अथ पञ्चमं पटलम्
श्रीपार्वत्युवाच
भगवन् लोकनाथेश देव देवेश धूर्जटे ।
इयं कथा महापुण्या कथिता पापनाशिनी ॥ ५-१ ॥
यद्रामायै न च प्राह भगवन् प्राणवल्लभः ।
साक्षान्मुखेन देवेशाभिनयेन वदिष्यति ॥ ५-२ ॥
तत्तु तत्त्वं कथयसि साक्षादेव मम प्रभो ।
त्वमेव तादृशो देव दयालूर्नापरः प्रभो ॥ ५-३ ॥
तत्तत्वज्ञानसामर्थ्याद्भोगाः सर्वेवधीरिताः ।
दिग्वासा जटिलो नन्दी चरस्येकोऽपि पण्डितः ॥ ५-४ ॥
त्वं गुरुः सर्वलोकस्य तत्वमार्गोपदेशकः ।
न त्वया सदृशः कश्चित् तत्वज्ञानानुभूतिमान् ॥ ५-५ ॥
अर्द्धाङ्गदानतो जाने तव प्राणाधिकास्म्यहम् ।
अतो वदसि भो नाथ तत्वं गुह्यतमं च यत् ॥ ५-६ ॥
न तच्चित्रं त्वयि विभो कृपासिन्धौ महेश्वरे ।
अतस्त्वां प्रष्टुमिच्छामि सन्दिहाना महेश्वर ॥ ५-७ ॥
यत्त्वयोक्तं पुरा मोहो जगत्कारणरूपकः ।
यथा बीजादुद्भवन्ति पत्रपुष्पफलादयः ॥ ५-८ ॥
एवं मोहात्समुद्भूतं सदेवासुरमानुषम् ।
अज्ञानप्रभवो मोहो मोहाज्जातं चराचरम् ॥ ५-९ ॥
स्रजं शुक्तिं समावृत्य यथाज्ञानं स्वशक्तितः ।
अहिं च रजतं चैव यथा दर्शयते स्फुटम् ॥ ५-१० ॥
तथाक्षरं परं ब्रह्म ह्यज्ञानं मोहकारणम् ।
समावृत्यात्मशक्त्यैव विश्वं सृजति शङ्कर ! ॥ ५-११ ॥
इत्युक्त यत्त्वया देव तत्र मे संशयो महान् ।
अक्षरं यत्त्वया प्रोक्तं निष्प्रपञ्च निरामयम् ॥
निर्दोषं निर्मलं शुद्धं निरीहं सङ्गवर्जितम् ॥ ५-१२ ॥
स्वप्रकाशं गुणातीतं ज्ञानरूपं समं शिवम् ।
निर्विकारं सदाभान्तं सदसद्भावतः परम् ॥ ५-१३ ॥
तस्मिन्नज्ञानसंसर्गः को वा वक्तु समीहिते ।
कथमज्ञानजो मोहस्तस्मिन् ज्ञानात्मनीश्वरे ॥ ५-१४ ॥
स्वप्रकाशे यदज्ञानमावृत्तिं कुरुते यदि ।
तमसापि कथं सूर्यो नाव्रियेत् मनागपि ॥ ५-१५ ॥
कथं वा मोहनाशेऽपि कैवल्यमवशिष्यते ।
असत्य सत्यवद्भाति संशयोऽत्र महान्मम् ।
छेत्तुमर्हसि देवेश ! तत्वज्ञानासिना प्रभो ! ॥ ५-१६ ॥
शिव उवाच
शृणु सुन्दरि यत्नेन रहस्यं परमाद्भुतम् ।
तव स्नेहवशाद्वच्मि प्रेम्णाह प्रार्थितस्त्वया ॥ ५-१७ ॥
न वाच्यं यस्य कस्यापि मातृजारसमं रहः ।
गोपयेत्सर्वतो भद्रे विवदेन्न कथञ्चन ॥ ५-१८ ॥
न वादितर्कविषयं परं ब्रह्मसनातनम् ।
तर्कैककर्कशधियो वादिनो मूढबुद्धयः ॥ ५-१९ ॥
सूर्यस्यावरणे शक्तं तिमिरं न कथञ्चन ।
स्वप्रकाशे तथाज्ञानं कदाचित्प्रभवेन्नहि ॥ ५-२० ॥
इति प्रामाणिकैस्तर्कैर्विरुद्धमिव भासते ।
मोहसृष्टिसमुद्भूता ये प्रमाणविदो जनाः ॥ ५-२१ ॥
कथं ते वेदितुं शक्ताः प्रमाणैरपि पण्डिताः ।
यथा स्वप्नजनो देवि ! स्वप्नदृष्टारमेकलम् ॥ ५-२२ ॥
न जानाति तथा देवि ! प्रमाणान्यपि कृत्स्नशः ।
परे ब्रह्मण्यक्षरेऽस्मिन् आज्ञानावेशमाहितम् ॥ ५-२३ ॥
तस्माद्युक्तिर्न कर्त्तव्या श्रुतिभिर्या विरुध्यते ।
अनुकूला श्रुतिगिरां युक्तिः सा विदुषां मता ॥ ५-२४ ॥
यथा न सत्यादनृतात्केवलाद् व्यावहारिकम् ।
तथा सत्यानृताभ्यां तु व्यवहारः प्रवर्त्तितः ॥ ५-२५ ॥
अनृतं तु तदज्ञानं सत्य ब्रह्मैव केवलम् ।
न तुषादङ्कुरोत्पत्तिः केवलात्तण्डुलादपि ॥ ५-२६ ॥
तुषतण्डुलयोगेन जायतेऽङ्कुरविस्तृतिः ।
ब्रह्मण्यज्ञानयोगेन जायते विश्वसम्भवः ॥ ५-२७ ॥
तस्मान्न संशयः कार्यो ब्रह्मण्यज्ञानसम्भवे ।
नापनेया मतिस्तर्कैर्भावा ये [भावा तच्चाप्यलौकिकः इति पाठः ।] चाप्यलौकिकाः ॥ ५-२८ ॥
न तांस्तर्केण युञ्जीतेत्याहुश्चोपनिषद्गिरः ।
ब्रह्मण्यज्ञानसद्भावो लोकसिद्धो न विद्यते ॥ ५-२९ ॥
विद्यते वेदसिद्धोऽयं तस्माद्वेदः प्रमाणकम् ।
अलौकिकं न सिध्येत विरुद्ध यच्छ्रुतेः सह ॥ ५-३० ॥
अपरोक्षं लौकिकं च परोक्षं चाप्यलौकिकम् ।
कथं सिध्येदप्रमाणं परोक्षं लौकिकोक्तिभिः ॥ ५-३१ ॥
प्रमाणराजो यद्यादक् निरूपयति केवलम् ।
तत्तादृगेव मन्तव्यमन्यथा स बहिर्मुखः ॥ ५-३२ ॥
अलौकिकं लौकिकं च तस्यैतदुभय गतम् ।
स चाण्डालमयीं योनिं प्रविशेत्तद्बहिर्मुखः ॥ ५-३३ ॥
ब्रह्मक्षत्रियविट्शूद्राश्चैते वेदानुवर्तिनः ।
वेदैस्त्यक्तास्त्यजन्तस्ते यान्ति नीचपरम्पराम् ॥ ५-३४ ॥
प्रत्यक्षं चानुमानं च शब्दः सादृश्यमेव च ।
चत्वार्येतानि देवेशि ! प्रमाणानि न संशयः ॥ ५-३५ ॥
प्रत्यक्षं लौकिके सिद्धं न चैवालौकिके हि तत् ।
पर्वतो वह्निमान् धूमादित्येवमनुमीयते ॥ ५-३६ ॥
ब्रह्म केनात्र संसाध्यं सदसत्परमव्ययम् ।
तस्माद्ब्रह्मण्यनुमितिर्न सिध्येत कदाचन ॥ ५-३७ ॥
सादृशाभावतो लोके सादृश्यं नापि सिध्यति ।
अनादिः शब्दब्रह्माख्यो ब्रह्मवक्तीह यादृशम् ।
तादृशं तद्विजीनायात् पाखण्डी चान्यथा हि सः ॥ ५-३८ ॥
ब्रह्माभासमया जीवा ब्रह्मैवेति विनिश्चयः ।
अहं मनुष्य इत्याद्या अहं बुद्धिर्हिदेहिनाम् ॥ ५-३९ ॥
आत्मत्वेनैव गृह्णाति देहं चैनमचेतनम् ।
विपरीतमिदं भद्रे सन्दिग्धमिदमेव हि ॥ ५-४० ॥
अलौकिकं हि सन्दिग्धं वेदेनैव निवर्त्तते ।
न निश्चयं विना क्वापि मुक्तिर्भवति शाश्वती ॥ ५-४१ ॥
तस्माद्वेदान्तवाक्यैश्च सहायैः सर्वतोधिकैः ।
विचारयेत् परं ब्रह्म स्वात्मानं लभते हि सः ॥ ५-४२ ॥
शब्दातीतं परं ब्रह्म शब्दगोचरमित्यपि ।
तथाप्यनादिशब्दैस्तत् ज्ञायते नान्यथा प्रिये ॥ ५-४३ ॥
प्रमाणराजो निगमादनुभूतिर्गरीयसी ।
तथाप्यनुभवी साक्षात् शब्दैरेवोपदिश्यति ॥ ५-४४ ॥
गुरूक्तं चापि वेदोक्तमेकार्थं यदि भासते ।
तदा कृतार्थः पुरुषो मुक्तो भवति संशयात् ॥ ५-४५ ॥
निवृत्ते संशये देवि जाते स्वानुभवोदये ।
ब्रह्माण्यज्ञानमित्येषः सन्देहो नाशमेष्यति ॥ ५-४६ ॥
यदि युक्त्या प्रमाणैश्च विरुद्धं श्रुतिसम्मतम् ।
नायं विरुद्धो विदुषाम् अनुभूतिमतामपि ॥ ५-४७ ॥
जाग्रत्येतत्प्रतीयेत स्वप्ने तत्प्रातिभासिकम् ।
सुषुप्तौ तन्निरासेऽपि मूलाज्ञानं हि तिष्ठति ॥ ५-४८ ॥
आभासस्तदवच्छिन्नो जीवत्वेन प्रतीयते ।
आभासो ज्ञानरूपो हि बहिरन्तःप्रकाशकः ॥ ५-४९ ॥
तदज्ञानं तु देहादिरूपैः परिणतं प्रिये ।
तत्र व्याप्तश्चिदाभास एवं स्याद्व्यावहारिकम् ॥ ५-५० ॥
मूलाज्ञानमिदं देवि यदात्मनि च धिष्ठितम् ।
तन्निरासं विना देवि जीवा आभासरूपिणः ॥ ५-५१ ॥
न मुच्यन्ते कदाचिद्वा कथञ्चिद्वा सुरेश्वरि ।
व्रतोपवासनियमैस्तपोभिर्विविधैरपि ॥ ५-५२ ॥
स्वाध्यायाध्ययनैर्दानैस्तीर्थैर्वा चान्यसाधनैः ।
ब्रह्मचर्यवानप्रस्थसन्नायासाचरणैरपि ।
अगाधाज्ञानपाथोधौ दुरन्ते पारवर्जिते ॥ ५-५३ ॥
उन्मज्जन्ते निमज्जन्ते देवत्वजडतादिभिः ।
नैव पारं गताः केचिन्नैव यास्यन्ति केचन ॥ ५-५४ ॥
अहोऽत्र परमानन्दः पुरुषोत्तम ईश्वरः ।
यानीक्षतेनुग्रहदृशा ते यास्यन्ति गिरीन्द्रजे ॥ ५-५५ ॥
अस्मिन्नज्ञानपथोधौ वयं ब्रह्मादयोऽपि च ।
बुद्बुदाकारतां प्राप्तास्तदिच्छावायुजृम्भिताः ॥ ५-५६ ॥
वायूपशमने देवि बुद्बुदा नीरतां गताः ।
तथा यास्यति ब्रह्माण्डमस्माभिरविशेषितम् ॥ ५-५७ ॥
अप्रबोधो यथा स्वप्ने चित्रं सृजति कौतुकम् ।
तथैवात्माऽप्रबोधेन जातं सर्वं चराचरम् ॥ ५-५८ ॥
प्रबोधाद्विलयं याति परं ब्रह्मावशिष्यते ।
स्रजि सर्पलये यद्वत् स्रगेव परिशिष्यते ॥ ५-५९ ॥
अध्यारोपापवादेन परं ब्रह्मैव शिष्यते ।
इति ते सर्वमाख्यातं यत्पृष्टोऽहं त्वया प्रिये ॥ ५-६० ॥
समासेन महेशानि किं भूयः श्रोतुमिच्छसि ? ।
इति श्रीनारदपाञ्चरात्रे माहेश्वरतन्त्रे उत्तरखण्डे (ज्ञानखण्डे) शिवोमासंवादे पञ्चमं पटलम् ॥ ५-५ ॥