अथ द्वाविंशः पटलः
ईश्वर उवाच –
होमादिकं तु सकलं कुमारीपूजनं विना ।
परिपूर्णफलं नैव पूजनात्सफलं भवेत् ॥ २२-१ ॥
कुमारीपूजनाद्देवि पूजाकोटिफलं भवेत् ।
पुष्पं कुमार्यै यद्दत्तं तन्मेरुसदृशं भवेत् ॥ २२-२ ॥
कुमारी भोजिता येन त्रैलोक्यं तेनं भोजितम् ।
कुमार्यै यज्जलं दत्तं तज्जलं सागरोपमम् ॥ २२-३ ॥
अन्नं तु मीननयने कुलाचलसमं भवेत् ।
एकाब्दात्षोडशाब्दान्ताः कन्यकाः पूजयेच्छुभाः ॥ २२-४ ॥
विवाहरहिताः स्युश्चेदुत्तरोत्तरसिद्धिदाः ।
विवाहितास्तु देवेशि बाला एव कुमारिकाः ॥ २२-५ ॥
सुवासिन्यो मदप्रौढ।ः संशये त्यज सुव्रते ।
कुमारीपूजने देवि कुमारीमनुना भवेत् ॥ २२-६ ॥
मन्त्रभेदेन तेनैव श्रीविद्यां च प्रपूजयेत् ।
नैमित्तिकं प्रवक्ष्यामि येन ब्रह्ममयो बुधः ॥ २२-७ ॥
निवीकल्पस्य देवेशि नान्यस्य सुरवन्दिते ।
सर्वशङ्काविनिर्मुक्तः सर्वज्ञः साधकोत्तमः ॥ २२-८ ॥
दूतीयागविधिं कुर्यात्खेचरो जायते प्रिये ।
अर्घ्यपात्रे वह्निसूर्यसोमामृतमये शिवे ॥ २२-९ ॥
सोमामृतं तु जानीहि नानाद्रव्यमयं सदा ।
सविकल्पस्य देवेशि वर्णानुक्रमभेदतः ॥ २२-१० ॥
कथ्यन्ते द्रव्यभेदास्तु क्रमेण वरवणीनि ।
क्षीराज्यमधुमैरेयद्रव्यभेदा भवन्ति हि ॥ २२-११ ॥
सर्वज्ञत्वे वरारोहे यज्ञे दोषो न विद्यते ।
अश्वमेधादियज्ञेषु वाजिहत्या कथं भवेत् ॥ २२-१२ ॥
द्रव्यभेदा वरारोहे बहवः सन्ति भेदतः ।
जलं क्षीरं घृतं भद्रे मधु मैरेयमैक्षवम् ॥ २२-१३ ॥
पौष्पं तरुमयं धान्यसम्भवं बहुनिमीतम् ।
सहकारभवं देवि विविधं बहुभेदतः ॥ २२-१४ ॥
मादकं धर्मसञ्छेदाद्वर्ज्यमासीत्सुलोचने ।
ज्ञानेन संस्कृतं तत्तु महापातकनाशनम् ॥ २२-१५ ॥
ब्रह्महत्त्यासुरापानस्वर्णस्तेयादिपातकान् ।
नाशयेत्पूजनाद्देवि निवीकल्पः स मन्त्रवित् ॥ २२-१६ ॥
विचारयेत्सदा सर्वं सर्वविद्वीरवन्दिते ।
जलं जलचरं विद्धि घटं पूर्णं समानयेत् ॥ २२-१७ ॥
स्थापितं देवि सप्ताहाज्जलं जीवसमन्वितम् ।
क्षीरं वै यस्य जीवस्य तस्य मांसं न संशयः ॥ २२-१८ ॥
कृशा पुत्रवती नारी वन्ध्या पुष्टा यतः प्रिये ।
माकन्दफलजं रम्यं द्रावं सेव्यं द्विजातिभिः ॥ २२-१९ ॥
अमादकत्वाद्देवेशि चैक्षुत्वं सेव्यते बुधैः ।
अनामिषं नास्ति किञ्चित्सर्वं क्षीरादिकं प्रिये ॥ २२-२० ॥
वेदशास्रपुराणेषु गूढो ज्ञानसमुच्चयः ।
शमीवृक्षे यथा वह्निस्तथा तिष्ठति सुन्दरि ॥ २२-२१ ॥
सर्वभूतेषु विज्ञानं ज्ञातव्यं देशिकोत्तमैः ।
काष्ठनिर्मथनाद्देवि प्रकटो वह्निरुच्यते ॥ २२-२२ ॥
तत्काष्ठं दह्यते तेन तथा ब्रह्ममयं जगत् ।
पापपुण्यविनिर्मुक्तं ज्ञानमेतद्वरानने ॥ २२-२३ ॥
किञ्चिदुल्लासपर्यन्तं ग्राह्यमेतत्सुरेश्वरि ।
यज्ञाङ्गं तु यतो लौल्यात्पातकी ब्रह्महा भवेत् ॥ २२-२४ ॥
मादकं वस्तु सकलं वर्जयेत्कनकादिकम् ।
कलञ्जं पातकी तस्माद्ब्रह्म ब्रह्मविदां वरः ॥ २२-२५ ॥
धर्माधर्मपरिज्ञानात्सकलेऽपि पवित्रता ।
विण्मूत्रं स्रीरजो वाऽपि नखास्थि सकलं प्रिये ॥ २२-२६ ॥
विचारयेन्मन्त्रवित्तु पवित्राण्येव सुव्रते ।
अन्नं ब्रह्म विजानीयात्तेन यस्य समुद्भवः ॥ २२-२७ ॥
नानाजीवाश्रयं तत्तु पुरीषं केन निन्द्यते ।
नानाविधा हि देवेशि देवताः सलिलस्थिताः ॥ २२-२८ ॥
तेनोदकेन यज्जातं मूत्रं कस्मात्तु दूषयेत् ।
गोमूत्रप्राशनं देवि गोमयस्यापि भक्षणम् ॥ २२-२९ ॥
प्रायश्चित्ते तु कथितं ब्रह्महत्यादिके प्रिये ।
मले मूत्रे कथं दोषो भ्रान्तिरेव न संशयः ॥ २२-३० ॥
स्त्रीरजः परमेशानि देहस्तेनैव जायते ।
कथं तु दूषणं येन प्राप्यते परमं पदम् ॥ २२-३१ ॥
पुरुषस्य तु यद्वीर्यं बिन्दुरित्यभिधीयते ।
बिन्दुस्तु परमेशानि कायोऽयं शिवरूपकः ॥ २२-३२ ॥
शिवतत्त्वेन चास्थ्यादिदूषणं नास्ति बैन्दवे ।
रेतः पवित्रं देहस्य कारणं केन निन्द्यते ॥ २२-३३ ॥
ज्ञानमार्गोऽयं सकलो निवीकल्पस्य सुन्दरि ।
सविकल्पो महेशानि पापभाग्जायते नरः ॥ २२-३४ ॥
मातृगर्भाद्विनिर्गत्य शिशुरेव न संशयः ।
इन्द्रियाण्यखिलान्यस्य देहस्थान्यपि वल्लभे ॥ २२-३५ ॥
निवीकारतया तत्र नान्यथा भवति प्रिये ।
भगलिङ्गसमायोगो जन्मकाले भवेत्सदा ॥ २२-३६ ॥
काम्यते सा यदा देवि जायते गुरुतल्पगः ।
अत एव यदा तस्य वासना कुत्सिता भवेत् ॥ २२-३७ ॥
तत्तद्भूषणसंयुक्तमन्यत्सर्वं शुभं भवेत् ।
पवित्रं सकलं भद्रे वासना कलुषा स्मृता ॥ २२-३८ ॥
अत एवार्घ्यपात्रस्य प्रतिष्ठानन्तरं ततः ।
मञ्चकं गजदन्तस्य हेमरूप्यादिनिमीतम् ॥ २२-३९ ॥
विशुद्धक्षौमरचितां तूलिकां तत्र योजयेत् ।
पुष्पान्विकीर्य तन्मध्ये कर्पूरस्य रजस्तथा ॥ २२-४० ॥
मण्डूकादींस्ततो देवि उपर्युपरि शैलजे ।
मण्डूकं पूजयेदादौ रुद्रं कालाग्निसंयुतम् ॥ २२-४१ ॥
आधारशक्तिं कूर्मं च तथाऽनन्तं वराहकम् ।
पृथिवीं च तथा कन्दं नालं पद्मं तथा दलान् ॥ २२-४२ ॥
केसराणि च सम्पूज्य कणीकां पूजयेत्ततः ।
मञ्चकं च समभ्यर्च्य तत्र पादचतुष्टये ॥ २२-४३ ॥
धर्मं ज्ञानं च वैराग्यमैश्वर्यं च क्रमाद्यजेत् ।
अपूर्वान्पूजयेदेतांस्तत्पादानां समीपके ॥ २२-४४ ॥
आत्मन्तरात्मपरम–ज्ञानात्मनः क्रमाद्यजेत् ।
मञ्चकाग्रेषु सम्पूज्य गुणत्रयमथार्चयेत् ॥ २२-४५ ॥
दूतीं सुलक्षणां रम्यां सर्वलक्षणलक्षिताम् ।
नानालङ्कारसुभगां सर्वज्ञां शारदामिव ॥ २२-४६ ॥
पूजयेत्परमेशानि पञ्चकामैः शरैस्तथा ।
बटुकादिंश्चतुदीक्षु पूजयेत्सिद्धिहेतवे ॥ २२-४७ ॥
मातृकां विन्यसेत्तस्या देहे कामशरान्विताम् ।
त्रिकोणं चिन्तयेन्मूघ्नी तत्र सम्पूजयेत्क्रमात् ॥ २२-४८ ॥
त्रिकोणमध्ये बालाख्यां कामेशीं परिपूजयेत् ।
गणेशं च कुलाध्यक्षं तथा लक्ष्मीं सरस्वतीम् ॥ २२-४९ ॥
त्रिकोणेषु च सम्पूज्य वसन्तं मदनं प्रिये ।
स्तनयोः पूजयेत्पश्चान्मुखे तस्याः कलाधरम् ॥ २२-५० ॥
दक्षपादादिमूर्धान्तं वामे मूर्धादि सुन्दरि ।
पादान्तं पूजयेत्सर्वाः कला वै कामसोमयोः ॥ २२-५१ ॥
श्रद्धा प्रीती रतिश्चैव धृतिः कान्तिर्मनोरमा ।
मनोहरा मनोरामा मदनोन्मादिनी प्रिये ॥ २२-५२ ॥
मोहिनी दीपनी चैव शोषणी च वशङ्करी ।
रञ्जनी सुभगा देवि षोडशी प्रियदर्शना ॥ २२-५३ ॥
षोडशस्वरसंयुक्ता एताः कामकला यजेत् ।
पूषा वशा च सुमना रतिः प्रीतिस्तथा धृतिः ॥ २२-५४ ॥
ऋद्धिः सौम्या मरीचिश्च शैलजे चांशुमालिनी ।
अङ्गिराः शशिनी चैव छाया सम्पूर्णमण्डला ॥ २२-५५ ॥
तथा तुष्ट्यमृते चैव कलाः सोमस्य षोडश ।
स्वरैरेव प्रपूज्या हि सर्वकार्यार्थसिद्धिदाः ॥ २२-५६ ॥
बालाक्रमं मस्तकेऽस्याः सम्पूज्य तदनन्तरम् ।
तस्या मदनगेहं तु पूजयेद्भगमालया ॥ २२-५७ ॥
त्रिकोणं तद्भगं ज्ञात्वा सर्वसिद्धिप्रदाभिधम् ।
सर्वानन्दमयं मध्ये चक्रयुग्मं प्रपूजयेत् ॥ २२-५८ ॥
पूर्ववत्क्रमयोगेन (ण) श्रीविद्यां तत्र पूजयेत् ।
धूपादिकं समर्प्याथ स्वलिङ्गे तदनन्तरम् ॥ २२-५९ ॥
तारं च भुवनेशानि महात्रिपुरसुन्दरि ।
नमः शिवाय विद्येयं दशार्णा परिकीतीता ॥ २२-६० ॥
अनया विद्यया देवि स्वलिङ्गे पूजयेच्छिवम् ।
यजेत्तत्पुरुषाघोरसद्योवामेशसञ्ज्ञया ॥ २२-६१ ॥
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ।
शान्त्यतीता च सम्पूज्या षडङ्गावरणं यजेत् ॥ २२-६२ ॥
समग्रविद्यामुच्चार्य नन्दिकेशं प्रपूजयेत् ।
मध्ये वृषणयोर्देवि गन्धपुष्पाक्षतादिभिः ॥ २२-६३ ॥
निवेद्य धूपदीपादि विजितेन्द्रियमानसः ।
सर्वक्षोभिणीं मुद्रां बद्ध्वा योनिं प्रचालयेत् ॥ २२-६४ ॥
क्षोभिण्यां वाऽथ वा देवि गजतुण्डाख्ययाऽथ वा ।
उच्चरन्भगमालां तु द्राविणीबीजमुच्चरेत् ॥ २२-६५ ॥
अक्षुब्धः सन् वरारोहे यावद्रेतः प्रवर्तते ।
रजोमयं रजः साक्षात्संविदेव न संशयः ॥ २२-६६ ॥
प्रकृतिः परमेशानि वीर्य पुरुष उच्यते ।
सर्वं साक्षात्सामरस्यं शिवशक्तिमयं ततः ॥ २२-६७ ॥
तयोर्योगो महेशानि योग एव न संशयः ।
सीत्कारो मन्त्ररूपस्तु वचनं स्तवनं भवेत् ॥ २२-६८ ॥
नखदन्तक्षतान्यत्र पुष्पाणि विविधानि च ।
कूजनं गायनं स्तुत्या ताडनं हवनं भवेत् ॥ २२-६९ ॥
आलिङ्गनं तु कस्तूरीघुसृणादिकमद्रिजे ।
मर्दनं तर्पणं विद्धि वीर्यपातो विसर्जनम् ॥ २२-७० ॥
कुलद्रव्येण संशोध्य शिवशक्तिमयं प्रिये ।
बीजामृतं परब्रह्मरूपं निक्षिप्य सुन्दरि ॥ २२-७१ ॥
अर्घ्यपात्रामृते त्यक्त्वा निवीकल्पः सदाऽनघः ।
श्रीविद्याक्रममभ्यर्च्य परब्रह्ममयो भवेत् ॥ २२-७२ ॥
एतत्ते कथितं ज्ञानं सामरस्यं वरानने ।
सविकल्पस्तु देवेशि पापभाग्जायते नरः ॥ २२-७३ ॥
विचिकित्साकारो मन्त्री जायते गुरुतल्पगः ।
अत एव वरारोहे निवीकल्पः सदा भवेत् ॥ २२-७४ ॥
इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे श्रीविद्यादूतीयजनविधिर्नाम
द्वाविंशः पटलः ॥ २२ ॥