०४

अथ चतुर्थ पटलम्

शिव उवाच

अथ तेषां वचः श्रुत्वा देवानामतिविक्लवम् ।
प्रहसन्वाचमकिरत् देवानां हृदयङ्गमाम् ॥ ४-१ ॥

विष्णुरुवाच

भो महेश विधे ब्रह्मन् शक्राद्याः शृणुतामराः ।
मम प्राणप्रिया देवी रमा देवी तपस्विनी ॥ ४-२ ॥

कलहान्तरिता जाता केतुमाले तपस्यति ।
तेनोग्रतपसा विश्वं परितप्तं समन्ततः ॥ ४-३ ॥

न सा सन्तोषमायाति स्वनिश्चितमृते सुराः ।
स्त्रीणां जातिस्वभावोऽयं कार्कश्यमविवेकिता ॥ ४-४ ॥

अशौचं निर्दयत्वं च निर्बन्धः साहसं तथा ।
लोभानृतं च कपटं मूर्खत्वमपदे च रुत् ॥ ४-५ ॥

नष्टं कुलं कुतनयात् नष्टं राज्यं कुमन्त्रिणा ।
ब्राह्मणः शूद्रसेवाभिरनभ्यासात्सरस्वती ॥ ४-६ ॥

निद्रया नष्टमायुष्यं [अत्र आयुरेवायुष्यम् नत्वायुषे हितमायुष्यम् ।] अनुद्योगात्समृद्धयः ।
गुणा लोभैर्धनं पापैः सुखं नष्टं कुभार्यया ॥ ४-७ ॥

यत्रानुकूल्यं दम्पत्योस्त्रिवर्गस्तत्र वर्द्धते ।
प्रातिकूल्येन नश्येत ग्रीष्मे बीजाङ्कुरा इव ॥ ४-८ ॥

देवी निर्बन्धमापन्ना विरमेन्न कथञ्चन ।
जगतामसुखं भूरि प्रवृत्तं तन्निवर्तते ॥ ४-९ ॥

प्रतिक्रियां करिष्यामि यात यूयं मुदान्विताः ।
इति देवा वचः श्रुत्वा परिक्रम्य जनार्दनम् ॥ ४-१० ॥

प्रणम्य पुनरायाताः स्वं स्वं धाम प्रहर्षिताः ।
ब्रह्मा विष्णुश्च ईशश्च केतुमालं गतास्तथा ॥ ४-११ ॥

यत्र सा निश्चलवपुः पदाङ्गुष्ठेन संस्थिता ।
ऊर्ध्वदृष्टिर्निरुद्धान्तःपवना सा मनस्विनी ॥ ४-१२ ॥

स्वभालशिखिविद्योतज्ज्वालाभिर्ग्रसतीव हि ।
ब्रह्माण्डं कवलाकारं कल्पान्तेग्निशिखा यथा ॥ ४-१३ ॥

दृष्ट्वा तां च तथाभूतां त्रयो ब्रह्मादिका वयम् ।
परमं विस्मयं जग्मुर्देव्याश्चरितमद्भुतम् ॥ ४-१४ ॥

ततस्तन्निकटं गत्वा हरिः प्राह हसन्निव !
रमे प्राणप्रिये देवि वृथा किं परितप्यसे ॥ ४-१५ ॥

निवृत्तिमेहि तपसो वृथायासफलादिह ।
बह्वायासं चाल्पफलं न कर्माञ्चरणं सताम् ॥ ४-१६ ॥

ध्यानानन्दरसे लीनं तन्मनोवतरत् क्षणात् ।
एवमुक्ते तु हरिणा प्रियां सान्त्वयता भृशम् ॥ ४-१७ ॥

ददर्श प्रियमङ्कस्थं घनश्यामं चतुर्भुजम् ।
विरञ्चीशानसहितं वनमालाविभूषितम् ॥ ४-१८ ॥

ननाम दण्डवद्भूमौ कृताञ्जलिपुटा रमा ।
नोवाच वचनं किञ्चित् नोत्थितापि पुना रमा ॥ ४-१९ ॥

हरिस्तत्प्रेम परमं स्वस्मिन् वीक्ष्य सुविस्मितः ।
प्राह देवीं हरिः प्रीत्या शृण्वतो विधिरुद्रयोः ॥ ४-२० ॥

विष्णुरुवाच

अहो धन्यासि धन्यासि कमले लोकवन्दिते ।
आत्मनोर्धं स्त्रियः साध्व्यः पुंसो धर्मपरायणाः ॥ ४-२१ ॥

स्त्रीसाहाय्येन जेतव्या लोका धर्मपरायणैः ।
अपत्नीकस्य ते सर्वे भवन्ति विफला यतः ॥ ४-२२ ॥

स्त्रीमूलं सर्वधर्माणां तदभावात्कुतश्च ते ।
तैर्विना न भवन्त्येव लोका ज्ञानमथापि वा ॥ ४-२३ ॥

धिक् जीवितं स्त्री रहितस्य लोके जुगुप्सितं धर्मविदां समाजे ।
देवामुनीन्द्रातिथयोऽपि यस्य गृहाण्युपेक्षन्त इवाधनं जनाः ॥ ४-२४ ॥

किं धनैर्विभवाकल्पैर्विभवैः किं सुखच्युतैः ।
किं सुखं यस्य नो वेश्मन्युदारा धर्मचारिणी ॥ ४-२५ ॥

दुःशीलं दुर्नयं दुष्टं दरिद्रं जरया प्लुतम् ।
पतिं पुष्णाति कुलजा तस्मात्स्त्री तु गरीयसी ॥ ४-२६ ॥

न मित्रं स्त्रीसमं मन्ये न बन्धुं न सहोदरम् ।
यतस्ते पृथगालोच्याः स्त्री तु नैव कदाचन ॥ ४-२७ ॥

सुखे वा यदि वा दुःखे जीविते मरणेऽपि वा ।
न मित्रं स्त्रीसमं क्वापि सत्यं सत्यं प्रियंवदे ॥ ४-२८ ॥

तस्मात्त्वं तु विशेषेण स्त्रीरत्नं मम रोचसे ।
मूर्धन्या पतिदेवानां यतस्त्वं परिगीयसे ॥ ४-२९ ॥

स्त्रीणामपि परो धर्मः पतिशुश्रूषणं च यत् ।
कायेन मनसा वाचा ततोऽन्यन्नास्ति किञ्चन ॥ ४-३० ॥

या स्त्रीपतिव्रता लोके पतिधर्मपरायणा ।
तदुक्तमेव कुर्वाणा सुखमक्षयमश्नुते ॥ ४-३१ ॥

तस्मादहं ते तपसा परितुष्टोऽस्मि साम्प्रतम् ।
उत्तिष्ठोत्तिष्ठ भद्रं ते तपसो लोकदःखदात् ॥ ४-३२ ॥

व्यतीयुः सप्तकल्पास्ते साधिकाः कोमलां तनुम् ।
ग्लपयन्त्या ह्यनुदिनं नोचितस्ते वृथा श्रमः ॥ ४-३३ ॥

पुष्पशय्यासु रुचिरं वपुस्ते परिखिद्यते ।
सा कथं चण्डतिग्मांशु सहते तापवर्षिणम् ॥ ४-३४ ॥

शीतोष्णवातवर्षाभ्यां परिक्लिष्टा वपुर्लता ।
वेणीभूता मूर्धजास्ते मनो मे खेदयन्ति च ॥ ४-३५ ॥

मन्दास्मितप्रभोदारं मुखं बिम्बाधरं तव ।
हिमक्लिष्टं न चाभाति हेमन्तकमलं यथा ॥ ४-३६ ॥

चण्डतिग्मांशुतापेन कपोलौ श्यामलौ तव ।
मुक्तादामश्रिया हीनौ न शोभा ते (शोभेते) यथा पुरा ॥ ४-३७ ॥

अनञ्जनं च नयनं भालं काश्मीरवञ्चितम् ।
मुखं ताम्बूलरहितं वीक्षतः कस्य ते सुखम् ॥ ४-३८ ॥

मा शोषय वपू रम्यं तपसा दुर्द्धरेण वै ।
मूर्ध्ना प्रणम्य ते पादं प्रार्थयामि पुनः पुनः ॥ ४-३९ ॥

किं ध्यायसि रह इति यत्प्रष्टं कमले त्वया ।
अवाच्यं तत्तु जानीहि अपि कल्पायुतायुतैः ॥ ४-४० ॥

तथापि कथयिष्यामि कृतस्ते तपसा ह्यहम् ।
साक्षान्न जिह्वया वाच्यं तत्तु देवि कथञ्चन ॥ ४-४१ ॥

तथापि कथयिष्यामि प्रकारं शृणु सुन्दरि ।
द्वापरान्तेऽष्टाविंशतिमे असुरा नृपरूपिणः ।
वेदमार्गविनाशाय यतिष्यन्ति दुराशयाः ॥ ४-४२ ॥

स्त्रीगोब्राह्मणसाधूनां धर्मिष्ठानां तपस्विनाम् ।
वर्णाश्रमाणां सेतूनां स्वस्वधर्मानुवर्त्तिनाम् ॥ ४-४३ ॥

करिष्यन्ति यदा पीडां तदाहं धर्मगुप्तये ।
वेदधर्मादिरक्षार्थं विनाशाय दुरात्मनाम् ॥ ४-४४ ॥

ययातिकुलजातस्य यदुराजस्य वेश्मनि ।
वासुदेवो भविष्यामि नाम्ना कृष्णेति विश्रुतः ॥ ४-४५ ॥

तत्रापि त्वं रुक्मिणीति भविष्यसि वराङ्गना ।
तत्र त्वां केचन नृपा असुरा ज्ञानदुर्बलाः ॥ ४-४६ ॥

आयास्यन्ते समुद्वोढुं जित्वा तान् समरे खलान् ।
उद्वहिष्यामि भवतीं मच्चितां नात्र संशयः ॥ ४-४७ ॥

तदा कुलाङ्गनाः पुत्रपतिवन्त्यः पतिव्रताः ।
गास्यन्ति मङ्गलार्थं तु मच्चरित्राणि सुन्दरि ॥ ४-४८ ॥

उपचारविधानेन तच्छ्रुत्वा हृदय मम ।
भविष्यति सुखापूर्णं यथाम्भोधिर्विधूदये ॥ ४-४९ ॥

ईदृक्तादृगितिगिरां न वक्तुं भवतीं क्षमम् ।
स्वयमेवानुभवति शर्कराक्षीरपानवत् ॥ ४-५० ॥

तत्सुखाम्भोनिधेर्देवि कणिकापि कथञ्चन ।
न ब्रह्मादिषु देवेषु वर्ततेन्यत्र का कथा ॥ ४-५१ ॥

नोपदिष्टं तु तद्वेति न शब्दैरुपदिश्यते ।
केवलानुभवाकारं वेत्येकोनुभवी सदा [प्रया वक्तुं न योग्यं यत् इति वा पाठः ।] ॥ ४-५२ ॥

अनुमानप्रमाणेन ह्यनुमेयं कथञ्चन ।
लक्षणैर्देव देवेशि नान्योपायैः कथञ्चन ॥ ४-५३ ॥

लक्षणानि तु ते वच्मि शृणु सुन्दरि यत्नतः ।
अन्तः सुखसमुद्वेल्लो बहिः सन्धानविस्मृतिः ॥ ४-५४ ॥

नेत्रयोरश्रु संवाहः कम्पः स्वेदोदयस्तथा ।
रोमाञ्चः कण्ठरोधश्च लक्षणानि च वै विदुः ॥ ४-५५ ॥

इत्येतैर्लक्षणैर्देवि मदन्तःकरणस्थितम् ।
[मया वक्तुं न योग्यं यत् इत्यपि पाठः ।] सुखमद्ध्यानयोग्यं यत्तज्जानिष्यसि केवलम् ॥ ४-५६ ॥

तावत्त्वं तं च समयं परिपालय वल्लभे ।
इत्येतत्ते समाख्यातं सर्वस्वं मे न संशयः ॥ ४-५७ ॥

श्रुतीनां चापि सर्वासां रहस्यं त्विदमेव हि ।
इदमेव परं ज्ञानमिदमेव परा क्रिया ॥ ४-५८ ॥

इदमेव परो योग इदमेव परो मखः ।
इदमेव परं ध्येयमिदमेव परा गतिः ॥ ४-५९ ॥

इदमेव परं ज्ञेयमिदमेव महाधनम् ।
इदमेवाखिला सम्पत् सत्यं सत्यं पतिव्रते ॥ ४-६० ॥

इत्येवं विष्णुना प्रोक्ता रमा देवी पतिव्रता ।
जहौ तापं च ग्रीष्मार्त्ता भूरिवाम्भोदतर्पिता ॥ ४-६१ ॥

विकसन्नयनाम्भोजा प्रमोदभरविह्वला ।
पपात पादयोर्भर्त्तुः दण्डवत् विमलाशया ॥ ४-६२ ॥

ब्रह्मणापि मया चापि संस्तुता बहुधा गिरा ।
तपसः फलमभ्येत्य कृतार्थास्मीत्यमन्यत ॥ ४-६३ ॥

मुमुचुः पुष्पवर्षाणि नेदुर्दुन्दुभयो दिवि ।
जगुर्गन्धर्वपतयो नतुतुश्चाप्सरोगणाः ॥ ४-६४ ॥

सप्तर्षयः समभ्येत्य तुष्टुवुस्तामनिदिन्ताम् ।
तापः शशाम जगतां सर्वत्रासीत् सुमङ्गलम् ॥ ४-६५ ॥

ववौ वायुः सुखस्पर्शो दिगासीद्विमलप्रभा ।
जलान्यासन्प्रसन्नानि जज्वलुर्वह्नयः शुभाः ॥ ४-६६ ॥

मनांस्यासन्प्रसन्नानि भूतानां नष्टचेतसाम् ।
इत्येवं मङ्गले जाते प्रसन्ना दिवि देवताः ।
पृथिव्यां मानवाः सर्वे पाताले पन्नगेश्वराः ॥ ४-६७ ॥

ब्रह्मलोकं गतो ब्रह्मा अहं कैलासमागतः ।
गृहीत्वा च करे लक्ष्मीं विष्णुः स्वनिलयं प्रति ॥ ४-६८ ॥

इत्येव ते मयाख्यातं त्वया पृष्टमनिन्दिते ।
तत्वज्ञानं न सुलभं तस्माद् गोप्यतमं प्रिये ॥ ४-६९ ॥

तत्वज्ञानाधिकारण्यो विरलाः सन्ति केचन ।
कालेन बहुना देवि तान् परीक्ष्य प्रकाशयेत् ॥ ४-७० ॥

स्नेहाल्लोभाद्भयाद्वापि योऽन्यस्मै वक्ति मूढधीः ।
नाऽसौ ज्ञानी भवेद्देवि उदरम्भरिरेव सः ॥ ४-७१ ॥

सहसवाससेवाभिस्ताडनैः परुषोक्तिभिः ।
यदा न याति कालुष्यं सोधिकारी मतो मम ॥ ४-७२ ॥

श्रुत्वा तत्वकथावाद वपू रोमाञ्चसङ्कुलम् ।
हर्षाश्रुव्याकुले नेत्रे सोऽधिकारी मतो मम ॥ ४-७३ ॥

परापवादविमुखो परस्त्रीधननिस्पृहः ।
अक्रोधी लोभनिर्मुक्तः शान्तः शास्त्रविचक्षणः ॥ ४-७४ ॥

वेदशास्त्रार्थतत्वज्ञः श्रद्धालुर्गतसाध्वसः ।
गुणरागी सदात्यागी विरागी बाह्यवस्तुषु ॥ ४-७५ ॥

पापभीतो भवेद्द्वेषो विषयादिष्वलोलुपः ।
अन्यैश्चापि शुभैर्देवि लक्षणैश्चापि लक्षितः ॥ ४-७६ ॥

अधिकारीति विज्ञेयस्तस्मै देयमिदं रहः ।
वेदगुह्यमिदं देवि ! नान्यथा तु प्रकाशयेत् ॥ ४-७७ ॥

प्रकाशयन्विमूढात्मा स भवेदापदां पदम् ।
न तस्य तत्वसंसिद्धिर्गुरोः शिष्यस्य चाप्यहो ॥ ४-७८ ॥

तत्वज्ञेनोपदिष्टा ये तत्वज्ञा एव सुन्दरि ।
अनर्हैरुपदिष्टा ये तेप्यनर्हा भवन्ति हि ॥ ४-७९ ॥

अनर्हैरुपदिष्टा ये येनर्हाश्च स्वयं शिवे [तेऽनर्हाः स्वयं शिवे इत्यपि पाठः] ।
उभयभ्रंशदोषेण ते यान्ति नरकं प्रिये ! ॥ ४-८० ॥

लोकभ्रंशः कर्मलोपात् अयोग्यत्वात् फलाग्रहः ।
तेषां तमः स्यादतुलं यावच्चन्द्रार्कतारकम् ॥ ४-८१ ॥

सुप्तं प्रबोधयेद् बुद्धो ह्यबुद्धस्तु च तं कथम् ।
पाषाणं तारयेत्तुम्बी न पाषाणः परस्परम् ॥ ४-८२ ॥

तस्मादेवं विनिश्चित्य सद्गुरोः शरणं गतः ।
आत्मानं मोहविभ्रान्तं तारयेत्स च बुद्धिमान् ॥ ४-८३ ॥

इत्येतन्मे समाख्यातं यत्पृष्टोऽहं त्वया प्रिये ! ।
समासेन महादेवि ! किमन्यत्प्रष्टुमिच्छसि ॥ ४-८४ ॥

इति श्रीनारदपाञ्चरात्रे माहेश्वरतन्त्रे उत्तरखण्डे (ज्ञानखण्डे) शिवोमासंवादे चतुर्थं पटलम् ॥ ४-४ ॥