अज्ञानाद्वा भयादपि ।
प्रकाशयति मूढात्मा नारक्याचन्द्रतारकम् ॥ ९-२५ ॥
तस्मात्त्वयापि देवेशि गोपितव्यं सुरेश्वरि ।
सखीनां ब्रह्मलीलाया दर्शनं तु यथा भवेत् ॥ ९-२६ ॥
तत्प्रकारं प्रवक्ष्यामि शृणुष्वैकाग्रमानसा ।
मथुराधिपतिः कंसः उग्रसेनसुतः खलः ॥ ९-२७ ॥
श्रुत्वात्ममृत्युं देवक्याः पुत्रद्वारेण दुष्टधीः ।
भगिनीं हन्तुमारेभे खङ्गेन तरसा बली ॥ ९-२८ ॥
वारितो वसुदेवेन नीत्या चाध्यात्मशिक्षया ।
न निवृत्तः खलः पापस्तदीपायमचिन्तयत् ॥ ९-२९ ॥
न चास्यास्ते भयं वीर पुत्रेभ्यश्चेद्भयं तव ।
समर्पयिष्ये तान्पुत्रान्यानसौ प्रसविष्यति ॥ ९-३० ॥
न सन्देहस्त्वया कार्यो यतः सत्यमयः पुमान् ।
सत्ये नष्टे स्वयं नष्टो विशतेन्धं महत्तमः ॥ ९-३१ ॥
इत्युक्तो मोहितमतिर्मुमोच भगिनीं खलः ।
तया प्रसूतः समये पुत्रः पावकसन्निभः ॥ ९-३२ ॥
तमादाय गतः कंसं वसुदेवः प्रसादयन् ।
अर्पयामास तनयं कंसायात्मजमृत्यवे ॥ ९-३३ ॥
औग्रसेनिस्तु तं दृष्ट्वा प्रसन्नेनान्तरात्मना ।
प्रत्यपर्यन् सुतं प्राह प्रसन्नोऽहं तवानघ ॥ ९-३४ ॥
न चास्मान्मे भयं शूर तस्मान्नो हन्मि ते शिशुम् ।
युवयोरष्टमाद्गर्भान्मृत्युर्मे संश्रुतः पुरः ॥ ९-३५ ॥
वृथा किमर्थं ते बालान् हन्मि लोकविगर्हितः ।
अष्टमस्तु यदा पुत्रो भविष्यति तवानघ ॥ ९-३६ ॥
तदा मां तूर्णमासाद्य निवेदयतु वै भवान् ।
स्वस्त्यस्तु ते चिरं याहि मा भयं धेहि सर्वथा ॥ ९-३७ ॥
इति कंससमादिष्टो वसुदेवो महाशय ।
निवृत्तः सुतमादाय कंसवाक्ये ससंशय ॥ ९-३८ ॥
ततो नारदवाक्येन विमोहितमतिः खलः ।
अहनत्तं सुतं भूयस्तत्र गत्वा रुषान्वितः ॥ ९-३९ ॥
जग्राह निगडे चोभौ वसुदेवं च देवकीम् ।
यान्यान्पुवान्प्रसुश्रुवे मारयामास तान् खलः ॥ ९-४० ॥
दधार सप्तमं गर्भं शेषसञ्ज्ञं सुदुःसहम् ।
आदिष्टा देवदेवेन योगमाया महेश्वरि ।
गर्भमाकृष्य देवक्या रोहिणीं प्रणिनाय सा ॥ ९-४१ ॥
स्वयं प्रादूरभूत्तस्मिन् देवकीजठरे प्रभुः ।
शङ्खचक्रगदापद्मधरश्चारुचतुर्भुजः ॥ ९-४२ ॥
पीतवासा घनश्यामः स्फुरन्मकरकुण्डलः ।
स्फुरन्माणिक्यमुकुटो वलयाङ्गदभूषितः ॥ ९-४३ ॥
वसुदेवस्तु तं दृष्ट्वा विस्मयोदारलोचनः ।
तुष्टावोपनिषद्वाग्भिस्ततस्तुष्टोऽब्रवीद्वचः ॥ ९-४४ ॥
विष्णुरुवाच
त्वयाहं तोषितः पूर्वं तपसा दुश्चरेण हि ।
पृश्निगर्भेति विख्यातो नाम्ना पत्रोऽभवं तव ॥ ९-४५ ॥
द्वितीये जन्मनि तथा कश्यपस्त्वं प्रजापतिः ।
उपेन्द्र इति विख्यातिं गतोऽहं यदुनन्दन ॥ ९-४६ ॥
वसुदेव तृतीयेस्मिन् भवे जातो भवद्गृहे ।
मुक्तिदानाय भवते प्रादुर्भूतोऽस्मि साम्प्रतम् ॥ ९-४७ ॥
नय मां गोकुलं यत्र यशोदा नन्दगेहिनी ।
तत्र जाता महामाया तां नयस्व स्वकं गृहम् ॥ ९-४८ ॥
तव मास्तु भय क्वापि कंसान्मज्ज्न्मशङ्कितात् ।
इत्युक्ता देवदेवेशो दम्पत्योः पश्यतोः पुरः ॥ ९-४९ ॥
अक्षरस्य तु या चित्तवृत्तिर्लीलावलोकने ।
तदुपाधिकतत्सत्तारूपे व्यूहत्त्वमागतः ॥ ९-५० ॥
बभूव द्विभुजः सद्यः शिशुभावं गतः प्रभुः ।
तस्मिन्नाविविशे साक्षाद्रसरूपी स्वयं प्रभुः ॥ ९-५१ ॥
निनाय गोकुले नन्दगेहं निद्राविमोहिते ।
आदाय योगनिद्रां तां वसुदेवो गृहं गतः ॥ ९-५२ ॥
देवकीप्रसवं प्रातः कंसायाचख्युरुत्सुकाः ।
गृहपाला ध्वनिं श्रुत्वा बालस्येति त्वरान्विताः ॥ ९-५३ ॥
कंसस्त्वरितमागम्य हठादाक्षिप्य तां खलः ।
भूपृष्ठे प्रोथयद्देवीं ततः सा दिवमुत्पतत् ॥ ९-५४ ॥
सा प्रोवाच वचः क्रुद्धा हरिजातस्तवान्तकृत् ।
यो वेदधर्मरक्षार्थं पाखण्डविनिवृत्तये ॥ ९-५५ ॥
असुराणां विनाशार्थमाविर्भवति लीलया ।
युगान्ते तमसा ग्रस्तान् वेदानुद्धर्त्तुमिच्छया ।
मत्स्यरूपी स्वयं जातः सर्वज्ञः सर्वशक्तिमान् ॥ ९-५६ ॥
कूर्मरूपेण यः पृष्ठे दधार मन्दराचलम् ।
उद्दिधीर्षुर्भुवं मूढ योऽसृजत् शौकरीं तनुम् ॥ ९-५७ ॥
स्वभक्तद्रोहिणं हन्तुं त्रातुं भक्तजनं तु यः ।
नृसिंहरूपी यः स्तम्भात्प्रादुरासीत्कृपानिधिः ॥ ९-५८ ॥
आत्मानं वामनं कृत्वा भक्तकार्यार्थमुद्यतः ।
बलिं बध्वा मघवते त्रिलोकीमददात्प्रभुः ॥ ९-५९ ॥
क्षत्रियान् दुर्नयान् दृष्ट्वा जमदग्निगृहे तु यः ।
जातश्चकार पृथिवीं क्षत्रवीजविवर्जिताम् ॥ ९-६० ॥
योऽसौ दाशरथिर्भूत्वा रावणं लोकरावणम् ।
जघान समरे दुष्टं शरण्यः शत्रुसूदनः ॥ ९-६१ ॥
कलौ जनिष्यमाणानाम् असुराणां दुरात्मनाम् ।
वेदमार्गप्रवृत्तानाम् अतदर्हतया तु यः ॥ ९-६२ ॥
अरुच्युत्पादनार्थाय नानापाषण्डकल्पनाम् ।
कृत्वा विनाशमेतेषां करिष्यति परः प्रभुः ॥ ९-६३ ॥
स जातो यत्र कुत्रापि मृत्युस्तव विमूढधे ।
इत्युक्त्वान्तर्दधे माया कंसस्तु विमनाः स्थितः ॥ ९-६४ ॥
इति श्रीपञ्चरात्रे माहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे नवमं पटलम् ॥ ९-९ ॥