०७

अथ सप्तमं पटलम्

पार्वत्युवाच

देवदेव ! महादेव ! करुणार्णव ! शङ्कर ! ।
श्रुत्वा त्वदीयवचनं नात्मा मे परितुष्यति ॥ ७-१ ॥

नारायणादिरूपाणि त्वयोक्तानि च शङ्कर ! ।
तदुद्भवे हेतुमात्रं ब्रह्माज्ञानं निरूपितम् ॥ ७-२ ॥

ब्रह्मण्यज्ञानसम्बन्धः सन्देहस्ते निवारितः ।
कारण ब्रूहि देवेश मोहोत्पत्तौ विशेषतः ॥ ७-३ ॥

शिव उवाच

शृणु देवि ! प्रवक्ष्यामि रहस्यं वेदगोपितम् ।
यस्य कस्यापि नो वाच्यं वाच्यं सर्वस्वदायिने ॥ ७-४ ॥

तव स्नेहवशाद्देवि ! कथयामि न चान्यथा ।
सच्चिदानन्दकं ब्रह्म सदंशेन क्षरं जगत् ॥ ७-५ ॥

चिद्रूपं ब्रह्म परमं नित्यमक्षरमव्ययम् ।
बाललीलाविनोदेन कोटिब्रह्माण्डसंहतीः ॥
सृजते संहरत्येव निर्विकारं तथापि यत् ॥ ७-६ ॥

तस्मादप्यक्षरादूर्ध्वं परमानन्दसुन्दरम् ।
नित्यवृन्दावनानन्दि नानाक्रीडारसार्णवम् ॥ ७-७ ॥

विराजति ब्रह्मपुरे मनोवाग्विषयातिगम् ।
अम्भोजकर्णिकावच्च नित्यवृन्दावनान्तरे ॥
तत्पत्रवदनेकैश्चिन्महोद्यानैर्विराजितम् ॥ ७-८ ॥

निजं धामं रसानन्दं स्वप्रकाशं महोज्ज्वलम् ।
कालिन्दी यत्र कोट्यर्कभास्वद्रत्नतटोन्नता ॥ ७-९ ॥

हंससारसकारण्डनानापक्षिनिनादिता ।
फुल्लाम्भोजवनामोदलुब्धभ्रमरमण्डला ॥ ७-१० ॥

नवरत्नमयीभिस्तु सिकताभिरलङ्कृता ।
महामणितटोत्तुङ्गकुट्टिभैः परिमण्डिता ॥ ७-११ ॥

नानादिव्यलताकुञ्जैरम्लानकुसुमोज्ज्वलैः ।
दिव्यगन्धसमाकृष्टभृङ्गझङ्कारपेशलैः ॥ ७-१२ ॥

सप्ततीर्थैर्दिव्यरत्नराजिराजितभूतलैः ।
उपरिस्थमणिभ्राजत्कुट्टिमैर्दिव्यमण्डपैः ॥ ७-१३ ॥

शोभमानामृतजला स्वर्णपङ्कजमालिनी ।
रक्ततुण्डपदैश्चित्रपक्षैः पक्षिगणैः शिवे ॥ ७-१४ ॥

सेव्यमाना सुखस्पर्शैर्वायुभिश्चलपङ्कजा ।
क्वचित्पर्यस्तमुक्तालिमहामरकतावनौ ।
शुद्धतामसहृद्युच्चैर्भाति भक्त्यङ्कुरा इव ॥ ७-१५ ॥

यत्रोन्नदन्तःशुकसारसाद्याः पठन्ति दिव्यां गुणचित्रसत्कथाम् ।
शाखास्थिताः कल्पमहीरुहाणां मन्दानिलान्दोलितपल्लवश्रियाम् ॥ ७-१६ ॥

न यत्र शोको न भयं मृतिर्वा
कालो न यत्र प्रभवेदनन्तः ।
यदेत्य शोचन्ति पुनर्नहीश्वराः
कुञ्जेषु लीलावपुषोऽमलाशया ॥ ७-१७ ॥

प्रतप्तजाम्बूनदसुन्दरत्विषः
कटाक्षविक्षैपविलोभितेश्वराः ।
चरन्ति मूर्त्ताम् इव विद्युतः स्फुटा
घनेषु कुञ्जध्वनियोषिताङ्गणाः ॥ ७-१८ ॥

प्रफुल्लचाम्पेय वनोल्लसल्लता
शतोपशङ्कं ययिता समीरणः ।
तनुष्विवानन्द परम्परां परां
तनोति तारुण्यभृतोन्नतद्भ्रुवाम् ॥ ७-१९ ॥

सख्यः कुशेशयदृशो विलसद् विभूषाः प्रोत्तुङ्गपीनकुचमण्डललम्बिहाराः ।
काश्मीरनीरलुलिताम्बररश्मिमाला
निर्भत्सितोदितदिवाकरबिम्बशोभाः ॥ ७-२० ॥

दिव्यन्ति यत्र सुरसिद्धदुरापलोकाः
श्रुत्युल्लसत्कनककुण्डललोलगल्लाः ॥ ७-२१ ॥

द्युमणिमणिसमुद्यत्कान्तिसन्दोहरम्याः [द्युमणिः=अम्बरमणिः सूर्य इत्यर्थः द्युमणिमणि=सूर्यकान्तमणिः ।] विशदमरकतानामंशुकिर्मीरिताश्च ।
प्रचलदचलशोभैः पद्मरागैः सरागैः
प्रकटपरमशोभा भूमयो यत्र भान्ति ॥ ७-२२ ॥

नीलाद्रिकान्तिसन्दोहैरूर्ध्वगैः सर्वतः प्लुतैः ।
दूरादाभाति वसुधा हरितृणमयाङ्कुरा ॥ ७-२३ ॥

परापरविभागेन नीलपुष्पमयौ गिरी ।
नानाश्चर्यमयौ दिव्यौ दिव्योद्यानमनोहरौ ॥ ७-२४ ॥

स्फुरन्मयूखमालाभिः प्रकाशितदिगन्तरः ।
पद्मरागाचलः श्रीमानास्ते यत्र महाद्धिम्मान् ॥ ७-२५ ॥

सरांसि यत्र भूयांसि चित्सुधारसवन्ति च ।
विलसन्ति महारत्नशिलाबद्धानि सर्वतः ॥ ७-२६ ॥

यत्रोद्यानलताकुल्या वमन्ति मधुरां सुधाम् ।
यूथशः खेलमानास्ताः पिबन्त्यानन्दनिर्भराः ॥ ७-२७ ॥

यत्रैव कुञ्जसदनानि हसन्मुखानि
व्याकीर्णकाञ्चनभुगासनमण्डितानि ।
प्रत्याहसन्मणिविजृम्भितकुट्टिमानि
कूजद्विहङ्गमकुलानि शिवानि नित्यम् ॥ ७-२८ ॥

स्फूर्जन्मणिप्रविततिर्वितनोति लक्ष्मीं
विस्फूर्जदूरुशशिकान्तशिलातलेषु ।
कूलप्ररूढनलिनीदलरश्मिबिम्बा
रूढेषु कामपि नितान्त मुदः प्रणाली ॥ ७-२९ ॥

वैदूर्यवीरुध इह प्रतिभान्ति विष्वक्
यासूल्लसन्त्यरुणविद्रुमनर्त्तनानि ।
दूरादुपेतसितमौक्तिकरश्मिलेश
शोभां दधाति विमलां विलसन्तमार्याम् ॥ ७-३० ॥

यत्रैव चम्पकवनानि जयन्ति विष्वक्
मत्तभ्रमद् भ्रमरदूरतरोज्झितानि ।
प्रत्युन्नदन्ति विटपेष्वनिशं द्विजेन्द्रा
गीतध्वनिं सुखसमीरसमुन्नमत्सु ॥ ७-३१ ॥

श्यामोदरद्युतिसरोजवनीस्थिताभिः
कान्तिच्छटाभिरभितोघृतदुर्दिनेषु ।
प्रोत्फुल्लपङ्कजकदम्बपरागपुञ्जो
विद्युच्छविं वहति गन्धवहः प्रणुन्नः ॥ ७-३२ ॥

क्रीडासरः स्फुटमुदञ्चति कुञ्जलीन-
गुञ्जद्द्विरेफपटलाकुलपङ्कजश्रिः ।
वप्रप्ररूढगुणरूढकदम्बलम्बद्
दोलासहस्रकमनीयगुणं गुणोरु ॥ ७-३३ ॥

दूरादिहाद्रितनये कमलाकराणा-
मुद्यत्परागपटलैश्च समीरवेगात् ।
स्फारीभवत्सुरभिगन्धसुधामयाम्भश्-
चेतःसरो रमयतीत्यनुरागिभावम् ॥ ७-३४ ॥

मध्योल्लसद्विपुलविद्रुमदेहलीक-
विश्रान्तिमण्डपसमृद्धसमस्तभोगम् ।
सोपानवर्त्मसु निविष्टसखीसहस्र-
व्याहन्यमानमृदुमर्दलपूर्णकुञ्जम् ॥ ७-३५ ॥

उद्यन्मयूखमयशुद्धसुधातिवर्षै-
रत्नेन्दुरुल्लसति नित्यमनस्त भावः ।
नित्याभिरन्विततमः स्वकलाभिरन्तः
शुद्धेतरप्रथितपक्षविपक्षधामा ॥ ७-३६ ॥

यत्रामृताम्भोनिधिमध्यविस्फुर-
द्रत्नोल्लसद् द्वीपनिवेशमद्भुतम् ।
चकास्ति तस्मिन्परमाद्भुतं मह-
न्नैकेन भास्वन्मणिना विनिर्मितम् ॥ ७-३७ ॥

निजालयं मन्दिरमद्भुताकृतिं
महामणिस्तम्भविराजमानम् ।
समोदितानेकर्दिवाकरेन्दुरुक्-
प्रभावनिर्भर्त्सनरत्नमण्डितम् ॥ ७-३८ ॥

नानाविधानन्दविहारभूमिका
दशैव यस्मिन् प्रतिभान्ति पेशलाः ।
विहारशय्यासनचारुचामरा-
मृतानुलेपोत्तमगन्धसाधना ॥ ७-३९ ॥

गवाक्षमालापथचारिभिर्महा-
गरुद्भवैर्धूमवरैः सुगन्धिभिः ।
इतस्ततः केलिवनानिलोद्धतैः
सुवासयन्त्यो वनपुष्पसम्पदः ॥ ७-४० ॥

क्वचिद्दिनमणिज्योत्स्नाजालैर्मध्याह्नसूचकम् ।
क्वचिदञ्जनसङ्काशैर्मणिभिर्दर्शितक्षपम् ॥ ७-४१ ॥

उदितार्कमिवान्यत्र पद्मरागप्रभारुणम् ।
सन्ध्यायमानमेकत्र इन्द्रनीलमणित्विषा ॥ ७-४२ ॥

जलजाकृतिमत्यम्ब चतुरस्रा च वेदिका ।
तस्याश्चतुर्षु कोणेषु हेमकुम्भाः सुधाभृताः ॥ ७-४३ ॥

रत्नपङ्कजसंशोभैर्मुखा यत्र चकासते ।
मुक्तामयवितानानि मणिभूमिप्रभाङ्कुरैः ॥ ७-४४ ॥

निर्भिन्नानीह लक्ष्यन्ते नानाचित्राकृतीनि च ।
कर्णिकावन्महासौधं परितस्तस्य सुन्दरि ॥ ७-४५ ॥

द्वादशैव सहस्राणि प्रियाणां सोधपङ्क्तय ।
प्रवालदेहलीकानि मणिद्वाराणि पार्वति ।
मुक्तातोरणवन्त्युच्चैर्नानाश्चर्यमयान्यपि ॥ ७-४६ ॥

नानावर्णैर्महाचित्रैश्चित्रितानि समन्ततः ।
गवाक्षमालाविलसन्मणिदीपोज्ज्वलानि च ॥ ७-४७ ॥

दीर्घिकाभिश्च दीर्घाभिर्विकचोत्पलपङ्क्तिभिः ।
गाहमानाभिरनिश सखीवृन्दैर्विभूषितैः ॥ ७-४८ ॥

क्वणत्कनकभूषाढ्यैः कौशम्भाम्बरशोभितैः ।
नानाकेलिरसास्वादविघूर्णितविलोचनैः ॥ ७-४९ ॥

महाद्वारमहं वन्दे भास्वद्रत्नकपाटकम् ।
सन्मुखं दूरतो यस्य विभाति यमुना नदी ॥ ७-५० ॥

तत्प्रा"गणं कुङ्कुमपङ्कपिच्छलं
समुद्यदादित्यसहस्रभास्वरम् ।
मुक्तामयूखावलिमिश्रितैर्महा-
मणिप्रकाशैररुणीकृतान्तरम् ॥ ७-५१ ॥

यत्र कार्त्तस्वरमयी पर्यस्तमणिमौक्तिका ।
परमानन्दभवनं विभाति विविधास्थली ॥ ७-५२ ॥

सव्यापसव्ययोर्यस्य पुरश्च सुरवन्दिते ।
कुट्टिमानि विचित्राणि भान्ति भूयांसि यत्र वै ॥ ७-५३ ॥

यत्र जाम्बूनदस्तम्भेष्वारोपितमणिव्रजाः ।
प्रपुष्णन्ति महीदीपशोभामधूतवर्चसः ॥ ७-५४ ॥

तन्मध्यतो जयति कश्चिदनर्ध्यमुक्ता
माणिक्यराशिरचितो विलसत्पताकः ।
वैदूर्यविद्रुमविनिर्मितदेहलीकः
श्रीमण्डपः कुसुमराशिभिरुद्यतश्रीः ॥ ७-५५ ॥

नृत्यन्ति कूजदलघुध्वनिनूपुराणां
केयूरचारुवलयावलिभासुराणाम् ।
यूथानि सस्मितमुखद्युतिनर्त्तकीना-
मादर्शिताभिनयमुच्चलकुण्डलश्रीः ॥ ७-५६ ॥

यत्रेन्द्रनीलमणिनिर्मितनीलपद्मे-
षूद्भ्रान्तभृङ्गवनितापटलीविभाति ।
यत्रोल्लसत्स्फटिकभूमितलोपविष्टा-
हंसाविशेषमभजन्पदचञ्चुभासा ॥ ७-५७ ॥

आमोदमोदितदिगन्तरभृङ्गसङ्घ-
कल्पद्रुकोमलपरागसरागमार्गे ।
मन्मानसं गिरिसुते सितसैन्धवीयः
खण्डो निमज्जतु महामणिमण्डपान्तः ॥ ७-५८ ॥

यमुनायाः परे कूले निजं धाम प्रतिष्ठितम् ॥ ७-५९ ॥

अपरस्मिन् महेशानि धाम स्यादक्षरस्य तु ॥ ७-६० ॥

धाम्नोभिमुखमीशानि वनान्युपवनानि च ।
चिदानन्दमयी वापी मणिमण्डपमण्डिता ॥ ७-६१ ॥

पारिजातवनं यत्र प्रवालकुसुमोज्ज्वलम् ।
पद्मरागमयाकारनानावृक्षैर्विराजितम् ॥ ७-६२ ॥

वैदूर्यमयवल्लीनां पद्मरागपलाशकैः ।
मुक्तास्तबकयुक्तैश्च काञ्चनाङ्कुरसङ्गतैः ॥ ७-६३ ॥

यूथैर्विराजितं विष्वक् नानाक्रीडारसालयम् ।
सपादलक्षयोजनानां सङ्ख्यायां विमलं सरः ॥ ७-६४ ॥

मणिरत्नशिलाबद्धमणिकुट्टिममण्डपम् ।
प्रवालपद्मरागाद्यैः कॢप्तसोपानसुन्दरम् ॥ ७-६५ ॥

तत्रस्था भर्त्तुरुद्दाम यशो गायन्ति योषितः ।
काश्चिल्लम्बन्ति दोलाभिर्गायन्त्यो मधुरस्वरम् ॥ ७-६६ ॥

काश्चिन्मृदङ्गवीणाद्यैर्नान्नाक्रीडारसोज्ज्वलाः ।
खेलन्ति परमानन्दाः सखीसख्यो मुदान्विताः ॥ ७-६७ ॥

महापद्मवनं यत्र पद्मरागमयाम्बुजम् ।
वैदूर्यदण्डपत्रालिस्फुरद् वैडूर्यपद्मिनी ॥ ७-६८ ॥

प्रवालकेसरोद्भासिदिव्यगन्धमनोहरम् ।
सृजद्वितानमाकाशे रजोभिर्वायुनोद्धतैः ॥ ७-६९ ॥

सङ्ख्यया परितो देवि लक्षयोजनविस्तृतम् ।
यद्गन्धानन्दसंसर्गात् ब्रह्मानन्दपरम्पराः ॥ ७-७० ॥

अप्रार्थनीयतमाभान्ति केनचित्सर्वथा सदा ।
रमते भगवान् क्वापि सप्रियाभिः समन्वितः ॥ ७-७१ ॥

वसन्ते कुङ्कुमाम्भोभिर्जलयन्त्रैर्विनिर्गतैः ।
वसन्तपुष्पाभरणैः स्फुरन् मुक्ताविभूषणैः ॥ ७-७२ ॥

प्रच्छन्नाभिः प्रकाशाभिः क्रीडाभिरितरेतरम् ।
नानापरिमलोद्गारैर्नानापक्षिगणस्वनैः ॥ ७-७३ ॥

पिककोलाहलैर्दिव्यैर्नित्यानन्दविवर्द्धनैः ।
स्फुरत्तडितमेघालिध्वनन्नभसि प्रावृषि ॥ ७-७४ ॥

भूमिकासु सखीवृन्दैर्गायमानः प्रमोदते ।
एवं क्रमेण भगवान् क्रीडते ऋतुचर्यया ॥ ७-७५ ॥

कदाचिन्मणिगेहस्थकुट्टिमे सुमनोहरे ।
चतुर्दिक्षुमहारत्नस्तम्भैः षोडशभिर्युतैः ॥ ७-७६ ॥

अन्योन्यप्रतिबिम्बत्वादन्योन्येतरथागतैः ।
प्रियामध्यगतो भाति तारामध्ये यथा शशी ॥ ७-७७ ॥

नानानर्मविनोदैश्च नानाक्रीडाकुतूहलैः ।
रमते भगवान् यत्र स्वय रसमयः पुमान् ॥ ७-७८ ॥

अक्षरः परमात्मा च पुरुषोत्तमसञ्ज्ञकः ।
उभावप्येक एवार्थो लीलाभेदेन सुन्दरि ॥ ७-७९ ॥

अक्षरे सृष्टिकर्तृत्वान्न शृङ्गाररसोदयः ।
अमायत्वाद्रसात्मत्वान्नापरः सृष्टिकृत्प्रिये ॥ ७-८० ॥

दिदृक्षा ह्यक्षरस्यासील्लीलाया दर्शने प्रिये ।
पूर्णप्रियाप्रेम पश्ये विलसत्पुरुषोत्तमे ॥ ७-८१ ॥

तज्ज्ञात्वा पुरुषः श्रेष्ठः प्रियास्विच्छां दधे प्रिये ।
प्रार्थयामासुरेतास्तं श्रीस्वामिन्या समन्विताः ॥ ७-८२ ॥

सख्य ऊचुः

भो भो स्वामिन्परानन्द परात्परतर प्रभो ।
वयं प्रियाः प्रियोऽसि त्वं तस्मान्नः प्रियमाचर ॥ ७-८३ ॥

अक्षरात्मा तु भगवान् या लीलाः सृजते प्रभुः ।
अस्माभिर्नानुभूतास्ताः कीदृशीः किंविधा इति ॥ ७-८४ ॥

तद्दिदृक्षितचित्तानां कामो नः प्रतिबाधते ।
कारयानुभवं तस्याः कारुण्येन कृपानिधे ॥ ७-८५ ॥

श्रीकृष्ण उवाच

प्रियाः शृणुत मे वाक्यं सावधानेन चेतसा ।
न यूयं दर्शने योग्याः नित्यानन्दपदे स्थिताः ॥ ७-८६ ॥

यत्रानन्दस्वरूपस्य हानिर्भवति सर्वथा ।
त्रिगुणायास्तु लीलाया दर्शनेन प्रियंवदाः ॥ ७-८७ ॥

मायावेशाद्विचित्रत्वं भावरूपात्मनां भवेत् ।
स्वलीलासहितं मां च न द्रक्ष्यथ कदाचन ॥ ७-८८ ॥

दुःखानुभव एवास्ति न सुखस्य कदाचन ।
विस्मरिष्यथ मां तत्र किमन्यत्तु वदामि भोः ॥ ७-८९ ॥

इत्युक्तास्ताः प्रियाः सर्वाः प्रत्यूचुः पुरुषोत्तमम् ।
तथापि प्रिय तत्सर्वं नानुभूतं कदाचन ॥ ७-९० ॥

तस्मादनुभवारूढ यथा भवति तत्कुरु ।
दुःख कामो विना दुःखदर्शनं न निवर्तते ॥ ७-९१ ॥

विना दुःखं न च सुखं स्वरूपेण प्रतीयते ।
तस्मात्साधय नः कामं गुणलीलानुदर्शने ।
एवमुक्ते प्रियाभिस्तु तथास्त्विति जगाद सः ॥ ७-९२ ॥

इति श्रीमाहेश्वरतन्त्रे उत्तरखण्डे शिवोमासंवादे सप्तमं पटलम् ॥ ७-७ ॥