अथैकविंशः पटलः
ईश्वर उवाच –
होमान्तरं प्रवक्ष्यामि येन ब्रह्म सनातनम् ।
ज्ञानेन चतुरस्राख्यं कुण्डं सञ्चिन्त्य पूर्ववत् ॥ २१-१ ॥
आत्मभिश्चतुरस्रं तद्विज्ञेयं वीरवन्दिते ।
आत्मानो वेदसङ्ख्या हि ज्ञातव्या देशिकोत्तमैः ॥ २१-२ ॥
येषां विज्ञानमात्रेण पुनर्जन्म न विद्यते ।
साधारणेन पक्षेण वर्तते सर्वजन्तुषु ॥ २१-३ ॥
स आत्मा परमेशानि प्राणरूपी वरानने ।
प्राणस्तु पवनो देवि हृदयस्थानमन्दिरः ॥ २१-४ ॥
शरीरं व्याप्य सकलं चरस्याप्यचरस्य च ।
हंसस्वरूपी विज्ञेयः श्वासोच्छ्वासविलासवान् ॥ २१-५ ॥
जीव इत्येव नामास्य भ्रान्त्या भासान्न वस्तुतः ।
श्वासोच्छ्वासो देहभावाद्भ्रान्तिरेव न संशयः ॥ २१-६ ॥
कुलालचक्रभेदेन घटाकाशं यथा घटे ।
दृश्यते परमेशानि आकाशं व्याप्य तिष्ठति ॥ २१-७ ॥
घटे भवति भिन्नत्वं नाऽऽकाशे भिन्नता भवेत् ।
तथा देहगतो जीवो देहनाशे वरानने ॥ २१-८ ॥
व्याप्य तिष्ठति सर्वत्र तस्मादात्मा परं महत् ।
आत्मज्ञानं मया प्रोक्तं द्वितीयस्य शृणु प्रिये ॥ २१-९ ॥
अन्तरात्मेति किं नाम तच्छृष्णुष्व पदं महत् ।
अन्तःशब्देन देवेशि रहस्यं सूक्ष्मरूपकम् ॥ २१-१० ॥
परमाणुस्वरूपेण सर्वं व्याप्य विजृम्भते ।
अन्तरङ्गतया तेन चरं वाऽप्यथ वाऽचरम् ॥ २१-११ ॥
व्याप्यते सकलं तस्मादन्तरात्मेति गीयते ।
स एव हंस आत्मा हि योगिगम्यो यदा भवेत् ॥ २१-१२ ॥
तारचञ्चुर्वरारोहे निगमागमपक्षवान् ।
शिवशक्तिपदद्वन्द्वो बिन्दुत्रयविलोचनः ॥ २१-१३ ॥
अयं परमहंसस्तु सृष्टिं व्याप्यावतिष्ठति ।
तदा भूतानि जायन्ते क्रमेण कमलेक्षणे ॥ २१-१४ ॥
आकाशं पवनोऽग्निश्च जलं पृथ्वी वरानने ।
पञ्चकस्यास्य देवेशि प्रथमं चित्तमुच्यते ॥ २१-१५ ॥
अविद्याख्यसरोमध्ये मोहपङ्कप्रपूरिते ।
प्रपञ्चकमले भूतपञ्चकपरिजृम्भिते ॥ २१-१६ ॥
विहारोऽस्यैव हंसस्य सृष्ट्या मायामयो भवेत् ।
अयमेव महादेवि निष्प्रपञ्चो यदा भवेत् ॥ २१-१७ ॥
संहाररूपी हंसस्तु तदाऽऽत्मानं प्रदर्शयेत् ।
पक्षित्वमस्य नास्त्येव सोऽहमात्मा प्रतिष्ठितः ॥ २१-१८ ॥
परमात्मेति जानीहि त्रयमेतदुदाहृतम् ।
पक्षपुच्छशिरो देवि आकारप्रतिभासकः ॥ २१-१९ ॥
ज्ञानात्मा कथ्यते भद्रे यः साक्षात्साक्षिरूपकः ।
येनेदं ज्ञायते सर्वं समत्वेन वरानने ॥ २१-२० ॥
चन्द्रबिम्बं यथा देवि जलक्षीरेषु दृश्यते ।
न लिप्तस्त { सं त} स्य देवशि नीरक्षीरविभेदतः ॥ २१-२१ ॥
कर्दमे चन्दने बिम्बं न भवेल्लिप्तमद्रिजे ।
सर्वसाक्षी तथा भद्रे ज्ञानात्मा परिकीतीतः ॥ २१-२२ ॥
आत्मान्तरात्मपरमज्ञानात्मानः प्रकीतीताः ।
एतद्रूपं हि चित्कुण्डं चतुरस्रं वरानने ॥ २१-२३ ॥
आनन्दमेखलारम्यं बिन्दुत्रिवलयाङ्कतम् ।
अर्धमात्रा योनिरूपं ब्रह्मानन्दमयं सदा ॥ २१-२४ ॥
पराहन्तामये सर्वज्ञानदीपविजृम्भिते ।
संविदग्नौ हुनेद्देवि प्रपञ्चहविरुत्कटम् ॥ २१-२५ ॥
शब्दाख्यं मातृकारूपमक्षवर्णविराजितम् ।
अक्षराणि हुतान्यत्र निःशब्दं ब्रह्म जायते ॥ २१-२६ ॥
पुण्यपापे हविर्देवि कृत्याकृत्ये हविः प्रिये ।
सङ्कल्पश्च विकल्पश्च धर्माधर्मौ हविस्तथा ॥ २१-२७ ॥
जुहुयात्परमेशानि मन्त्राभ्यां विमलानने ।
मूलविद्यां ब्रह्मरूपां ध्यात्वा तु तदनन्तरम् ॥ २१-२८ ॥
तदन्ते चोच्चरेत्पश्चाद्ब्रह्मप्रात्यै तु देशिकः ।
धर्माधर्महविर्दीप्त आत्माग्नौ मनसा स्रुचा ॥ २१-२९ ॥
सुषुम्नावर्त्मना नित्यमक्षवृत्तिं जुहोम्यहम् ।
स्वाहान्तेन हुनेद्देवि सकलं निष्कलं जगत् ॥ २१-३० ॥
अन्तर्होममनुर्देवि सर्वमायानिकृन्तनः ।
प्रकाशाकाशहस्ताभ्यामवलम्ब्योन्मनीस्रुचा ॥ २१-३१ ॥
धर्माधर्मौ कलास्नेहपूर्णवह्नौ जुहोम्यहम् ।
अग्निजायान्वितो मन्त्रो विद्यान्ते कथतस्तव ॥ २१-३२ ॥
निप्रपञ्चे यदा देवि जायते मन्त्रवित्तमः ।
तदा सच्चिन्मयः साक्षात्केवलं ब्रह्म साधकः ॥ २१-३३ ॥
दश सोऽहं जुहंसोऽपि पीत्वा मृत्युं सुखी भवेत् ॥ २१-३४ ॥
इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे ज्ञानहोमविधि–
र्नामैकविंशः पटलः ॥ २१ ॥