२६

अथ षड्विंशः पटलः

ईश्वर उवाच –

दमनारोपणं वक्ष्ये साधकानां हिताय च ।
संवत्सरकृता पूजा येन पूर्णा भवेत् प्रिये ॥ २६-१ ॥
तपोभङ्गाय मदनो मम शैलभवे यदा ।
भस्मीभवत्तदा पत्नी रतिः प्रीतिश्च दुःखिते ॥ २६-२ ॥
तन्नेत्रवारिसम्भूता दमनस्य लता भवेत् ।
तत्सौरभ्यं च सौभाग्यं महदासीत्सुलोचने ॥ २६-३ ॥
तेन सन्तुष्टसुहृदा वरो दत्तो मया प्रिये ।
रत्यै प्रीत्यै च तस्मात्तु मदनः प्रकटीकृतः ॥ २६-४ ॥
दमनेन च यो मन्त्री वर्षमध्ये न पूजयेत् ।
तस्य सांवत्सरी पूजा मदनाय भविष्यति ॥ २६-५ ॥
इति तस्मै वरो दत्तो मयैव सुरवन्दिते ।
तस्माद्दमनपूजा हि कर्तव्या वीरवन्दिते ॥ २६-६ ॥
अन्यथा तत्फलं वर्षकृतं कामाय जायते ।
समूलं दमनं देवि स्थापयेत्पात्रके वरे ॥ २६-७ ॥
दमनं नवधा कूर्यात्पूजयेत्तदनन्तरम् ।
आनन्देश्वरबीजेन ततो भिन्नेन सुन्दरि ॥ २६-८ ॥
आनन्देश्वरबीजेन नवधा बिन्दुना सह ।
नवप्रकारभिन्नाङ्गं दमनं पूजयेत्क्रमात् ॥ २६-९ ॥
अघोरविद्यया पश्चादभिषिच्य तमेव हि ।
पूर्वोक्तया दक्षिणस्यां दिशि सिंहासनोक्तया ॥ २६-१० ॥
अस्त्रेण रक्षणं कुर्यात्कवचेन ततः परम् ।
बद्ध्वा त्रिशूलमुद्रां तु भ्रामयेद्दमनोपरि ॥ २६-११ ॥
चैत्रे सितचतुर्दश्यां दमनारोपणं भवेत् ।
उद्धरेदस्त्रमन्त्रेण हृदयेन च लेपयेत् ॥ २६-१२ ॥
श्रीखण्डघुसृणेन्द्राद्यैरधिवासं च कारयेत् ।
प्रथमे दिवसे कुर्यादधिवासनमुत्तमम् ॥ २६-१३ ॥
सद्योऽधिवासनं वाऽपि वर्षपूर्जासुसिद्धये ।
प्रातःकाले चतुर्दश्यां नित्यार्चानन्तरं ततः ॥ २६-१४ ॥
नवकोणं विरच्याथ सिन्दुरेण महाप्रभम् ।
कलशान्नव संस्थाप्य हेमरत्नादिपूरितान् ॥ २६-१५ ॥
एकं वा कलशं रम्यं स्थापयेद्देशिकोत्तमः ।
दक्षतो मण्डलं कृत्वा कुङ्कुमाद्यैवीचित्रितम् ॥ २६-१६ ॥
अशोकतरुमालिख्य त्रिकोणं मण्डलं लिखेत् ।
तन्मध्ये पूजयेत्कामं तरुणं चारुणप्रभम् ॥ २६-१७ ॥
रक्तवस्रं रक्तभूषं वामदक्षिणयोः प्रिये ।
रतिप्रीतिविशोभाढ्यं पञ्चबाणं धनुर्धरम् ॥ २६-१८ ॥
बसन्तसहितं कामं कदम्बवनमध्यगम् ।
मन्त्रेणानेन तं कामं पूजयेत्सिद्धिहेतवे ॥ २६-१९ ॥
वाग्भवं भुवनेशानीं श्रियं कामात्मकेन च ।
कामाय नम आलिख्य विद्येयं नववणीनी ॥ २६-२० ॥
कामबीजत्रयं चोक्त्वा रत्यात्मकमुच्चरेत् ।
रत्यै नमश्चाष्टवर्णां रतिविद्या वरानने ॥ २६-२१ ॥
प्रीतिं वदेद्रतिस्थाने प्रीतिमन्त्रोऽष्टवर्णकः ।
गौरश्यामे रतिप्रीती क्रमेण मणिभूषणे ॥ २६-२२ ॥
पद्मताम्बूलहस्ते च रक्तवस्त्रविराजिते ।
दिव्याभरणभूषे च पुष्पदामविराजिते ॥ २६-२३ ॥
वामदक्षिणयोर्ध्यात्वा कामस्य तदनन्तरम् ।
वसन्तं पूजयेत्पश्चात्कदम्बवनमध्यगम् ॥ २६-२४ ॥
गौरवर्णं वामहस्ते सुधापूर्णघटान्वितम् ।
दक्षहस्तेन दधतं नानापुष्पसमुच्चयम् ॥ २६-२५ ॥
साङ्गं कामं प्रपूज्याथ धूपदीपादि दर्शयेत् ।
दमने पूजितः कामः सर्वकार्याणि साधयेत् ॥ २६-२६ ॥
तेन सम्यक्प्रपूज्याथ महात्रिपुरसुन्दरीम् ।
क्रमं समर्चयेत्सम्यक्कुमारीर्भोजयेद्बुधः ॥ २६-२७ ॥
सुवासिनीश्च सम्पूज्य योगिनीगणमर्चयेत् ।
ब्राह्मणान् परिपूज्याथ नानादर्शनपारगान् ॥ २६-२८ ॥
तदङ्गहवनात्पश्चाद्गुरुं रत्नादिभूषणैः ।
स्वर्णभारसहस्रैश्च दिव्यवस्त्रमनोरमैः ॥ २६-२९ ॥
पूजयित्वा ततो देवि पूर्णाहुतिमथोच्चरेत् ।
अनेन विधिना देवि दमनारोपणं यजेत् ॥ २६-३० ॥
तस्य सांवत्सरी पूजा सफला शैलसम्भवे ॥ २६-३१ ॥

इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे देवीश्वरसंवादे
श्रीविद्यादमनारोपणविधिर्नाम षड्विंशः पटलः ॥ २६ ॥

ए-तेxत्स् मय् बे विएwएद् ओन्ल्य् ओन्लिने ओर् दोwन्लोअदेद् फ़ोर् प्रिवते स्तुद्य्।