०२

अथ द्वितीयं पटलम्

श्रीपार्वत्युवाच

भगवन् देव देवेश लोकनाथ जगत्प्रभो ।
धन्यास्म्यनुगृहीतास्मि सकलं जीवितं मम ॥ २-१ ॥

वाक्यपीयूषवर्षेण शीतलीकृतमानसा ।
न जानामि परं श्रेयस्तत्वज्ञानकथादृते ॥ २-२ ॥

किमायुषा च दीर्घेण पाषाणस्येव दुर्मतेः ।
क्षणं वै यस्य नो लग्नं चेतो वा तत्त्वचिन्तने ॥ २-३ ॥

यज्ञदानतपस्तीर्थव्रतानि नियमा यमाः ।
न तुलामभिगच्छन्ति स्वात्मतत्वैकचिन्तया ॥ २-४ ॥

आत्मतत्वैकशुद्ध्यर्था (र्थं) यज्ञादीनामनुष्ठितिः ।
शुद्धे मनसि तत्वस्य स्फुरण भवति प्रिय ॥ २-५ ॥

तदेव यदि वा लब्धमनायासेन कुत्रचित् ।
दैवाद्वा गुरुतोषाद्वा साधनैर्वापि शङ्कर ॥ २-६ ॥

किन्नु तस्यावशिष्टं वा साधनं स्वात्मदं परम् ।
तस्मान्महत्तरमिदं सर्वतस्तत्वचिन्तनम् ॥ २-७ ॥

श्रुतं मया महेशान पुनर्ब्रूंहि यथातथम् ।
प्रष्टव्यं बहुधा भाति तथाप्येकं वदेश्वर ॥ २-८ ॥

क्रमयोगेन तच्चापि पुनः पृच्छे कृपानिधे ।
पद्मायै हरिणा नोक्तं यद्रहस्यं महाद्भुतम् ।
तदत्र संशयो जातो तद्भवान् छेत्तुमर्हति ॥ २-९ ॥

या लक्ष्मीः परमा शक्तिः नित्यं तत्सहचारिणी ।
तत्प्राणवल्लभा साध्वी किं तया पृष्ठमुत्तमम् ॥ २-१० ॥

किं रहस्यं किमध्यात्म्यं यन्नोक्तं हरिणा स्वयम् ।
तदत्र ब्रूहि भगवन् प्रवक्तुं यदि मन्यसे ॥ २-११ ॥

न मे त्वत्तः परं किञ्चित् प्राणादप्यधिको भवान् ।
तथाप्यहं तवैवास्मि यन्मेर्द्धं वपुराहितम् ॥ २-१२ ॥

न त्वया तद्रहः कार्यं तेन गुप्तमिति प्रभो ।
इत्युक्त्वा शिवपादाब्जप्रणताभूत्पुनः पुनः ॥ २-१३ ॥

शिव उवाच

अहो धन्यासि धन्यासि धन्यासि भुवनत्रये ।
न त्वया सदृशीं पश्येत्प्रेयसीं प्राणवल्लभाम् ॥ २-१४ ॥

त्वद्वागमृततृप्तोऽहं प्रजल्पामि शृणुष्व तत् ।
एकदा खलु वैकुण्ठे विष्णुरेकान्तसंस्थितः ॥ २-१५ ॥

सन्नियम्येन्द्रियगणं मनसा बुद्धिसारथिः ।
किञ्चिद्दध्यौ महातेजाः प्रमोदभरनिर्वृतः ॥ २-१६ ॥

गलद्वाष्पाम्बुपूर्णाक्षः पुलकाङ्कितविग्रहः ।
स्तिमितोद इवाम्भोधिः स्मृत्वा लीलारसाम्बुधिम् ॥ २-१७ ॥

प्राणेन्द्रियमनश्चेष्टा निमग्ना ध्यानवर्त्मनि ।
अन्तःप्रमोदभरितो बहिः सम्वेदनाक्षमः ॥ २-१८ ॥

केवलेन शरीरेण स्थित इत्यद्भुतं च यत् ।
क्रीडन्ती सखिभिः सार्द्धं तत्राभूद्भार्गवी हि सा ॥ २-१९ ॥

ध्यानवर्त्मनि संलीनप्राणेन्द्रियमनोमतिम् ।
प्रध्वस्तबाह्यविज्ञानं दृष्ट्वा विस्मितमानसा ॥ २-२० ॥

कोऽसौ त्रिलोकगुरुणा ध्यायते स्थिरचेतसा ।
न चास्मादपरं लोके ध्येयं पश्यामि किञ्चन ॥ २-२१ ॥

ब्रह्मणो वापि रुद्रस्य कारणं दैवतं च यः ।
यस्यावतारचरितं गायन्ते नारदादयः ॥ २-२२ ॥

यत्पदं प्राप्तुमिच्छन्तो वानप्रस्थं यतिव्रतम् ।
चरन्ति ब्राह्मणाः शुद्धा धृतविद्यातपोवृताः ॥ २-२३ ॥

न यत्समोऽन्यो लोकेऽस्मिन् ह्यधिकस्तु कुतो भवेत् ।
यदुन्मेषाज्जगज्जातं यन्निमेषात्प्रलीयते ॥ २-२४ ॥

यस्मिन् चित्तं समाधाय योगिनो ज्ञाननिर्मलम् ।
अविद्यां हृदयग्रन्थिमुन्मुञ्चन्ति गतक्लमाः ॥ २-२५ ॥

यस्य चेतस्ययं देवो वर्त्ततेऽसौ कृतार्थकः ।
सोऽयं हरिः परानन्दः कस्मिंश्चित्तं दधात्यहो ॥ २-२६ ॥

इत्येव सन्दिहाना सा सखीनां पुरतः स्थिता ।
सस्मितं जगदे सख्या कयाचित्परया मुदा ॥ २-२७ ॥

सख्युवाच

अयं त्रिलोकेशगुरुः कमन्यं ध्यातुमर्हति ।
देवासुरनरा नागा गन्धर्वाप्सरसां गणाः ॥ २-२८ ॥

सिद्धा योगेश्वरा रुद्रा आदित्या वसवस्तथा ।
मरुद्गणाः सोमपाश्च पितरश्चापि चारणाः ॥ २-२९ ॥

यं पूजयन्ति सततं भक्तिप्रवणचेतसः ।
न तस्मात् त्रिषु लोकेषु ह्यस्य पूज्यतमो भवेत् ॥ २-३० ॥

त्वामेकां ध्यायते चित्ते प्रेयसीं प्राणवल्लभाम् ।
प्रतिव्रतां पतिप्राणां प्राणनाथो रहो गतः ॥ २-३१ ॥

धन्यासि कृतकृत्यासि यत्त्वया हरिरीश्वरः ।
शुद्धभावेन सततं सेवया च प्रसादितः ॥ २-३२ ॥

क्षणं तद्विरहं सोढुमशक्तो मिलितेक्षणः ।
रहः स्थितः स्वहृदये त्वन्मूर्तिं ध्यायते हरिः ॥ २-३३ ॥

तस्माद्धन्याः स्त्रियो लोके याः पतिप्रेमभाजनम् ।
इति हासच्छलेनोक्ता मेने वितथमेव सा ॥ २-३४ ॥

रमोवाच-

अहो सखि यदीत्थं त्वं निरर्थकमिदं वचः ।
न मां स्मरति देवेशो ध्यानमार्गे कदाचन ॥ २-३५ ॥

मयि विरक्तः सततमकिञ्चनजनप्रियः ।
कथं मां ध्यायते चित्ते विरहं सोढुमक्षमः ॥ २-३६ ॥

अकुण्ठितमहाबाधा प्रसादादस्य सन्ततम् ।
जानामि सकले लोके भजतो मां दृढव्रतान् ॥ २-३७ ॥

ये चापि त्रिषु लोकेषु यत्र कुत्रापि संस्थिताः ।
भजन्ते तानहं भक्तान् हृदि पश्यामि सन्ततम् ॥ २-३८ ॥

तदा कथं तु हरिणा चित्ते ध्यातापि तं सखि ।
न वेद्मि सर्वभावज्ञा सर्वलोकान्तरस्थिता ॥ २-३९ ॥

तस्मान्न मां न च विधिं न रुद्रमपि शङ्करम् ।
नान्यं वा प्राणसदृशं भक्तं वा ध्यायतीश्वरः ॥ २-४० ॥

को वेदास्य परं चित्ते निहितः कश्चिदीश्वरः ।
तस्मात्प्रबुध्यमानेऽस्मिन् सर्वं पृच्छाम्यसंशयम् ॥ २-४१ ॥

इत्युक्त्वा सखिवर्गेण कुतूहलसमन्विता ।
पुरः तस्थौ परेशस्य प्रबद्धकरसम्पुटा ॥ २-४२ ॥

तावदेव हरिः साक्षान्मुक्तध्यानो ददर्श ताम् ।
बद्धहस्ताञ्जलिपुटां सखीमण्डलमध्यगाम् ॥ २-४३ ॥

विरोचयन्तीं प्रभया दिव्यालङ्कारभूषिताम् ।
मणिकुण्डलनिर्भान्तकपोलविमलप्रभाम् ॥ २-४४ ॥

सुनासां सुदतीं सुभ्रूं चिबुकोद्देशशोभिताम् ।
कम्बुकण्ठीं हृदि भ्राजन्मणिहारमनोहराम् ॥ २-४५ ॥

काञ्चीकलापरुचिरां वलयाङ्गदनूपुराम् ।
त्रिलोकीदेवतां साक्षाद्विनयावनतेक्षणाम् ॥ २-४६ ॥

दृष्ट्वा प्रबोधमापन्नं हरिं कमललोचनम् ।
शीर्ष्णा स्पृशन्ती चरणं प्रोवाच विनयान्विता ॥ २-४७ ॥

रमोवाच

अहो देवेश भगवन् भक्तवत्सल भूधर ।
कृपां कुरु जगन्नाथ सन्देहं विनिवारय ॥ २-४८ ॥

त्वमेकः सर्वलोकानां स्रष्टा हर्त्ता च पालकः ।
दैवतं सर्वदेवानां न त्वया न समोऽधिकः ॥ २-४९ ॥

किं ध्यायसि रहः स्थित्वा विलीनकरणाशयः ।
तद्ध्यानानन्दसन्दोहपुलकाङ्कतनुर्भृशम् ॥ २-५० ॥

अस्मिन् खिद्यति मच्चित्तं त्वत्तोऽप्यपरशङ्कया ।
तं ब्रूहि करुणासिन्धो यथाहं प्रकृतिं व्रजे ॥ २-५१ ॥

इत्युक्तो रमया देव्या हरिरात्मा शरीरिणाम् ।
गिरा मधुरया वाचा रमणी रमयन्निव ॥ २-५२ ॥

श्रीभगवानुवाच

अहो कल्याणि वचनं वदामि शृणु साम्प्रतम् ।
अहं लोकगुरुः साक्षान्न मे ध्येयोऽस्ति कश्चन ।
अहमात्माखिलाधारो ब्रह्मरुद्रेन्द्रवन्दितः ॥ २-५३ ॥

विश्वस्मिन्विततं पश्य मामेव सचराचरे ।
विश्वं मयि ततं पश्य किमन्यज्ज्ञातुमिच्छसि ॥ २-५४ ॥

तस्य मे विश्वजीवस्य शक्तिस्त्वं समधर्मिणी ।
आद्याखिलाधारमयी मदानन्दमयी शुभा ॥ २-५५ ॥

तां त्वां ब्रह्मादयो देवा ऋषयोऽथ धृतव्रताः ।
इन्द्रादयस्तु दिक्पाला मुनयो नारदादयः ॥ २-५६ ॥

भजन्तोऽपि न ते सुभ्रु प्रसादकणिकास्पृशः ।
सा त्वं मे हृदये लीना परमानन्दरूपिणी ॥ २-५७ ॥

यदा त्वां नैव पश्यामि जगदान्ध्यं विभाति मे ।
दृष्टायां त्वयि देवेशि सम्यक् पश्याम्यह पुनः ॥ २-५८ ॥

त्वं गता सखिभिः सार्धं पुष्पावचयहेतवे ।
तावत्ते विरहं सोढुमशक्तोऽहं वरानने ॥ २-५९ ॥

त्वच्चित्तो रहसि स्थित्त्वा त्वत्प्राणस्त्वन्मनाः प्रिये ।
त्वामेव हृदये ध्यायन्निमीलितविलोचनः ॥ २-६० ॥

ललने ललितं रूपं त्वदीयं सुरदुर्लभम् ।
ध्यायामि ध्यानयोगेन तावत्त्वं समुपागता ॥ २-६१ ॥

इत्येवं ते मया प्रोक्तं सत्यं जानीहि सुव्रते ।

श्रीलक्ष्मीरुवाच

देवेश त्वत्प्रसादेन सर्वेषां हृदि चेष्टितम् ।
जानामि सकलं नाथ यथाकर्म यथारुचि ॥ २-६२ ॥

अहं हृदि त्वया ध्याता विरहेणापि माधव ।
त्वय्येव निवसाम्येव त्वदन्तःकरणैक्षिणी ॥ २-६३ ॥

अहो चित्रमिदं भाति त्वदन्तःस्थाप्यहं प्रभो ।
न जानामि त्वदन्तःस्थम् आत्मानमिवसन्मतिः ॥ २-६४ ॥

न प्रतारयितुं योग्या भक्ता तेतीव वल्लभा ।
भक्तप्रतारकं लोके कथमन्यो भजिष्यते ॥ २-६५ ॥

त्रिलोक्यां यदि वा कञ्चित् भक्तं ध्यायसि दुर्गतम् ।
त्वदिच्छयैव तद्दुःखं सर्वं विलयमेति च ॥ २-६६ ॥

तस्मात्त्वदन्यो वै कश्चिदीश्वरस्त्वनुमीयते ।
तं वै वदस्व देवेश यद्यहं तव वल्लभा ॥ २-६७ ॥

न चान्यो मे प्रियतमो नेश्वरो वा भवत्परः ।
परं वेदितुमिच्छामि कौतुकेन समन्विता ॥ २-६८ ॥

विष्णुरुवाच

न कौतुकं त्वया कार्यं मदुक्त्या निर्वृतिं व्रज ।
न चाग्रहं प्रकुर्वन्ति विद्वांसः साधवो जनाः ॥ २-६९ ॥

देव्याग्रहवतां पुंसां न धर्मार्थौ न कामना ।
प्रसिध्यन्ति कदाचिद्वा बुद्धेः फलमनाग्रहः ॥ २-७० ॥

प्रार्थितं तु शिरो देयं पशुद्रविणसम्पदः ।
राज्यं कोशो मही दुर्गं तथान्यदपि सुन्दरि ॥ २-७१ ॥

धनैः प्राणैः शरीरैश्च त्यक्षद्भिर्नोपकुर्वते ।
ते यास्यन्ति स्वयं त्यक्त्वा कालवेगेन कर्षिताः ॥ २-७२ ॥

याचकाशा हता येन हतं तेन चराचरम् ।
तस्मात्प्राणादिकं सर्वं याचते देयमेव हि ॥ २-७३ ॥

अदेयं तु परं तत्वं लोकातीतं यतो हि तत् ।
तस्माद्दुराग्रहं त्यक्त्वा प्रसन्नेनान्तरात्मना ॥ २-७४ ॥

वर्तितव्यं त्वया भद्रे मत्प्रसादपरीप्सया ।
इत्युक्ता सा तदा लक्ष्मीर्विष्णुना प्रभविष्णुना ।
ईषत्कोपसमाविष्टा कषायीभूतलोचना ॥ २-७५ ॥

आत्मानमात्मना धृत्वा प्रोवाच वचनं पुनः ।
स्त्रीपुंसोर्देहभागाभ्यामेकमेव वपुः स्मृतम् ॥ २-७६ ॥

कथं पश्यसि भेदेन मामेकतनुरूपिणीम् ।
पुरातनैश्च कविभिर्दाम्पत्ये प्रेम रूपितम् ॥ २-७७ ॥

तन्नाशितं त्वयैकेन प्रेमरीतिविदापि भोः ।
पत्युः प्रेमबहिर्भूतां धिक् स्त्रियं विमतां गृहे ।
पतिश्चापि शठस्तस्या यः साध्वीमप्युपेक्षते ॥ २-७८ ॥

तस्माद्देवाल्पपुण्याहं कथं प्राप्स्यामि चेप्सितम् ।
आप्रसादं च भवतः करिष्ये तप उल्बणम् ॥ २-७९ ॥

येन प्रसन्नो भगवान् उपदेश्यति तत्पदम् ।
इत्युक्त्वा भगवत्पादं प्रणम्य च मुहुर्मुहुः ।
प्रदक्षिणीकृत्य ययौ वैकुण्ठात्तपसे रमा ॥ २-८० ॥

सामभिर्विविधैश्चापि वचनैश्च नयान्वितैः ।
निवार्यमाणापि रमा न न्यवर्तत निश्चयात् ॥ २-८१ ॥

इति श्रीनारदपञ्चरात्रे माहेश्वरतन्त्रे ज्ञानखण्डे शिवोमासंवादे द्वितीयं पटलम् ॥ २-२ ॥