अथ चतुवींशः पटलः
ईश्वर उवाच –
दीक्षाविधिं प्रवक्ष्यामि येन शिष्यः सुखी भवेत् ।
दीयते सकलं देवि गुरवे प्राणसंयुतम् ॥ २४-१ ॥
धन–रत्न–सुवर्णादि–पट्टवस्र–समुच्चयम् ।
क्षयं प्राप्नोति तद्भावान्नानापापसमुच्चयः ॥ २४-२ ॥
तस्माद्दीक्षेति नामास्याः सर्वशास्रेषु सुव्रते ।
पापिने कृपणायापि शठाय कपटाय च ॥ २४-३ ॥
अदीनायाऽऽचारशून्याय मन्त्रद्वेषपराय च ।
निन्दकाय च मूर्खाय तीर्थद्वेषपराय च ॥ २४-४ ॥
भक्तिहीनाय देवेशि न देया मलिनाय च ।
दानशीलाय भक्ताय साधवे तीर्थचेतसे ॥ २४-५ ॥
सन्मार्गवतीने चाग्निदेवद्विजरताय च ।
सर्वशास्रार्थवेदार्थज्ञानिने सुव्रताय च ॥ २४-६ ॥
दीक्षा देया वरारोहे अन्यथाऽऽपत्तिभाग्भवेत् ।
अथ वक्ष्ये वरारोहे दीक्षाकरणमुत्तमम् ॥ २४-७ ॥
मण्डपं वेदिकां कृत्वा पुष्पवैतानमण्डितम् ।
दीपमालावलीरम्यं नानाधूपसुधूपितम् ॥ २४-८ ॥
सिन्दूररङ्गमालाभिर्मण्डितं चित्रचित्रितम् ।
वेदिकायां वरारोहे कुङ्कुमेनाथ वा प्रिये ॥ २४-९ ॥
सिन्दूररजसा वाऽपि विलिखेच्चक्रमुत्तमम् ।
मध्यचक्रं वरारोहे नवकोणविराजितम् ॥ २४-१० ॥
चतुरस्रं च संलिख्य सुवर्णकलशान्नव ।
रौप्यताम्रादिरचितान्मृत्तिकारचितांश्च वा ॥ २४-११ ॥
जलपूर्णान्विशेषाढ्यान् स्वर्णरत्नप्रपूरितान् ।
फलैः पुष्पैश्च सुभगान् सुगन्धेन च चचीतान् ॥ २४-१२ ॥
वशिन्याद्यष्टकं तत्र वसुकुम्भेषु पूजयेत् ।
मध्यकुम्भे वरारोहे श्रीविद्यां परितोषयेत् ॥ २४-१३ ॥
क्रमं समस्तमभ्यर्च्य कुमार्याद्यर्चनं यजेत् ।
सुवासिनीर्ब्रह्मवृन्दं योगिनो विविधानपि ॥ २४-१४ ॥
तदङ्गहवनं कुर्यात्सर्वेषां तृप्तिहेतवे ।
गुरुः शिष्यमुपानीय भक्तिनम्रमकल्मषम् ॥ २४-१५ ॥
प्राणानायम्य विधिवच्छुद्धपीठे निवेश्य च ।
सुरास्त्वामेत्यादिमन्त्रैश्चिरण्टीभिर्युतः स्वयम् ॥ २४-१६ ॥
अभिषिञ्चेच्च तन्मूघ्नी तदेतत्कलशोदकैः ।
परिधाय्य सुवासोभिश्चन्दनादवलेप्य च ॥ २४-१७ ॥
वामतः परमेशानि स्वासने पूजिते शुचिम् ।
सर्वशृङ्गारवेषाढ्यं शिष्यं तत्र निवेशयेत् ॥ २४-१८ ॥
षडध्वरूपं श्रीचक्रं तस्य र्मूध्नि विचिन्तयेत् ।
अभावे तु बृहच्छङ्खं जलेनाऽऽपूर्य सुन्दरि ॥ २४-१९ ॥
कलास्तत्र समाराध्य देवीं सम्पूज्य सेवयेत् ।
स्वदृष्ट्याऽऽलोकयेत्तं तु दृष्ट्या दृष्टिं तु मेलयेत् ॥ २४-२० ॥
आज्ञासङ्क्रमणं कुर्याद्यावन्निश्चलता भवेत् ।
नैश्चलं शाम्भवो वेद्यः शून्याशून्यविवजीतः ॥ २४-२१ ॥
शून्यं शिवमयं वस्तु पुरुषः परमेश्वरि ।
अशून्यं शक्तिराद्या हि प्रकृतिः परमेश्वरि ॥ २४-२२ ॥
शक्त्याधिक्ये रजःस्थौल्यं संयोगाच्छिवयोर्यदा ।
स्वप्नावस्था तदा ज्ञेया योगः शक्त्यधिकस्ततः ॥ २४-२३ ॥
शक्तिर्जाग्रदिति ख्याता शिवो निश्चलता पिरये ।
सुषुप्तिरिति मन्त्रज्ञैः कथिता निश्चला यतः ॥ २४-२४ ॥
गुणत्रयं तु कथितं जाग्रत्सत्त्वगुणा प्रिये ।
तमोगुणा सुषुप्तिस्तु शिवे निश्चलरूपिणी ॥ २४-२५ ॥
शिवाधिक्याद्गुणातीतं वस्तु जानीहि सुन्दरि ।
शिवशक्तिसमायोगाच्छिवाधिक्यं यदा भवेत् ॥ २४-२६ ॥
तदा तुर्यां विजानीयात्सर्वबन्धनिकृन्तनीम् ।
कलाः षोडश देवेशि आत्मज्ञाने व्यवस्थिताः ॥ २४-२७ ॥
श्रीविद्याबीजसंलीनाः शिष्यदेहे प्रकाशयेत् ।
चतुवीधा षोडशार्णा महात्रिपुरसुन्दरी ॥ २४-२८ ॥
तद्ध्यानात्तु मनःस्थैर्यमुन्मनीति निगद्यते ।
ब्रह्मज्ञाने मनः पक्षी तृष्णाचञ्चुविलक्षितः ॥ २४-२९ ॥
सङ्कल्पेन विकल्पेन पक्षाभ्यां चञ्चलः सदा ।
मोहमत्सरकामैश्च क्रोधाहङ्कारदुर्मदैः ॥ २४-३० ॥
सन्नद्धपिच्छैःसबलः कृत्याकृत्यपदद्वयः ।
संसारवृक्षे देवेशि धनपुत्रादिमूलके ॥ २४-३१ ॥
अविद्याविस्तृते निन्दास्तुतिशाखासुशोभिते ।
अभिलाषस्फुरत्पुष्पभरिते पातकादिभिः ॥ २४-३२ ॥
पर्णपूर्णे वरारोहे पापपुण्यफलान्विते ।
तत्र शाखाद्वये स्थूले श्रुतदृष्टाभिधः स्थितः ॥ २४-३३ ॥
पक्षिणं तं समाक्रम्य ज्ञानपाशेन पाशयेत् ।
पक्षिखेलारतो नित्यं कटाक्षः श्रीगुरोः प्रिये ॥ २४-३४ ॥
तेन पक्षद्वयं छिन्नं यदा भवति निश्चयात् ।
तदा समुन्मनीभूत उन्मुखो निश्चयात्प्रिये ॥ २४-३५ ॥
सर्वसङ्कल्परहिता कला सप्तदशी भवेत् ।
उन्मनी नाम तस्या हि भवपाशनिकृन्तनम् ॥ २४-३६ ॥
उन्मन्या सहितो योगी न योगी नोन्मनी परा ।
यथा कर्पूरगो दीपो न दीपो न पुनः शशी ॥ २४-३७ ॥
अत एव महेशानि दृष्ट्या सङ्क्रमणं यजेत् ।
तत्त्वमस्यादिवाक्येन पश्चाद्वाच्यं हि योजयेत् ॥ २४-३८ ॥
आदावकथ्यसंयोज्यं स्पर्शेनैव सुलोचने ।
स्पर्शः स्पर्श इवाऽऽभाति श्रीगुरोः करसम्भवः ॥ २४-३९ ॥
स्पर्शेन धातवः सद्यो लोहाद्याः सुरवन्दिते ।
सुवर्णतां प्राप्य सर्वे विशिष्टाभरणान्विताः ॥ २४-४० ॥
करस्पर्शस्तु देवेशि प्रपञ्चमलिनादिकम् ।
लोहत्वं नाशयित्वा हि सुवर्णत्वं करोति हि ॥ २४-४१ ॥
करे पुष्पफलान्कृत्वा ब्रह्मरन्ध्रे करं क्षिपेत् ।
तस्माद्ब्रह्मत्वमेवासीति वाक्यार्थः कराद्भवेत् ॥ २४-४२ ॥
अनिर्वाच्योपदेशोऽयं स्पर्शनाद्ब्रह्मरन्ध्रके ।
ब्रह्मरन्ध्रे सहस्रारे कर्पूरधवलो गुरुः ॥ २४-४३ ॥
वराभयकरो नित्यो ब्रह्मरूपी सदाऽनघः ।
जागती परमेशानि निजस्थानप्रकाशकः ॥ २४-४४ ॥
पश्चात्षट्चक्रविज्ञानं शिष्याय प्रतिबोधयेत् ।
आधारं स्वर्णवर्णं च चतुर्दलसुशोभितम् ॥ २४-४५ ॥
वादिसान्तैश्चतुर्वर्णैस्तप्तहेमसमप्रभैः ।
गणेशसहितं विद्धि स्वाधिष्ठानं ततः प्रिये ॥ २४-४६ ॥
इन्द्रगोपप्रतीकाशं स्फुरद्विद्रुमसन्निभैः ।
बादिलान्तैः स्फुरद्वर्णैर्ब्रह्मणा मण्डितं प्रिये ॥ २४-४७ ॥
नीलवर्णं तृतीयं हि मणिपूरं दशारकम् ।
विद्युत्पुञ्जप्रभावर्णैर्डादिफान्तैश्च मण्डितम् ॥ २४-४८ ॥
गदाधरहरिं प्रौढं चतुर्थं शृणु सुव्रते ।
पिङ्गाभं द्वादशारं तु कादिठान्तैः सुलोचने ॥ २४-४९ ॥
विस्फुलिङ्गप्रभैर्वर्णैः शिवेन च युतं प्रिये ।
विशुद्धचक्रं देवेशि धूम्रवर्णं कलात्मकम् ॥ २४-५० ॥
स्वरैर्माणिक्यसङ्काशैर्मण्डितं परमेश्वरि ।
जीवात्मानऽधिष्ठितं हि तज्जानीहि तदन्ततः ॥ २४-५१ ॥
आज्ञाचक्रं महेशानि विद्युत्कोटिसमप्रभम् ।
द्विदलं हक्षवर्णाभ्यां शुभ्राभ्यां परिमण्डितम् ॥ २४-५२ ॥
परमात्मस्वरूपाढ्यं नादरूपं हि सप्तमम् ।
नादो विलीनो यस्मात्तु तस्माद्ब्रह्म तदुच्यते ॥ २४-५३ ॥
देहेऽक्षराणि देवेशि नाद एवात्र कारणम् ।
नादः पवनसंयोगत्कुण्डलिन्या युतो यदा ॥ २४-५४ ॥
प्रसन्नः परमेशानि षट्श्चकाणां दलेषु सः ।
पञ्चाशद्वर्णरूपत्वं माप्तवान्सुरवन्दिते ॥ २४-५५ ॥
अव्यक्तरूपता प्राप्ता उदात्तादिस्वरैः क्रमात् ।
एवं सर्वज्ञतां तस्मै दद्याच्छिष्याय सद्गुरुः ॥ २४-५६ ॥
शिष्यस्तदा श्रीगुरोस्तु पूजां कुर्यात्सुलक्षणाम् ।
रत्नाभरणशोभाढ्यां पट्टवस्रधनान्विताम् ॥ २४-५७ ॥
गजाश्वसहितां भद्रे महिषीगोसमन्विताम् ।
क्षेत्रग्राममहारामरम्यां चेटीशतान्विताम् ॥ २४-५८ ॥
सुवर्णरश्मिभरितां कस्तूरीचन्द्रचन्दनाम् ।
गुरुं सन्तोष्य विधिवत्प्रसादं तत्त्वसंयुतम् ॥ २४-५९ ॥
गृह्णीयाच्छिष्यवर्यस्तु गुरुस्तस्मा अनन्तरम् ।
बालां प्रकाशयेत्कर्णे दक्षिणे च ततः परम् ॥ २४-६० ॥
पञ्चसिंहासनगता विद्याः पश्चात्प्रकाशयेत् ।
ततो रहस्यं परमं महात्रिपुरसुन्दरीम् ॥ २४-६१ ॥
प्रकाशयेद्दक्षकर्णे परब्रह्ममयीं प्रिये ।
सर्वसौभाग्यजननीं भोगमोक्षफलप्रदाम् ॥ २४-६२ ॥
श्रीविद्यां षोडशार्णां तु ब्रह्मानन्दस्फुरत्कलाम् ।
न प्रकाशये द्देवेशि सर्वस्वमिव सुव्रते ॥ २४-६३ ॥
वेदशास्त्रपुराणेषु यामलेष्वपि सुव्रते ।
मुप्ता श्रीषोडशार्णेयं निधानमिव संस्मरेत् ॥ २४-६४ ॥
सहोदराय सर्वस्वप्राणदायापि बन्धवे ।
राज्ञे राज्यप्रदायापि पुत्राय प्राणदाय च ॥ २४-६५ ॥
न देया षोडशार्णेयं देयं सर्वस्वमद्रिजे ।
सुपुत्रदारसहितं शिरो देयं कथञ्चन ॥ २४-६६ ॥
न देया षोडशार्णा हि प्राणैः कण्ठगतैरपि ।
गोपितव्या महाविद्या स्वयोनिरिव पार्वति ॥ २४-६७ ॥
उदके लवणं लीनं यथा भवति शैलजे ।
मनो भवति वै लीनं पादयोः श्रीगुरौः प्रिये ॥ २४-६८ ॥
तदा देया महाविद्या कृपया षोडशाक्षरी ।
अक्षरैः सहिता वाऽपि निरक्षरतया स्थिता ॥ २४-६९ ॥
आकाशे नीलिमा देवि भ्रान्त्या दृष्टोदरे यथा ।
अक्षराणि तथा सन्ति श्रीविद्यायां सुरेश्वरि ॥ २४-७० ॥
षोडशार्णां ब्रह्मरूपां जानीहि परमेश्वरि ।
यथा रत्नमये दीपे कज्जलं नैव विद्यते ॥ २४-७१ ॥
श्रीविद्यायां यथाऽव्यक्तव्यक्तता वीरवन्दिते ।
न दद्याद्यस्य कस्यापि दद्यात्प्राणप्रियाय च ॥ २४-७२ ॥
कृतार्थोऽसि शिशोर्वाक्यं प्रवदेद्देशिकोत्तमः ।
षोडशार्णां महाविद्यां न दद्याद् ब्रह्मरूपिणीम् ॥ २४-७३ ॥
एकोच्चारेण देवेशि वाजपेयस्य कोटयः ।
अश्वमेधसहस्रं तु तुलां नाऽऽयाति सर्वदा ॥ २४-७४ ॥
एकोच्चारेण देवेशि प्रादक्षिण्यं भुवो भवेत् ।
धेनूनां कपिलानां हि दत्ता यैः कोटिकोटयः ॥ २४-७५ ॥
एकोच्चारेण देवेशि तुलां नाऽऽयाति सर्वदा ।
अर्धोदये पुण्यतिथौ हेमभारसहस्रकम् ॥ २४-७६ ॥
तुलापुरुषकोट्यस्तु तुलां नाऽऽयान्ति षोडशीम् ।
यदा यद्वर्ण्यते वस्तु तदा सर्व निरामयम् ॥ २४-७७ ॥
तथा ज्ञेया महाविद्या षोडशार्णा वरानने ।
परमात्मस्वरूपेयं विश्वस्पन्दनरूपिणी ॥ २४-७८ ॥
श्वासोच्छ्वासतया देवि षट्शतान्येकविंशतिः ।
सहस्राणि दिवा रात्रौ हंसः शब्दजपो भवेत् ॥ २४-७९ ॥
स्यन्दनत्वेन सकलं व्याप्य तिष्ठति सर्वतः ।
आत्मत्वेनाजपा ज्ञेया सूर्यसोमस्वरूपिणी ॥ २४-८० ॥
निरञ्जनस्वरूपा च निराभासस्वरूपिणी ।
अतनुत्वतनुत्वाभ्यां सूक्ष्मत्वेन वरानने ॥ २४-८१ ॥
प्रबोधापादनेनापि मण्डिता वह्निजायया ।
षडङ्गैः शोभितां देवीं हंसेनैव प्रपूजिताम् ॥ २४-८२ ॥
अव्यक्तरूपगायत्रीछन्दोवक्त्रां वरानने ।
साक्षात्परमहंसाभां देवतां परमेश्वरीम् ॥ २४-८३ ॥
श्रीविद्यां व्यापिकां विद्धि परज्योतिः स्वरूपिणीम् ।
आत्मस्वरूपलिङ्गं हि मायागेहगतं प्रिये ॥ २४-८४ ॥
श्रद्धातरङ्गिणीनीरक्षालितं भववन्दनम् ।
सुमनोमण्डितं वाऽपि समाधिकुसुमैर्वरम् ॥ २४-८५ ॥
ज्ञानाङ्गारे प्रपञ्चाख्यं धूपं दीपं च चिन्मयम् ।
अधितिष्ठति सर्वत्र सर्वनैवेद्यमण्डितम् ॥ २४-८६ ॥
निष्प्रपञ्चं निराभासं केवलं ब्रह्मसत्कलम् ।
षोडशार्णा परा विद्या श्रीविद्येत्यभीधीयते ॥ २४-८७ ॥
शुक्लपक्षे शुभदिने शुभवारे वरानने ।
मन्त्राद्यारम्भणं कुर्याद्ग्रहणे चन्द्रसूर्ययोः ॥ २४-८८ ॥
न वारमासदोषा हि ग्रहणे चन्द्रसूर्ययोः ।
पवित्रं सर्व देवेशि दानमेव शुभे दिने ॥ २४-८९ ॥
चैत्रे वै निष्फलं ज्ञेयं नीरजायतलोचने ।
वैशाखे क्षेत्रलाभं च ज्येष्ठे च मरणं ध्रुवम् ॥ २४-९० ॥
आषाढे बन्धुनाशं च श्रावणे च शतायुषम् ।
क्षयो भाद्रपदे मासि आश्विने रत्नसम्पदः ॥ २४-९१ ॥
कातीके तु भवेल्लक्ष्मीर्मार्गशीर्षे धनं महत् ।
पौषे तु सम्भवेत्क्लेशो माघे सम्पत्तिरुत्तमा ॥ २४-९२ ॥
फाल्गुने सर्वकार्याणि मासानां फलमीदृशम् ।
शिष्यस्य प्रथमार्णं हि गृहीत्वा सुन्दरि पिरये ॥ २४-९३ ॥
नाम सङ्कल्पयेद्देवि मनोज्ञं स्थिरबुद्धये ॥
श्रीविद्यां हृदये तस्य न्यसेदव्यक्तरूपिणीम् ॥ २४-९४ ॥
श्रीविद्याक्षरपङ्क्तिस्तु परब्रह्मणि चिन्मयी ।
उदके लवणं लीनं यथा तिष्ठति पार्वति ॥ २४-९५ ॥
तस्माद्ब्रह्ममयीं विद्धि सर्वशास्रेषु योजिताम् ॥ २४-९६ ॥
इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे दीक्षाविधिर्नाम
चतुवींशः पटलः ॥ २४ ॥