०१

अथ प्रथमं पटलम्

श्रीपार्वत्युवाच

देवदेव महादेव करुणार्णव शङ्कर ।
हर शम्भो शिव मृड् पशुनाथ नमोऽस्तु ते ॥ १-१-१ ॥

नमस्ते सर्वदेवानां दैवताय परात्मने ।
पिनाकिने नमस्तुभ्यं गङ्गाधर नमोऽस्तु ते ॥ १-२ ॥

भूतिभूषितदेहाय भक्तानामभयङ्कर ।
कर्पूरविशदाभाय त्रिनेत्राय नमोऽस्तुते ॥ १-३ ॥

नमश्चन्द्रकलाधारिन् नीलकण्ठ महेश्वर ।
महाभुजङ्गमाबद्धजटाजूट शिवप्रद ॥ १-४ ॥

अकिञ्चनाय शुद्धाय ह्यणिमाद्यष्टसिद्धये ।
संसारवारिधितरणे प्लवभूतपदाम्बुज ॥ १-५ ॥

योगीश्वराय योगाय योगिनां पतये नमः ।
योगिहृत्पद्ममार्तण्ड योगानन्दमयाय ते ॥ १-६ ॥

सृष्ट्यर्थं ब्रह्मरूपोऽसि पालनार्थं स्वयं हरिः ।
रुद्रोऽस्यन्ताय देवेश नमस्त्रितयरूपिणे ॥ १-७ ॥

नमो वेदान्तवेद्याय नित्यानन्दमयाय ते ।
निरञ्जनाय शुद्धाय सच्चिदानन्दचेतसे ॥ १-८ ॥

निर्मलाय निराशाय निरीशायाखिलात्मने ।
अणोरणीयसे तुभ्यं महतोऽपि महीयसे ॥ १-९ ॥

दिक्कालाद्यनवच्छिन्ननित्यचिन्मात्रमूर्त्तये ।
नमस्ते सर्वलोकैकपालकायार्त्तिनाशिने ॥ १-१० ॥

ब्रह्मा त्वं हरिरुद्रोऽसि हव्यवाट् हुतमित्युत ।
मन्त्रर्त्त्विक् देवता चासि यज्ञस्त्वं तत्फलात्मकः ॥ १-११ ॥

दयां कुरु महादेव प्रसीद परमेश्वर ।
त्वयि प्रसन्ने लोकानां फलन्ते कामपादपाः ॥ १-१२ ॥

त्वयाहं दीननाथेन शरीरार्द्धे निरूपिता ।
कृतकृत्याऽस्मि तेनाहं किमन्यदवशेषितम् ॥ १-१३ ॥

तस्मात्सम्प्रष्टुमिच्छामि रहस्यं किञ्चिदुत्तमम् ।
यद्यहं ते प्रियतमा ब्रूहि नाथ ! तदाखिलम् ॥ १-१४ ॥

त्वया प्रोक्तानि तन्त्राणि चतुःषष्टिमितानि भोः ।
न तेषु तत्वविज्ञानं प्रकटीकृतमीश्वर ॥ १-१५ ॥

तत्प्रकाशय देवेश प्रवक्तुं यदि मन्यसे ॥ १-१६ ॥

शिव उवाच

नैतज्ज्ञानं वरारोहे वक्तुं योग्यं वरानने ।
राज्यं देयं शिरो देयं देयं सर्वस्वमप्युत ।
न देयं ब्रह्मविज्ञानं सत्यं सत्यं शुचिस्मिते ॥ १-१७ ॥

ब्रह्महत्यासहस्राणि कृत्वा यत्पापमाप्नुयात् ।
तत्पापं लभते देवि परमार्थप्रकाशनात् ॥ १-१८ ॥

बालहत्यासहस्राणि स्त्रीहत्यायुतमेव च ।
गवां लक्षवधात्पापं तथा विश्वासघाततः ॥ १-१९ ॥

मित्रद्रोहाद्गुरुद्रोहात्साधुद्रोहाच्च यद्भवेत् ।
तत्पापं लभते देवि परमार्थप्रकाशनात् ॥ १-२० ॥

तस्मात्तु गोपयेद्विद्वान् जननीजारगर्भवत् ।
भक्तासि त्वं प्रियतमा तस्मात्तेऽहं वदामि भोः ॥ १-२१ ॥

ज्ञानं तत्तु विजानीयात् येनात्मा भासते स्फुटः ।
अज्ञानेनावृतो नित्यं मोहरूपेण नित्यदा ॥ १-२२ ॥

तावत्संसारभावः स्याद्यावदज्ञानमुल्लसेत् ।
तावन्मोहो भ्रमस्तावत्तावदेव भयं भवेत् ॥ १-२३ ॥

अहं ममेत्यसद्भावो विस्मृतिर्दुःखदर्शनम् ।
नानाधर्मानुरागश्च कर्मणां च फलैषणा ॥ १-२४ ॥

बन्धमोक्षविभागश्च जडदेहाद्यहङ्कृतिः ।
तावदीश्वरभावः स्यात्पाषाणप्रतिमादिषु ॥ १-२५ ॥

जलादौ तीर्थभावश्च यावदज्ञानमुल्लसेत् ।
उदिते तु परिज्ञाने नाऽयं लोको न कल्पना ॥ १-२६ ॥

न त्वं नाहं न वै किञ्चिन्निवृत्ते मोहविभ्रमे ।
स्वयमेवात्मनात्मानमात्मन्यात्माभिपद्यते ॥ १-२७ ॥

तदा सुखसमुद्रस्य स्वरूपनिरतो भवेत् ।
लयश्चात्यन्तिको देवि कदाचिद्वा भविष्यति ॥ १-२८ ॥

तदेवात्माक्षरः साक्षादेक एवावशिष्यते ।
स शिवो विष्णुरेवेन्द्रः स एवामरदानवाः ॥ १-२९ ॥

स एव यक्षरक्षांसि सिद्धचारणकिन्नराः ।
सनकाद्याश्च मुनयो ब्रह्मपुत्राश्च मानसाः ॥ १-३० ॥

पशवः पक्षिणश्चैव पर्वतास्तृणवीरुधः ।
स एवेदं जगत्सर्वं स्थूलसूक्ष्ममयं च यत् ॥ १-३१ ॥

अज्ञानाद्रजतं भाति शुक्तिकायां यथा प्रिये ।
ज्ञानात्तद्रजतं देवि तस्यामेव विलीयते ॥ १-३२ ॥

तथाक्षरे परे ब्रह्मण्याभाति सकलं जगत् ।
मोहने केनचिद्देवि मोहनाशे तु शाङ्करि ॥ १-३३ ॥

अवशिष्यते परं ब्रह्म साक्षादक्षरमव्ययम् ।
न त्वं नाहं तदा विष्णुर्लक्ष्मीर्ब्रह्मासरस्वती ॥ १-३४ ॥

नेश्वरो न शिवश्चापि यथापूर्वं भविष्यति ।
मृदुद्भवानि कार्याणि मृच्छेशाणि यथाप्रिये ॥ १-३५ ॥

तथैवाखिललोकोऽयं ब्रह्मभूतो भविष्यति ।
यथा वायुवशाद्देवि समुद्रे तरलोर्मय ।
प्रादुर्भवन्ति देवेशि तस्मिन् शान्ते तु पूर्ववत् ॥ १-३६ ॥

तथा विस्मारितज्ञानान्मोहाद्भ्रान्तं चराचरम् ।
चतुर्विंशतितत्त्वोत्थं सत्यमित्येव रूपितम् ॥ १-३७ ॥

तत्र जाता इमे लोकाश्चतुर्दश महेश्वरि ।
अधः सप्त तथा चोर्ध्वमेवं सङ्ख्याश्चतुर्दश ॥ १-३८ ॥

अतलं वितलं चैवं सुतलं च तलातलम् ।
रसातलं च पातालं भूर्भुवः स्वस्तथोपरि ॥ १-३९ ॥

महर्जनस्तप इति सत्यं वैकुण्ठ इत्यपि ।
शिवलोको देवलोकस्तथाऽवान्तर्गता अपि ॥ १-४० ॥

मोहशान्तौ भविष्यन्ति सर्वे ब्रह्ममया इमे ।
यावत्सर्पमयी भ्रान्ती रज्जौ तावद्भयं प्रिये ॥ १-४१ ॥

रज्जुत्त्वेन तु विज्ञाता भयं नोद्वहते पुनः ।
अप्रपञ्चे प्रपञ्चोऽयं मोहादुन्मीलति स्फुटः ॥ १-४२ ॥

तावद्भयप्रदोऽज्ञानं यावन्मोहं न विन्दते ।
द्विधा त्रिधा पञ्चधा च चतुर्विंशतिधा पुनः ॥ १-४३ ॥

एकधा च पुनस्त्रेधा बहुधा च पुनः स्वयम् ।
विस्तीर्णः स तु मोहोऽयम् आवृत्य परमेश्वरम् ॥ १-४४ ॥

कालमायांशयोगेन ब्रह्माण्डमसृजत्प्रभुः ।
कोटिब्रह्माण्डलक्षाणां स निर्माताक्षरो विभुः ॥ १-४५ ॥

न तस्येच्छा न कर्त्तव्या निर्गुणः प्रकृतेः परः ।
तथापि बालवत् क्रीडन् कोटिब्रह्माण्डसंहतीः ॥ १-४६ ॥

सृजते संहरत्येषः कटाक्षाक्षेपमात्रतः ।
चिन्मात्रः परमः शुद्धः कूटस्थः पुरुषः परः ॥ १-४७ ॥

विराट् तस्य वपुः स्थूलं पञ्चधा तु समुद्भवम् ।
पातालं पादमूलेऽस्य पार्ष्णिदेशे रसातलम् ॥ १-४८ ॥

गुल्फे महातलं तस्य जङ्घयोश्च तलातलम् ।
जङ्घयोपरि सुतलं वितलं कट्युत्तरं प्रिये ॥ १-४९ ॥

कटिमध्येऽतलमस्ति मर्त्यलोकोदरे तथा ।
पार्श्वदेशेभुवर्लोकस्तदूर्ध्वं च स्वरादयः ॥ १-५० ॥

ज्योतींष्यस्योरःस्थले च ग्रीवायां च महस्तथा ॥ १-५१ ॥

वदने जनलोकोऽस्य तपोलोको ललाटके ।
सत्यलोको ब्रह्मरन्ध्रे बाह्वोरिन्द्रादयः सुराः ॥ १-५२ ॥

दिशः कर्णप्रदेशस्य शब्दस्तच्छ्रोत्रमध्यगः ।
नासयोरस्य नासत्यौ मुखे वह्निः समाश्रितः ॥ १-५३ ॥

सूर्योऽस्य चक्षुषि गतः पक्ष्मणि ह्यहनीशितुः ।
दंष्ट्रायां यमस्तस्य हास्ये माया महेश्वरि ॥ १-५४ ॥

उत्तरोष्ठे स्थिता लज्जा लोभः स्यादधरोष्ठके ।
स्तनयोरस्य वै धर्मः पृष्ठेऽधर्मः समाश्रितः ॥ १-५५ ॥

कुक्षिष्वस्य समुद्रा वै पर्वता ह्यस्थिसन्धिषु ।
आपगा नाडिदेशस्था वृक्षा रोमपथि स्थिताः ॥ १-५६ ॥

मेघाः केशेषु हृदये चन्द्रमाः परिकीर्तितः ।
इदं स्थूलशरीरं तु ब्रह्मणः परमात्मनः ॥ १-५७ ॥

इयत्तयाऽपरिच्छेद्यमन्तपारविवर्जितम् ।
लिङ्गं नारायणस्तस्य ह्यक्षरस्य चिदात्मनः ॥ १-५८ ॥

हिरण्यगर्भं जगदीशितारं नारायणं यं प्रवदन्ति सन्तः ।
सर्वस्य धातारमनन्तमाद्यं प्रधानपुंसोरपि हेतुमीशम् ॥ १-५९ ॥

तं सर्वकालावयवं पुराणं परात्परं योगिभिरीड्यपादम् ।
ब्रह्मेशविष्णुप्रमुखैकहेतुं यतः प्रवृत्तो निगमस्य पन्थाः ॥ १-६० ॥

तं देवदेवं जगतां शरण्यं नारायणं यस्य वदन्ति लिङ्गम् ।
यावन्न लिङ्गं प्रलयं प्रयाति स्थूलं वपुश्चापि न शान्तिमेति ॥ १-६१ ॥

ततः परं कारणमेव तस्य वपुः परस्यात्मन एव मोहः ।
यावद्विमोहः प्रशनं न याति न लिङ्गमुत्सीदति कार्यबद्धम् ॥ १-६२ ॥

न कारणं तावदुपैति शान्तिं चराचरस्यापि च बीजभूतम् ।
यावन्महाकारणमम्बिके तत् न शान्तिमायाति च बीजबीजम् ॥ १-६३ ॥

गुह्याद् गुह्यतरं शास्त्रमिदमुक्तं तवानघे ।
न कस्याप्यग्रतो वाच्यं सत्यं सत्यं प्रियंवदे ॥ १-६४ ॥

न पद्मायै हरिः प्राह प्रार्थितोऽपि पुनः पुनः ।
तन्मयात्र तव स्नेहात्प्रकटीकृतमुच्चकैः ॥ १-६५ ॥

न गुह्यायापि पुत्राय गणराजाय नन्दिने ।
सुगोपितमिदं भद्रे तव स्नेहादुदीरितम् ॥ १-६६ ॥

तस्माद्गोप्यतरं भद्रे वराङ्गमिव सर्वतः ।
इतीदं ते समाख्यातं किमन्यत्प्रष्टुमिच्छसि ॥ १-६७ ॥

इति श्रीनारदपञ्चरात्रे माहेश्वरतन्त्रे ज्ञानखण्डे शिवपार्वतीसंवादे प्रथमं पटलम् ॥ १-१ ॥