अथ तृतीयं पटलम्
पार्वत्युवाच
भगवत् श्रोतुमिच्छामि परं कौतूहलं हि मे ।
रमया परया साध्व्या प्रार्थितोऽपि पुनः पुनः ॥ ३-१ ॥
नोक्तवान्परमं तत्वं तदर्थं तपसे गता ।
महाश्चर्यतमं देव तन्मे व्याख्यातुमर्हसि ॥ ३-२ ॥
शिव उवाच
शृणु सुन्दरि वक्ष्यामि तव स्नेहादशेषतः ।
अवाच्यमन्यथा देवि कोटिकल्पशतैरपि ॥ ३-३ ॥
प्रार्थितोऽपि यदा विष्णुर्नोक्तवान् स्वहृदि स्थितम् ।
श्रवणेच्छाविघातेन विरहाग्निविधूतया ॥ ३-४ ॥
कृतं महत्तपश्चोग्रं सर्वलोकोपतापनम् ।
केतुमालं (ले) समासाद्य कृत्वा नियममात्मना ॥ ३-५ ॥
साध्वी चकार प्रतिमां विष्णोः परमसुन्दराम् ।
तत्र पर्यचरत् प्रीत्या गर्हयन्ती स्वकं वपुः ॥ ३-६ ॥
स्नानेन त्रिषु कालेषु नियमेन दमेन च ।
भावशुद्धिं गता साध्वी स्थण्डिले शयने गता ॥ ३-७ ॥
शीतकाले जले मग्ना ग्रीष्मे पञ्चाग्निसेविनी ।
वर्षाष्वपि स्थलगता वृष्टिवातसहा स्थिता ॥ ३-८ ॥
स्त्रीत्वचाञ्चल्यमुत्सृज्य नानालङ्कारसम्पदम् ।
भूम्यामशेत सततं चिन्तयन्ती हरिं हृदि ॥ ३-९ ॥
स्वप्ने ददर्श सततं हरिं कमललोचनम् ।
तत्रापि प्रार्थयन्तीदं सोऽपि नेत्त्याह विक्लवम् ॥ ३-१० ॥
सुप्ता सोत्थाय तत्रैव पुनरुद्बोधमागता ।
एवं सा तन्मयीभूतहृदया विवशा भृशम् ॥ ३-११ ॥
आत्मानं गर्हयामास मनोरथमपश्यति ।
यदा मनोरथं नैवं प्राप्ता देवी तपस्विनी ।
तदैकपादेन भुवमाक्रम्यात्मनि निर्मला ॥ ३-१२ ॥
निधाय स्वामिनं चित्ते तस्मिन् चित्तं निधाय च ।
एकात्म्यं तु गता साध्वी तताप परमं तपः ॥ ३-१३ ॥
तच्छिखायाः समुद्भूतः सधूमोऽग्निः परिज्वलन् ।
तापयामास निखिलं ब्रह्माण्डं भयविह्वलम् ॥ ३-१४ ॥
देवासुरनरा नागा गन्धर्वाप्सरसस्तथा ।
पिशाचा गुह्यकाः सिद्धा विद्याध्राः खगचारणाः ॥ ३-१५ ॥
तपोमयेन ज्वलता वह्निना दुःसहेन च ।
व्यथिताः शोकसंविग्ना न सुखं लेभिरे क्वचित् ॥ ३-१६ ॥
ततश्चेन्द्रादयो देवा मरुतश्रोष्मपादयः ।
आदित्या वसवो रुद्रा ह्यश्विनौ पितरस्तथा ॥ ३-१७ ॥
ब्रह्माणं शरणं जग्मुः पितामहमनिन्दितम् ।
ददृशुः परमं देवं ब्रह्माणं परमासने ॥ ३-१८ ॥
प्राणायामेन युञ्जानं शुभ्रकूर्चं चतुर्मुखम् ।
सनकाद्यैः परिवृतं नारदाद्यैरुपासितम् ॥ ३-१९ ॥
मूर्तिमद्भिस्तथा वेदैः पृथक्सिंहासनस्थितैः ।
पुराणैः संहिताभिश्च विद्याभिः परिवेष्टितम् ॥ ३-२० ॥
विचारयन्तमात्मानं परमं तमसः परम् ।
पुण्योत्कर्षेण धर्मेण त्यागेन ज्ञानसम्पदा ॥ ३-२१ ॥
विमर्षेणात्मनश्चापि ब्रह्मचर्येण संयमैः ।
नियमैर्योगधर्मैश्च यत्र क्रीडन्ति सङ्गताः ॥ ३-२२ ॥
दृष्ट्वामरास्ते परमासने स्थितं ब्रह्माणमाद्यं पुरुषं पुरातनम् ।
प्रणेमुरानन्दजलाकुलेक्षणाः कृष्यत्वचो गद्गदयाब्रुवन् गिरः ॥ ३-२३ ॥
नमो नमस्ते जगदेककर्त्रे नमो नमस्ते जगदेकपात्रे ।
नमो नमस्ते जगदेकहर्त्रे रजस्तमःसत्वगुणाय भूम्ने ॥ ३-२४ ॥
अण्डं चतुर्विंशतितत्त्वजातं तस्मिन् भवानेष विरञ्चिनामा ।
जगच्छरण्यो जगदुद्वमन्स्वयं पितामहस्त्वं परिगीयसे बुधैः ॥ ३-२५ ॥
त्वं सर्वसाक्षी जगदन्तरात्मा हिरण्यगर्भो जगदेककर्त्ता ।
हर्त्ता तथा पालयितासि देव त्वत्तो न चान्यत्परमस्ति किञ्चित् ॥ ३-२६ ॥
त्वमादिदेवः पुरुषः पुराणः साक्षात् स्वयं ज्योतिरजः परेशः ।
त्वन्मायया मोहितचेतसो ये पश्यन्ति नानात्त्वमहो त्वयीशे ॥ ३-२७ ॥
त्वमाद्यः पुरुषः पूर्णस्त्वमनन्तो निराश्रयः ।
सृजसि त्वं च भूतानि भूतैरेवात्ममायया ॥ ३-२८ ॥
त्वया सृष्टमिदं विश्वं सचराचरमोजसा ।
कथं न पालयस्येतत् ज्वलदाकस्मिकाग्निना ॥ ३-२९ ॥
विनाशमेष्यति जगत् त्वया सृष्टमिदं प्रभो ।
न जानीमो वयं तत्र कारणं तद्विचिन्त्यताम् ॥ ३-३० ॥
कोऽयं वह्निरपूर्वोऽयमुत्थितः परितो ज्वलन् ।
तेनोद्विग्नमिदं विश्वं ससुरासुरमानवम् ॥ ३-३१ ॥
तस्य त्वं शमनोपायं विचारय महामते ।
न चेदद्य भविष्यन्ति लोका भस्मावशेषिताः ॥ ३-३२ ॥
इति तेषां च गृणतां देवानामातुरं वचः ।
विमृश्य ध्यानयोगेन तदिदं हृद्यवाप सः ॥ ३-३३ ॥
ततः प्रोवाच वचनममरांस्तु पितामहः ।
शृणुध्वममराः सर्वे वचनं मदुदाहृतम् ॥ ३-३४ ॥
तपस्यति रमा देवी साक्षात्पत्यावमानिता ।
किं त्वं ध्यायसि देवेश परं तत्त्वं भवत्परम् ॥ ३-
तद्वदस्वेति चाप्युक्तस्तथा नोवाच वै हरिः ॥ ३-३५ ॥
ततो निर्बन्धनिर्विण्णा रमा देवी रुषान्विता ।
केतुमालं समासाद्य तपो दारुणमाश्रिता ॥ ३-३६ ॥
सा तपो लोकभयदं दारुणं विष्णुवल्लभा ।
करोति तद्भालदेशादुत्थितोऽग्निस्तपोमयः ॥ ३-३७ ॥
तेन लोकाः सुसन्तप्ता दग्धप्राया विचेतसः ।
नाशमेष्यन्त्यसन्देहो यदि सा न तपस्त्यजेत् ॥ ३-३८ ॥
तस्माद्वैकुण्ठनिलयं हरेर्गत्वा दिवौकसः ।
विष्णुं प्रसादयिष्यामः सरुद्राः सर्व एव हि ॥ ३-३९ ॥
एवं निश्चित्य ते सर्वे मम धाम समाययुः ।
मामस्तुवन् गिरा माध्व्या प्रबद्धकरसम्पुटाः ॥ ३-४० ॥
मयापि सत्कृता देवि सेन्द्रा ब्रह्मपुरोगमाः ।
दृष्ट्या सम्भाव्य देवेशम् उपगुह्य पितामहम् ॥ ३-४१ ॥
नत्वा बृहस्पतिं देवि यथा योग्यं तथापरान् ।
निषीदध्वं निषीदध्वमित्युक्तास्ते मयामराः ॥ ३-४२ ॥
निषेदुर्म्लानवदनाः सज्वरास्ते दिवौकसः ।
अपि स्वित् कुशलं देवा भवतामनुवर्तते ॥ ३-४३ ॥
स्वागतं भो ! सुराः सर्वे यूयं मे चातिवल्लभाः ।
दृष्टो मदीयो लोकोऽयमदृष्टो मत्पराङ्मुखैः ॥ ३-४४ ॥
वनेषूपवनेष्वेव रमध्वमिह चेत्स्पृहा ।
शृण्वन्तु रुचिरालापान् शुकसारसपक्षिणाम् ॥ ३-४५ ॥
जिघ्रन्तु परमामोदमोहितानेकषट्पदान् ।
लतानामतिदिव्यानां सर्वर्तुकुसुमाकरान् ॥ ३-४६ ॥
महामरकतकॢप्तस्वर्णवेदिषु निर्भरम् ।
गङ्गानिलसुखस्पर्शाः परिक्रीडन्तु चामराः ॥ ३-४७ ॥
नदन् मत्तमरालासु सुधापूर्णासु नित्यशः ।
खेलन्तु सस्त्रियः सर्वे दीर्घिकासु गतक्लमाः ॥ ३-४८ ॥
यद्यद्वा मनसोऽभीष्टं तत्कुरुध्वमतन्द्रिताः ।
किमर्थमिह सम्प्राप्ता ब्रह्मोपेन्द्रपुरोगमाः ॥ ३-४९ ॥
निवेदयध्वं कर्त्तव्यं यदि चेदस्ति किञ्चन ।
इत्येवं ते मया प्रोक्ता मामवोचन् दिवौकसः ॥ ३-५० ॥
भगवन् करुन्णासिन्धो भक्तवत्सल धूर्जटे ।
त्वया सञ्चिन्त्यमानानां कुशलेषु च का कथा ॥ ३-५१ ॥
तदेवाकुशलं विद्मस्त्वत्पादस्मरणच्युतिः ।
जानीमः पूर्णमात्मानम् अद्य तेऽनुग्रहोदयात् ॥ ३-५२ ॥
किं ध्यायसि चिरं तात निरुध्य हृदये मनः ।
लब्धानन्द इवाभासि स्वयमात्माऽपि देहिनाम् ॥ ३-५३ ॥
एतदाचक्ष्व नो ब्रह्मन् प्रवक्तुं यदि मन्यसे ।
अहमाकर्ण्य वै तेषां वाचं परमशोभनाम् ।
मन आह्लादयन्नेषामवोचं परमोक्तिभिः ॥ ३-५४ ॥
शृणुध्वं त्रिदशाः सर्वे भवद्भिर्यदुदाहृतम् ।
किं ध्यायसि चिरं तात निरुध्य हृदये मनः ॥ ३-५५ ॥
लब्धानन्द इवाभासि स्वयमात्मापि देहिनाम् ।
तन्न वाच्यं मया देवा अपि कल्पायुतायुतैः ॥ ३-५६ ॥
न यान्ति योगिनो योगैर्न यज्ञैस्तप आदिभिः ।
न ज्ञानतीर्थवैराग्यैर्विना साधुनिषेवया ॥ ३-५७ ॥
मायामात्रमिदं विश्वं वस्तुतो नास्ति किञ्चन ।
भूरादिसप्तलोकाश्च कालेन कवलीकृताः ॥ ३-५८ ॥
विषयानन्दसन्तुष्टा लोकाः सर्वेऽपि देवताः ।
न प्राप्नुवन्ति कणिकां नित्यानन्दमहोदधेः ॥ ३-५९ ॥
वेदे कर्मप्रधानं हि ततः कर्ममयी गतिः ।
कर्मभिर्भ्राम्यमाणा ये तृणानीवाम्भसो रयैः ॥ ३-६० ॥
न ते विन्दन्ति तत्तत्वं कोटिकल्पशतैरपि ।
केचित्स्वर्गपरा लोके यजन्ते ज्ञानदुर्बलाः ॥ ३-६१ ॥
केचिदष्टाङ्गयोगेन निगृहीतधियः परे ।
वर्णाश्रमविधानेन तत्तदाचारशालिना ॥ ३-६२ ॥
केचित्पत्राशनरता वायुभक्षास्तथेतरे ।
केचिद्दिगम्बराः केचित् कृष्णरक्ताम्बराः परे ॥ ३-६३ ॥
केचिन्मुण्डितमुण्डाश्च फलमूलाशने रताः ।
केचिद्भस्मनि निष्णाता मोक्षमिच्छन्ति दुर्बलाः ॥ ३-६४ ॥
नैव ते मुक्तिमायान्ति विना तत्त्वावमर्षणात् ।
मायाम्भोधिरयं भाति ह्यसन्नपि सदात्मकः ॥ ३-६५ ॥
अनेककोटिब्रह्माण्डबुद्बुदाकुलितो भृशम् ।
तत्त्वोर्मिजालजटिलो वासनाजलगह्वरः ॥ ३-६६ ॥
पापपुण्यतटोन्नद्धो मोहपङ्कप्रपूरितः ।
सदसत्कर्मकमलकैरवानन्तमण्डलः ॥ ३-६७ ॥
अहन्ताशिशुमारेण निरन्तरमुपासितः ।
तृष्णाफेनौघबहुलः कामनातटपादपः ॥ ३-६८ ॥
कामक्रोधमहालोभगर्तपाषाणदुःखदः ।
परनिन्दापरद्रोहभुजङ्गमभयानकः ॥ ३-६९ ॥
श्रद्धोरुपद्मिनी यत्र अक्षयो मोहकल्पितः ।
विषयतृडभिक्लान्ताः पतन्त्यस्मिन्ननेकशः ॥ ३-७० ॥
दृष्ट्वारमत वै कश्चित् सरागं कमलाकरम् ।
सेव्यमानोऽपि नातृप्यत् षट्पाद इव लोलुपः ॥ ३-७१ ॥
अह्नः क्षयमजानन्वै लोभितात्माजितेन्द्रियः ।
मधुलिट् मधुलोभेन तत्रैव विलयं व्रजेत् ॥ ३-७२ ॥
यत्र हंसगणास्तूर्णमाघ्राय कमलाकरम् ।
अशाश्वतमिति ज्ञात्वा सुखं नीडेषु शेरते ॥ ३-७३ ॥
यत्र पङ्केषु निर्मग्ना सीदन्ती गौस्तृषातुरा ।
महात्मना समुद्धृत्य सुधासिन्धौ निवेशिता ॥ ३-७४ ॥
यत्र खेलन्ति बहुशो मातङ्गाश्च करेणुभिः ।
अतृप्यमानाः सततं कमलामोदलम्पटाः ॥ ३-७५ ॥
यत्र मत्स्यगणान् बालान् निघ्नन्ति बलवत्तया ।
मकरास्तानपि क्षिप्रं निगृह्णातीह जालिकः ॥ ३-७६ ॥
शिशुमारभयोद्विग्नाः पिपासामतिवाह्य ते ।
न पिबन्त्यपि पानीयं पद्मिनीछायमाश्रिताः ॥ ३-७७ ॥
यत्र पान्थो भुजङ्गेन परिदष्टोम्बुलालसः ।
चिकित्सकेन सुज्ञेन रसदानेन बोधितः ॥ ३-७८ ॥
यत्राभिमानिनी वेश्या सेव्यमानातिनिर्घृणैः ।
उपस्थिता पञ्चनटैर्नित्यसेवनतत्परैः ॥ ३-७९ ॥
पिपासबो नटान् यान्ति प्रापयन्ति नटीं हि तान् ।
ततः क्रीडन्ति वेगेन स्वच्छन्दं च तदाज्ञया ॥ ३-८० ॥
यदि सूर्यसहस्राणां प्रकाशपरमोज्ज्वलम् ।
उदेति ज्ञानविज्ञानं तदा शुष्यति नान्यथा ॥ ३-८१ ॥
उदिते तु परे ज्ञाने नाहं यूयं न किञ्चन ।
न यास्यन्ति परं तत्त्वं मदाद्या अपि देवताः ॥ ३-८२ ॥
किमुताल्पधियश्चान्ये स्वप्निका इव जाग्रतम् ।
यन्निर्बन्धसमाविष्टा प्राणेभ्योप्यति वल्लभा ॥ ३-८३ ॥
नोपदिष्टादूनचित्ता केतुमाले तपस्यति ।
तस्मान्मदानन्दमूलं नाहं वक्ष्ये कथञ्चन ॥ ३-८४ ॥
अन्यन्निवेद्यतां कृत्यं यदि योग्यं भवेन्मम ।
इत्युक्तास्तेमराः सर्वे वीक्ष्यमाणाः परस्परम् ॥ ३-८५ ॥
परं विस्मयमापन्नाः श्रुत्वा शङ्करभाषितम् ।
देवा ऊचुः
देवदेव महादेव जगतां ज्ञानदो गुरुः ॥ ३-८६ ॥
यदात्थ देव तत्सत्यं विष्णुपत्नी तपस्यति ।
तत्तपो वह्निना विश्वं परितप्तं समन्ततः ।
किमद्य करणीयं वै तच्च शम्भो विचार्यताम् ॥ ३-८७ ॥
शिव उवाच
रमा देवी जगच्छक्तिः प्रकृत्यंशमयी शिवा ।
विष्णोरानन्दलहरी यया भाति जगच्छिवम् ॥ ३-८८ ॥
सा तपश्चरते तीव्रं जगद्दाहकरं महत् ।
पतिव्रता पतिं त्यक्त्वा नान्यं चापि प्रभाषते ॥ ३-८९ ॥
न तस्मादन्यसंसाध्या विना स्वपतिमाधवम् ।
तस्माद्विष्णुं व्रजामोद्य सर्वैं चापि वयं सह ॥ ३-९० ॥
गत्वा निवेदयिष्यामो जगतामशिवं च यत् ।
दृष्ट्वास्मानपि मानार्हान् जगद्भङ्गमपीक्ष्य च ॥ ३-९१ ॥
निषेधयिष्यति रमां तपसोऽसौ दुरत्ययात् ।
इति मे वाचमाकर्ण्य देवाः सर्वे गतज्वराः ॥ ३-९२ ॥
अहं चापि च तैः सार्धं गतः प्रियनिकेतनम् ।
यत्र सर्वे घनश्यामाः पीतकौशेयवाससः ॥ ३-९३ ॥
किरीटिनः कुण्डलिनः शङ्खचक्रगदाधरः ।
तत्र गत्वा जगन्नाथः स्तुतो देवगणैरपि ॥ ३-९४ ॥
नमो मत्स्यकूर्मादिनानावतारैर्जगद्रक्षणायोद्यतायार्त्तिहर्त्रे ।
जगद्बन्धवे बन्धहर्त्रे च भर्त्रे जगद्विप्लवोपस्थितौ पालयित्रे ॥ ३-९५ ॥
यदा वेदपन्थास्त्वदीयः पुराणः प्रभज्येत पाखण्डचण्डोग्रवादैः ।
तदा देवदेवेश सत्त्वेन सत्त्वं वपुश्चारु निर्माय रक्षां विधत्से ॥ ३-९६ ॥
भूम्यम्बुतेजोनिलखात्मकं यत् ब्रह्माण्डमेतत्प्रविशन्निव त्वम् ।
चराचरं जीव इति प्रसिद्धिं गतोऽसि तस्मान्न भवत्परं यत् ॥ ३-९७ ॥
रक्षस्व नाथ लोकांस्त्वं तपसोग्रेण पद्मया ।
दह्यमानान् गतानन्दान् रक्षितासीश्वरो यतः ॥ ३-९८ ॥
निवर्त्तय परमां साध्वीं तव प्राणाधिकां प्रियाम् ।
न वै स्त्रियो विरोद्धव्या गृहमेधिभिरन्वहम् ॥ ३-९९ ॥
यद्गृहे स्त्री विरुद्धा स्याद्यदिवाप्यवमानिता ।
न तद्गृहे सुखं सम्पन्न चारोग्यं प्रजासुखम् ॥ ३-१०० ॥
कथं सुखेन वर्त्तेत विश्वमेतद्भवद्गृहम् ।
त्वयि विरोधमापन्ने गृहिण्या समशीलया ॥ ३-१०१ ॥
तस्माद्विश्वस्य रक्षार्थं सावधानो भव प्रभो ।
इत्यावेद्यामराः सर्वे प्रणम्य जगतां पतिम् ॥ ३-१०२ ॥
बद्धाञ्जलिपुटास्तूष्णीमासन् म्लानमुखाम्बुजाः ॥ ३-१०३ ॥
इति श्रीपञ्चरात्रे माहेश्वरतन्त्रे उत्तरखण्डे शिवपार्वतीसंवादे तृतीयं पटलम् ॥ ३-३ ॥