०६

अथ षष्ठं पटलम्

श्रीदेव्युवाच

देवदेव कृपासिन्धो दीनबन्धो जगत्पते ।
आपीय भवतः सूक्तिं महानन्दः प्रवर्तते ॥ ६-१ ॥

अज्ञानान्निखिलं जातं ब्रह्मादिस्थावरान्तकम् ।
इति यद्भवता प्रोक्तं सङ्क्षेपेण महेश्वर ! ॥ ६-२ ॥

प्रपञ्चय पुनः सर्वं सृष्टिसंहारभेदतः ।

शृणु पार्वति वक्ष्यामि यत्त्वं पृच्छसि तत्त्वतः ।
तस्य श्रवणमात्रेण परमात्मा प्रकाशते ॥ ६-३ ॥

अज्ञानं यन्मया प्रोक्तं न सन्नासत्तदुच्यते ।
सच्चेन्मुक्तिसमुच्छेदों ह्यसच्चेद्भासते कथम् ॥ ६-४ ॥

अनिर्वाच्यमिदं तस्मात् त्रिगुणोत्पादकं तथा ।
ज्ञाननाश्यं भावरूपं मूलाज्ञानं विदुः प्रिये ॥ ६-५ ॥

शशशृङ्गनरशृङ्गवन्ध्यापुत्रखपुष्पवत् ।
अज्ञानं कथितं सद्भिः कथं सदिति चोच्यते ॥ ६-६ ॥

नासत्तु कारणत्वेन ह्युपयुञ्जीत कर्हिचित् ।
कथं सृजति ब्रह्माण्डं ब्रह्मादिस्थावरान्तकम् ॥ ६-७ ॥

न शक्यस्तदभावोऽपि यस्मात्तत्त्रिगुणात्मकम् ।
श्रुतिप्रसिद्धं व्योमादिरूपेण विततं च यत् ॥ ६-८ ॥

सत्यवद्भासते वापि मूलाज्ञानं गिरीन्द्रजे ।
दीपार्चिषेव तिमिरं ज्ञानेन विनिवर्त्तते ॥ ६-९ ॥

स्वस्वरूपावबोधो हि ज्ञानमित्युच्यते प्रिये ।
स्वस्वरूपभ्रमो देवि विकल्पो भवसञ्ज्ञकः ।
भ्रान्तात्मनस्तु शयने विकल्पो जायते महान् ॥ ६-१० ॥

प्राप्तात्मनः समूलोऽपि नश्यते तद्वदेव हि ।
तदज्ञानं द्विधाभूतं कार्यकारणभेदतः ॥ ६-११ ॥

अक्षरे परमानन्दे मूलं स्यात्कारणं परम् ।
कार्यात्मकं बुद्धिभेदात् बुद्धिराभासदीपिता ॥ ६-१२ ॥

सूते कार्यात्मकं पिण्डं ब्रह्माण्डं कारणात्मकम् ।
ब्रह्माण्डपिण्डयोरैक्यं प्रवदन्ति विपश्चितः ॥ ६-१३ ॥

सर शरावयोर्मध्ये यथार्कः प्रतिबिम्बितः ।
अक्षरः स्वावभासेन कार्यकारणसङ्गतः ॥ ६-१४ ॥

यथोपाधिद्वयाभावे सूर्य एकः प्रतीयते ।
तथोपाधिद्वयाभावे विशुद्धः केवलोऽक्षरः ॥ ६-१५ ॥

मूलोपाधिर्विशुद्धश्च सत्वप्राधान्यतः प्रिये ।
क्षुद्रोपाधिर्हि मलिनस्तमःप्राधान्यतो भवेत् ॥ ६-१६ ॥

उत्कृष्टत्वाद्विशुद्धत्वात् सत्वप्राधान्यतस्तथा ।
नारायणादिकान् सूते सर्वज्ञानोपबृंहितान् ॥ ६-१७ ॥

कार्योपाधिर्निकृष्टत्वादशुद्धत्वाच्च तामसः ।
जीवसृष्टिं वितनुते सर्वेशगुणवर्जिताम् ॥ ६-१८ ॥

नारायणादिजीवन्ता सृष्टिर्मोहावधिस्थिता ।
एकमेवाद्वितीयं च ब्रह्मेति श्रुतयो जगुः ॥ ६-१९ ॥

बुद्धिवृत्तिस्त्रिघा यद्वज्जाग्रत्स्वप्नसुषुप्तिकाः ।
आभासात्मनि जीवाख्ये वर्तन्ते ताः पुनः पुनः ॥ ६-२० ॥

तद्वद्ब्रह्मणि चाज्ञानं त्रिधैव परिवर्तते ।
मूलाज्ञानं लयस्थानं सुषुप्तिः परिकीर्तिता ॥ ६-२१ ॥

नारायणोपाधिकं यत्स्वप्नं तत्परिचक्षते ।
विष्णुपाघिमयाज्ञानं जाग्रदित्यभिधीयते ॥ ६-२२ ॥

आदिजीवो महाजीवो विष्ण्वाख्यः परिकीर्त्तितः ।
स एव सर्वजीवाख्यः [आभासात्मनि पश्यति इत्यपि पाठः ।] आभासात्मा परस्य तु ॥ ६-२३ ॥

जाग्रत्स्थानगताज्ञानं नानारूपैर्विजृम्भितम् ।
देवासुरमनुष्याद्यैर्गन्धर्वोरगकिन्नरैः ॥ ६-२४ ॥

पशुकीटपतङ्गाद्यैर्विचित्रैः कर्मनिर्मितैः ।
तानेतान्वासनारूढान्नानाभेदव्यवस्थितान् ॥ ६-२५ ॥

नारायणेन रूपेण स्वयं पश्यति चाक्षरः ।
जाग्रत्स्वप्ने विलीयेत स्वप्नस्तु शयनं व्रजेत् ।
तत्तुरीयं लयं याते स्मृतिरत्रावशिष्यते ॥ ६-२६ ॥

यथा जागरणे स्वप्नः स्वप्ने जागरणं यथा ।
तथा वृत्तमिदं देवि यो जानाति स मुच्यते ॥ ६-२७ ॥

अक्षरः परमात्मायं जाग्रत्स्वप्नं प्रपश्यति ।
जीवो जाग्रति वै स्वप्ने चित् क्षरस्य परात्मनः ।
स्वप्न तज्जागरश्चापि द्वयमेतद्गतार्थकम् ॥ ६-२८ ॥

स्थूलार्थोपासत्तिकालो जागरः परिकीर्त्तितः ।
स्थूलं त्यक्त्वा तु सूक्ष्मार्थोपासत्तिः स्वाप्निकी मता ॥ ६-२९ ॥

सूक्ष्मार्थानामप्यभावोपासत्तिः शयनात्यिका ।
शयनं तत्तु चाज्ञानं मोहरूपं वरानने ॥ ६-३० ॥

कारणं तद्विजानीयात् महाकारणनिर्मितम् ।
कार्यरूपेण विततं क्रमात्स्थूलविभेदतः ॥ ६-३१ ॥

तदहं ते प्रवक्ष्यामि शृणुष्वैकाग्रचेतसा ।
अज्ञानं प्रकृतिर्माया मोहोव्यक्तं प्रधानकम् ।
अदृष्टं चेति बहुधा वादिनस्तत्प्रचक्षते ॥ ६-३२ ॥

एकार्थमेव तत्सर्वं गुणस्तत्वाविरोधतः ।
नाममात्रेण कलहो नार्थं दृष्ट्वा कदाचन ।
प्रकृतिश्चापि पुरुषो यतस्तत्सृष्टिसम्भवौ ॥ ६-३३ ॥

कार्यकारणयोर्भेदः अभेदाख्यः प्रकीर्तितः ।
मृत्सुवर्णादिकानां च घटादेर्वलयस्य च ॥ ६-३४ ॥

भेदोऽथाभेद एव स्यात् तद्वदेतत्प्रकीर्त्यते ॥ ६-३५ ॥

तदज्ञानस्य शक्ती द्वे विक्षेपावरणात्मिके ।
ब्रह्मावृणोति सहसा शक्त्यावरणसञ्ज्ञया ॥ ६-३६ ॥

यथाच्छादयति स्वल्पो मेघो भानुं सहस्रगुम् ।
तथाच्छादयते मिथ्या ब्रह्मानन्तमखण्डकम् ॥ ६-३७ ॥

अनावृतोऽपि पूर्णात्मा निःसङ्गो निर्विकल्पकः ।
तद्वासनानुवशगस्तिभितात्मा चिदक्षरः ॥ ६-३८ ॥

अथ विक्षेपशक्तिः सा यथा बहिरिवान्तरे ।
दर्शयामास विततं प्रपञ्चं सकुतूहलम् ॥ ६-३९ ॥

ददर्शासौ तदात्मानं नारायणमिति स्थितम् ।
वेदानां वेदमार्गाणां लोकानां च परायणम् ॥ ६-४० ॥

नारायणेन रूपेण स्वयं पश्यति चाक्षरः ।
स [स वेदात्मा परो देवो स्यामित्यमन्यत इत्यपि पाठः ।] वेदात्मोप देवोऽपि बहु स्यामित्यमन्यत ।
अहङ्कारस्ततो जातो विकुर्वन्समभूत्त्रिधा ॥ ६-४१ ॥

सात्विको राजसश्चैव तामसश्चेति वै त्रिधा ।
तामसादप्यहङ्काराज्जडमासीन्नभः प्रिये ॥ ६-४२ ॥

तस्य शब्दो गुणश्चासीदेक एव सुलोचने ।
सत्वानुविद्धान्नभसो जातं श्रोत्रमथेन्द्रियम् ।
शब्दस्तु विषयस्तस्य सात्विकी दिक् च देवता ॥ ६-४३ ॥

रजो गुणप्रधानात्तु वागासीद्वचनग्रहा ।
अग्निस्तत्राभवद्देवः सात्विकः सुरवन्दिते ॥ ६-४४ ॥

यथाकाशादभूद्वायुः शब्दस्पर्शौ च तद्गुणौ ।
सत्त्वानुविद्धात्पवनात् त्वगासीदिन्द्रिय प्रिये ॥ ६-४५ ॥

रजोनुविद्धात्पवनादासीत्पाणीन्द्रियं प्रिये ।
आदानं तस्य विषये इन्द्रस्तस्याधिदेवता ॥ ६-४६ ॥

अथ वायोरभूदग्निः शब्दस्पर्शस्वरूपवान् ।
तेजसः सत्वविद्धाद्वे चक्षू रूपग्रहं सति ॥ ६-४७ ॥

रजोगुणप्रधानात्तु पादेन्द्रियमभूत्प्रिये ।
उपेन्द्रः सात्विको देवो गमनं विषयो भवेत् ॥ ६-४८ ॥

आपस्तेजःसमुद्भूता रसाधिकगुणास्त्रयः ।
सत्त्वानुविद्धात्सलिलाद्रसनं तद्रसग्रहम् ॥ ६-४९ ॥

वरुणः सात्विको देवो बभूव सुरवन्दिते ।
रजःप्रधानात्सलिलात् पाय्वासीच्च विसर्गकृत् ॥ ६-५० ॥

यमोधिदेवता तत्र सात्विकः सम्बभूव ह ।
अद्भ्योऽभवद्वसुमती शब्दादिगुणपञ्चका ।
पृथिव्याः सत्वविद्धायाः घ्राणं गन्धग्रहं शिवे ॥ ६-५१ ॥

नासत्यौ देवता तत्र सात्विकी सम्बभूव हा ।
रजोनुविद्धया चासीदिन्द्रियं गुह्यसञ्ज्ञकम् ॥ ६-५२ ॥

आनन्दानुभवस्तेन जायते सुरवन्दिते ।
देवः प्रजापतिस्तत्र सात्विकः परिकीर्तितः ॥ ६-५३ ॥

रजःप्रधानभूतेभ्यो मिलितेभ्यः सुरेश्वरि ।
क्रियाशक्त्यात्मकं प्राणपञ्चकं जायते शिवे ॥ ६-५४ ॥

सत्वप्रधानभूतेभ्यो मिलितेभ्यः सुरेश्वरि ।
ज्ञानशक्तिप्रधानं तु ह्यन्तःकरणमुच्यते ॥ ६-५५ ॥

मनोबुद्धिरहङ्कारश्चित्तमित्यन्तरात्मकम् ।
त्वक् चक्षूरसनाघ्राणं श्रोत्रं ज्ञानेन्द्रियाणि च ॥ ६-५६ ॥

वाक् पाणिपादपायूपस्थानि कर्मेन्द्रियणि च ॥ ६-५७ ॥

दिक्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमित्रकाः ।
दशेन्द्रियाधिदेवाश्च मया ते परिकीर्तिताः ॥ ६-५८ ॥

पृथिव्यधिपतिर्ब्रह्मा विष्णुः सलिलनायकः ।
तेजसोऽधिपतिः शम्भुर्वायोरीश्वर एव च ॥ ६-५९ ॥

व्योम्नः सदाशिवः प्रोक्त इत्येता भूतदेवताः ।
दशेन्द्रियाणि बुद्धिश्च मनःप्राणादिपञ्चकम् ।
एतल्लिङ्गं समाख्यातं जीवोपाधिरिति स्फुटम् ॥ ६-६० ॥

विशेषं तत्र देवेशि ! वर्णयामि शृणुष्व तत् ।
प्राणादिपञ्चकं देवि ! कर्मेन्द्रियसमन्वितम् ॥ ६-६१ ॥

प्राणकोश इति ख्यातः क्षुत्पिपासादिधर्मवान् ।
मनोज्ञानेन्द्रियैर्युक्तं मनःकोश उदीरितः ॥ ६-६२ ॥

बुद्धिज्ञानेन्द्रियैर्युक्तो विज्ञानाख्यः प्रकीर्तितः ।
इदं कोशत्रयं देवि ! व्यष्ट्या लिङ्गमुदाहृतम् ॥ ६-६३ ॥

तत्राभासमयो जीवो याति चायाति सुन्दरि ! ।
जडं कोशत्रयं देवि ! ब्रह्माभासेन चेष्टते ॥ ६-६४ ॥

यथायस्कान्तसान्निध्ये यथा लोहं सुरेश्वरि ! ।
यज्जडं तदसद्देवि यत्सत्तत्सदिति प्रिये ! ॥ ६-६५ ॥

तस्मात्तच्चेतनं ब्रह्म सत्यमित्येव सुन्दरि ! ।
समुदायस्तु लिङ्गानां तत्राभासस्तु यः प्रिये ॥ ६-६६ ॥

हिरण्यगर्भं तं प्राहुः सूत्रात्मानं पुनस्तथा ॥ ६-६७ ॥

इति ते कथितं देवि ! यत्पृष्टोऽहं त्वया शुभे ।
समासेन महेशानि किं भूयः श्रोतुमिच्छसि ॥ ६-६८ ॥

इति श्रीनारदपाञ्चरात्रे माहेश्वरतन्त्रे उत्तरखण्डे (ज्ञानखण्डे) शिवोमासंवादे षष्ठं पटलम् ॥ ६-६ ॥