२३

अथ त्रयोविंशः पटलः

ईश्वर उवाच –

दूत्यन्तरं प्रवक्ष्यामि येन ब्रह्म सनातनम् ।
प्रणवाख्यं यागगेहं प्रविश्य सुरवन्दिते ॥ २३-१ ॥
इच्छाज्ञानक्रियाद्रव्यरचितं सुधया युतम् ।
अम्बया परमेशानि तत्त्वज्ञानमये शिवे ॥ २३-२ ॥
पर्यङ्के पुरुषार्थैस्तु पादैश्च परिमण्डिते ।
आत्मान्तरात्मपरमज्ञानात्माङ्गविभूषिते ॥ २३-३ ॥
तत्पदार्थस्त्वम्पदार्थोऽसिपदार्थश्च सुन्दरि ।
पदार्थत्रयमेतत्तु ज्ञानसूत्रप्रकाशकम् ॥ २३-४ ॥
एतत्सूत्रमयैः पट्टैर्गुम्फितेऽम्बरमण्डिते ।
सुमनोवाससुभगे परां तत्र प्रपूजयेत् ॥ २३-५ ॥
जातिभेदस्तु दूतीनां चतुर्धा वीरवन्दिते ।
हस्तिनी शङ्खिनी चैव चित्रिणी पद्मिनी प्रिये ॥ २३-६ ॥
चतुवीधा हि दूत्यस्तु सुन्दर्यश्चारुलोचनाः ।
वैखरी हस्तिनी ज्ञेया स्थूला यस्माद्वरानने ॥ २३-७ ॥
ययेदं धार्यते सर्वं ब्रह्माण्डपरिमण्डलम् ।
वर्गाष्टकेन देवेशि सूते दिग्गजसञ्चयम् ।
तेनेयं करिणी प्रोक्ता मध्यमा शङ्खिनी भवेत् ॥ २३-८ ॥
शङ्खिनी तु यथा भद्रे विशुद्धा पापवजीता ।
सर्वदेवप्रिया सा हि शान्तिसौभाग्यशोभिता ॥ २३-९ ॥
तथा वनस्पतिगता मध्यमा वाग्वरानने ।
चित्रिणी वल्लरी देवि महादोषविनाशिनी ॥ २३-१० ॥
यस्याः फलं वरारोहे शिवशक्तिमयं सदा ।
शिवशक्तिमयं देवि प्राणिमात्रजगत्त्रयम् ॥ २३-११ ॥
तेषु सर्वेषु पश्यन्ती जीवेषु परमाश्रया ।
परब्रह्मणि सा लीना परा वाक्परमेश्वरि ॥ २३-१२ ॥
तां दूतीं तत्र सम्पूज्य समाधिकुसुमैः शुचिः ।
तदङ्गेषु कलाः पूज्याः क्रमेण सुरवन्दिते ॥ २३-१३ ॥
पद्मिनी तु परा ज्ञेया हंसस्वच्छविकासिनी ।
हंसोदयेन पद्मं हि त्यक्त्वा सङ्कोचमद्रिजे ॥ २३-१४ ॥
विकासयति सौभाग्यं तथा वस्तुविलासतः ।
परा प्रकाशमायाति पद्मिनीत्वमतो भवेत् ॥ २३-१५ ॥
तस्या देहे वरारोहे कलाः पूज्यास्तु षोडश ।
चित्कला सत्कला ज्ञानकला संवित्कला तथा ॥ २३-१६ ॥
आत्मनस्तु कला ज्ञेयाश्चतस्रः परमेश्वरि ।
विरागता मोक्षकला परमाणुकला तथा ॥ २३-१७ ॥
विद्याकलाचतुष्कं तु विज्ञेयं चान्तरात्मनि ।
विद्या सन्तोषता तृप्तिः परब्रह्मप्रकाशता ॥ २३-१८ ॥
परमात्मकला ज्ञेयाः संलीनाः परवस्तुनि ।
लुप्तिः शान्तिकला बोधकला व्याप्तिकला परा ॥ २३-१९ ॥
ज्ञानात्मनः कला ज्ञेयाश्चतस्रः परमेश्वरि ।
कलाः षोडश देवेशि श्रीविद्यार्णेषु संस्थिताः ॥ २३-२० ॥
षोडशार्णा ब्रह्मरूपा कला षोडशरूपिणी ।
आत्मा जाग्रत्स्वरूपेण त्रैलोक्यं रचयत्यसौ ॥ २३-२१ ॥
अन्तरात्मा सत्त्वरूपस्तमोरूपश्च मिश्रितः ।
अत एव रजोरूपस्तमोरूपः परः शिवः ॥ २३-२२ ॥
परमात्मा हि विज्ञेयो ज्ञानात्मा तुर्यया युतः ।
एताः कला वरारोहे तस्या देहे प्रकाशयेत् ॥ २३-२३ ॥
तत्पदार्थं तु जानीहि मुखमस्या वरानने ।
त्वम्पदार्थोऽसिवाक्यार्थः कुचयुग्मं क्रमेण हि ॥ २३-२४ ॥
भोगस्तु परमेशानि नादो ब्रह्ममयो भवेत् ।
नादोदितं वरारोहे विश्वं योनिर्न संशयः ॥ २३-२५ ॥
तत्रैव शक्तिं सम्पूज्य स्वात्मलिङ्गं शिवं यजेत् ।
परस्परप्रभावेण ब्रह्मानन्दरसो भवेत् ॥ २३-२६ ॥
तं रसं मनसा देवि वहन्नाड्यगतं प्रिये ।
अर्घ्यामृतेन संयोज्य ततः श्रीचक्रमर्चयेत् ॥ २३-२७ ॥
ब्रह्मानन्दमयं ज्ञानं कथयामि वरानने ।
न ब्राह्मणो ब्राह्मणस्तु क्षत्रियः क्षत्रियस्तथा ॥ २३-२८ ॥
वैश्यो न वैश्यः शूद्रो न शूद्रस्तु परमेश्वरि ।
चाण्डालो नैव चाण्डालः पौल्कसो न च पौल्कसः ॥ २३-२९ ॥
सर्व समं विजानीयात्परमात्मविनिश्चयात् ।
आकाशात्पतितं तोयं निम्नमार्गेण गच्छति ॥ २३-३० ॥
ग्राममध्यगतं सर्वं विष्ठामूत्रादिपूरितम् ।
मृतगोश्वानमार्जारखरादिरुधिरान्वितम् ॥ २३-३१ ॥
समस्तमपि देवेशि गङ्गायां मिलितं यथा ।
गङ्गामृते तु देवेशि कालुष्यं नैव तिष्ठति ॥ २३-३२ ॥
तथा सच्चिन्मये ज्ञाने समता सर्वजन्तुषु ।
सर्वद्रव्येषु गिरिजे समता नात्र संशयः ॥ २३-३३ ॥
यथा सूर्यप्रकाशोऽयं समत्वेन प्रवर्तते ।
उत्तमस्यापि चान्यस्य तमः संहरते क्षणात् ॥ २३-३४ ॥
शोषयन्दुग्धमूत्राणि चन्दनं चैव कर्दमम् ।
अत एव महेशानि मन्त्री सर्वसमो यदा ॥ २३-३५ ॥
सिद्धिस्तदैव विज्ञेया श्रीगुरोः कृपया प्रिये ॥ २३-३६ ॥

इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे ज्ञानदूतीयजनविधिर्नाम
त्रयोविंशः पटलः ॥ २३ ॥