अथ अष्टमं पटलम्
शिव उवाच
इच्छया ससृजे निद्रा त्रिगुणा मोहरूपिणी ।
तथा विस्रंसितज्ञानो मुमोह जगदीश्वरः ॥ ८-१ ॥
मोहरूपं तदज्ञानं यस्य शक्तिद्वयं प्रिये ।
आवरणा प्रथमा देवि विक्षेपात्मा परा मता ॥ ८-२ ॥
स्वप्रकाशं यथा दीपमभ्रपत्रावृतिर्यथा ।
निगुह्येतं जितानेन नानाभावान्प्रदर्शयेत् ॥ ८-३ ॥
एवं कूटस्थपुरुषमावृत्यावरणात्मिका ।
ततो विक्षेपरूपेण विश्वमात्मन्यदर्शयत् ॥ ८-४ ॥
शक्तिद्वयसमापेतमज्ञानमिति तद्विदुः ।
यथा शयानः पुरुषो जाग्रद्दृष्टं विमुञ्चति ॥ ८-५ ॥
तद्वासनावासितायां बुद्धौ स्वप्नं प्रपश्यति ।
यथा ददर्शविश्वात्मा स्वप्नारूढं जगत्प्रिये ॥ ८-६ ॥
यथाशयानः पुरुषः स्वप्ने राजा यथा भवेत् ।
राजदेहेन प्रकृतीः सर्वा एव नियच्छति ॥ ८-७ ॥
तथा नारायणं रूपं धत्ते देवश्चिदात्मकः ।
तेन रूपेण देवेशि स्वप्नलीलां प्रपश्यति ॥ ८-८ ॥
सत्वं रजस्तम इति पृथिव्यादीनि सुन्दरि ।
तत्र जातानि देवेशि येभ्योऽण्डमभवत्प्रिये ॥ ८-९ ॥
तत्र जाता इमे लोकाः सप्त चोर्ध्वमधस्तथा ।
सप्तार्णवाः सप्तद्वीपा जम्बूद्वीपस्तु मध्यगः ॥ ८-१० ॥
तन्मध्ये भारतं वर्षं माथुरं तत्र मण्डलम् ।
तन्मध्ये गोकुलं जातं स्वाप्निकं सुरसुन्दरि ॥ ८-११ ॥
बहिर्वत् भासते विश्वं निद्रयान्तर्गतं प्रिये ।
ब्रह्मसत्तैव तत्सत्ता पृथक् सत्ता न विद्यते ॥ ८-१२ ॥
भित्यन्तर्गतचित्राणि यथाधिष्ठानतः पृथक् ।
न सन्ति देवदेवेशि तदा त्रासमयान्यपि ॥ ८-१३ ॥
एवं विश्वमयं चित्रम् आत्मभित्तिमधिंष्ठितम् ।
न पृथक् देवि कुत्रापि पृथक् जानन्त्यपण्डिताः ॥ ८-१४ ॥
ब्रह्मगुह्यमिदं देवि वक्तुं जिह्वा जडायते ।
गात्राणि शिथिलायन्ते वाणी मे गद्गदायते ।
तथापि प्रेमवशगो दिङ्मात्रं प्रब्रवीमि ते ॥ ८-१५ ॥
एकदा पुरुषः साक्षात्पुरुषोत्तमसञ्ज्ञकः ।
सखीनां मण्डलगतः स्वामिन्या श्लिष्टया प्रभुः ॥ ८-१६ ॥
रत्नसिंहासनासीनः पदाक्रान्तमहीतलः ।
पाणिना भ्रामयन्पद्मं पदावष्टब्धविग्रहः ॥ ८-१७ ॥
दिव्यक्रीडारसानन्दो दिव्यभूषणभूषितः ।
दिव्यमाणिक्यमुकुटो दिव्यकुण्डलमण्डितः ॥ ८-१८ ॥
निश्चलालिकुलाकारकुटिलः स्निग्धकुन्तलः ।
शरत्पद्मलसद्वक्रो नयनानन्दवर्षणः ॥ ८-१९ ॥
दिव्यहीरालिदशनः प्रवालदशनच्छदः ।
अनङ्गधनुराकारकुटिलभ्रूलतोत्सवः ॥ ८-२० ॥
स्मितमाधुर्यविजितमाधुर्यरससागरः ।
कम्बुकण्ठलसद्रेखात्रयशोभामनोहरः ॥ ८-२१ ॥
मुक्ताहारलसद्वक्षः स्फुरमाणमणिप्रभः ।
काञ्चीकपालविस्फूर्जत्किङ्किणीजालमण्डितः ॥ ८-२२ ॥
वलयाङ्गदकेयूरोर्मिकावृन्दविभूषितः ।
सुनासः सुन्दरमुखः स्मितोदारमुखाम्बुजः ॥ ८-२३ ॥
दिव्यगन्धानुलिप्ताङ्गो दिव्याम्बरविभूषितः ।
सुधासमुद्रलहरीशीतलाकृतिसुन्दरः ॥ ८-२४ ॥
गम्भीरावर्तनाभ्युद्यत्तनुरोमलताङ्कुरः ।
स्वामिनी संस्थिता तस्य वामदेशे सहासना ॥ ८-२५ ॥
अचञ्चलतडित्कोटिद्युतिभूषणभूषिता ।
दिव्यधात्रीफलस्थूलनासानटितमौक्तिका ॥ ८-२६ ॥
शृङ्गाररससम्पूर्णनेत्रान्दोलनविभ्रमैः ।
विलुम्पन्तीव देवेशि भर्त्तुश्चित्तगभीरताम् ॥ ८-२७ ॥
मधुरोल्लापमाधुर्यविनिर्भर्त्सितकच्छपी ।
मन्दर्स्मितप्रभापूरमज्जत्प्राणेशमानसा ॥ ८-२८ ॥
मुखामोदविलुब्धालिझङ्कारोद्विग्नलोचना ।
भ्रूलताजितकन्दर्पवरकार्मुकविभ्रमा ॥ ८-२९ ॥
मणिमजीरनिर्ह्रादविमोहितमरालिका ।
नखेन्दुरुचिसदोहमज्जन्नूपुरमण्डला ॥ ८-३० ॥
आनन्दसागरोद्वेलविधूपममुखाम्बुजा ।
कुचकुम्भलसन्मुक्ताहारभारमनोहरा ॥ ८-३१ ॥
ग्रैवेयाभरणोद्दीप्ता क्रम्बुकण्ठी शुचिस्मिता ।
सख्यः प्रियां पुरस्कृत्य प्राहुः प्राणेश्वरं मुदा ॥ ८-३२ ॥
सख्य ऊचुः
प्राणनाथ प्रियायास्ते मनोरथमहाद्रुमः ।
फलितो नैव दृश्येत त्वयि भर्त्तरि किं पुनः ॥ ८-३३ ॥
मनोरथविघातेन धुनोत्येव प्रियामनः ।
बाललीलादिदृक्षास्मान् बाधते हृदयस्थिता ॥ ८-३४ ॥
यथेन्दोश्चन्द्रिकायाश्च यथा कुसुमगन्धयोः ।
शब्दार्थयोर्यथैवेश यथा बह्न्यर्चिषोः प्रभो ॥ ८-३५ ॥
अनाद्यभेदो देवेशि स्वामिन्यापि तथैव ते ।
अस्माकमपि भो स्वामिन् स्वामिन्यापि तथैव सः ॥ ८-३६ ॥
कस्य हेतोर्न कुरुषे तन्मनोरथपूरणम् ।
अविलम्बितमेवैतत्कुरुष्व हृदयस्थितम् ॥ ८-३७ ॥
इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे अष्टमं पटलम् ॥ ८-८ ॥