२०

अथ विंशः पटलः

श्रीदेव्युवाच –

जपहोमविधिं ब्रूहि येन विघ्नं विनाशयेत् ।
साधकानां हिताय त्वं वद शङ्कर सुव्रत ॥ २०-१ ॥

ईश्वर उवाच –

शृणु देवि प्रवक्ष्यामि जपहोमविधिं प्रिये ।
चक्रं समर्चयेद्देवि सकलं नियतव्रतः ॥ २०-२ ॥
बाह्यं मध्यगतं वाऽपि मध्यं वा चक्रमर्चयेत् ।
उपचारैः समाराध्य सहस्रं प्रजपेच्छुचिः ॥ २०-३ ॥
तदग्रे संस्थितो मन्त्री तदनन्तफलं भवेत् ।
ध्यात्वाऽथ वा चक्रराजमत्र पूजासमन्वितम् ॥ २०-४ ॥
जपारम्भं सुधीः कुर्यान्महापातकहा भवेत् ।
निगदेनोपांशुना वा मानसेनाथ वा जपेत् ॥ २०-५ ॥
निगदः परमेशानि स्पष्टवाचा निगद्यते ।
अव्यक्तस्तु स्फुरद्वक्त्र उपांशुः परिकीतीतः ॥ २०-६ ॥
मानसस्तु वरारोहे चिन्तनाक्षररूपवान् ।
निगदेन तु यज्जप्तं लक्षमात्रं वरानने ॥ २०-७ ॥
उपांशुस्मरणेनैव तुल्यं भवति शैलजे ।
उपांशु लक्षमात्रं तु यज्जप्तं कमलेक्षणे ॥ २०-८ ॥
मानसोच्चारणात्तुल्यमेकेन परमेश्वरि ।
मुद्रासन्नद्धदेहः सन्पूर्वोक्तध्यानयोगतः ॥ २०-९ ॥
लक्षमात्रं जपेद्यस्तु महापापैः प्रमुच्यते ।
लक्षद्वयेन पापानि सप्तजन्मभवान्यपि ॥ २०-१० ॥
महापातकमुख्यानि नाशयेन्नात्र संशयः ।
ततो लक्षत्रयं जप्त्वा यस्तु मन्त्रं कुलेश्वरि ॥ २०-११ ॥
महापातककोटीस्तु नाशयेन्नात्र संशयः ।
चतुर्लक्षं जपेद्देवि स हि वागीश्वरो भवेत् ॥ २०-१२ ॥
कुबेर एव देवेशि पञ्चलक्षान्न संशयः ।
षड्लक्षजपमात्रेण महाविद्याधरो भवेत् ॥ २०-१३ ॥
सप्तलक्षजपान्मन्त्री खेचरीमेलको भवेत् ।
अष्टलक्षजपान्मन्त्री देवपूज्यो भवेन्नरः ॥ २०-१४ ॥
अणिमाद्यष्टसिद्धीनां नायको भवति प्रिये ।
वशगास्तस्य राजानो योषितस्तु विशेषतः ॥ २०-१५ ॥
नवलक्षप्रमाणं तु जपेत् त्रिपुरसुन्दरीम् ।
रुद्रमूतीः स्वयं कर्ता हर्ता साक्षान्न संशयः ॥ २०-१६ ॥
सर्ववन्द्यः सदा सर्वस्वस्थः सौभाग्यभाग्भवेत् ।
यत्र वा कुवचिद्भागे लिङ्गं यत्पश्चिमामुखम् ॥ २०-१७ ॥
स्वयम्भूबाणलिङ्गं वा वृषशून्यं जलस्थितम् ।
पश्चिमायतनं चापि इतरद्वाऽपि सुव्रते ॥ २०-१८ ॥
शक्तिक्षेत्रेषु गङ्गायां नद्यां पर्वतमस्तके ।
पवित्रे सुस्थले देवि जपेद्विद्यां प्रसन्नधीः ॥ २०-१९ ॥
तत्र स्थित्वा जपेल्लक्षं साक्षाद्देवीस्वरूपकः ।
ततो भवति विद्येयं त्रैलोक्यवशकारिणी ॥ २०-२० ॥
एवं जपेद्यथाशक्ति होमकर्म समारभेत् ।
किंशुकैर्हवनं कुर्याद्दशांशेन वरानने ॥ २०-२१ ॥
कुसुम्भकुसुमैर्दैवि मधुत्रयविमिश्रितैः ।
विधिनोक्तप्रकारेण विघ्नौघं नाशयेत्क्षणात् ॥ २०-२२ ॥
सर्वकामप्रदा राज्यभुक्तिमुक्तिफलप्रदा ।
कुण्डं विरच्य विधिवत्सर्वलक्षणलक्षितम् ॥ २०-२३ ॥
योनिकुण्डं वाक्प्रदं स्यादाकृष्टिकरणं भगम् ।
लक्ष्मीप्रदं वर्तुलं स्याच्चन्द्रार्धे हि त्रयं भवेत् ॥ २०-२४ ॥
नवत्रिकोणकुण्डं तु खेचरीसिद्धिदायकम् ।
चतुरस्रं शान्तिलक्ष्मीपुष्टिवृद्ध्यम्बुकारणम् ॥ २०-२५ ॥
षडस्रं सर्वसम्पत्तिधनसौभाग्यवर्धनम् ।
पद्माङ्कं सर्वसम्पत्तिकारणं सुरवन्दिते ॥ २०-२६ ॥
अष्टपत्रं वरारोहे समीहितफलप्रदम् ।
एतानि सर्वकार्याणि चतुरस्रे भवन्ति हि ॥ २०-२७ ॥
शृणु देवि प्रवक्ष्यामि चतुरस्रस्य लक्षणम् ।
चतुरस्रं समं हस्तमात्रं विरचयेत्सुधीः ॥ २०-२८ ॥
मेखलासहितं देवि शृणु लक्षणमुत्तमम् ।
पञ्चदशाङ्गुलं खातं रमणीयं यथा भवेत् ॥ २०-२९ ॥
कण्ठदेशेऽङ्गुलं त्यक्त्वा नवाङ्गुलसमुन्नता ।
षडङ्गुलप्रविस्तारा मेखला प्रथमा भवेत् ॥ २०-३० ॥
द्वितीया मेखला देवि चतुरङ्गुलविस्तरा ।
सप्ताङ्गुलोच्चा कर्तव्या तृतीया मेखला ततः ॥ २०-३१ ॥
पञ्चाङ्गुलोच्चा देवेशि विस्तारे द्व्यङ्गुला भवेत् ।
वेदाग्निपक्षविस्तारा कर्तव्या मेखला प्रिये ॥ २०-३२ ॥
कर्तव्यमथ वा खातं द्वादशाङ्गुलसम्मितम् ।
द्वादशाष्टतदर्धैस्तु मेखला देवि कारयेत् ॥ २०-३३ ॥
चतुरङ्गुलमायामो तथा चैवोच्चता भवेत् ।
कुण्डस्य पश्चिमे भागे योनिं कुर्यात्सुलक्षणाम् ॥ २०-३४ ॥
द्वादशाङ्गुलदीर्घी तु तथाऽष्टाङ्गुलविस्तराम् ।
अश्वत्थपर्णरूपां तु त्रिकोणां वा विचक्षणः ॥ २०-३५ ॥
अथ चैकतमे पक्षे शृणु वक्ष्ये हि लक्षणम् ।
अष्टादशाङ्गुलं खातं कुण्डं कुर्याद्विचक्षणः ॥ २०-३६ ॥
चतुरङ्गुलविस्तारा षडङ्गुलसमुन्नता ।
मेखला पूर्ववत्कार्या योनिश्चापि तथा भवेत् ॥ २०-३७ ॥
चतुवींशाङ्गुलं कुण्डं त्रिकोणं परितः पृथक् ।
खातं तु पूर्ववत्कुर्यात्कण्ठे हित्वाऽङ्गुलं तथा ॥ २०-३८ ॥
पूर्ववन्मेखलाः कार्या एकाऽपि च तथा भवेत् ।
योनिस्तद्वन्महेशानि त्रिकोणं परिकीतीतम् ॥ २०-३९ ॥
चतुरस्रेण कुण्डेन समं कुण्डं यथा भवेत् ।
तथा परिमितं कुर्यात्त्रिकोणादिकमद्रिजे ॥ २०-४० ॥
योनिकुण्डं योनिरूपं भगाङ्कं भगरूपकम् ।
कुर्यात्त्रिकोणवद्देवि चतुरस्रस्य सङ्ख्यया ॥ २०-४१ ॥
चतुर्हस्तमितं सूत्रं वर्तुलाकृति योजयेत् ।
वर्तुलं रचयेत्तेन खननं पूर्ववद्भवेत् ॥ २०-४२ ॥
मेखला पूर्ववद्योनिस्तथैव परिकीतीता ।
अर्धचन्द्रं तु कुण्डं हि परिवेषक्रमेण च ॥ २०-४३ ॥
चतुर्हस्तमितं कुर्यादर्धचन्द्रं यथा भवेत् ।
मेखला योनिसहिता पूर्ववत्परमेश्वरि ॥ २०-४४ ॥
नवत्रिकोणकुण्डं तु कथयामि वरानने ।
मध्यचक्रेण सदृशं कुण्डं कुर्याद्विचक्षणः ॥ २०-४५ ॥
मध्यत्रिकोणं देवेशि त्रिकोणमिव पूर्ववत् ।
मेखलारहितं तेन नवकोणं यथा भवेत् ॥ २०-४६ ॥
सन्धिभेदक्रमेणैव ततः कोणाष्टकं भवेत् ।
खनेत्तत्तत्प्रकारेण गणितेन यथाक्रमम् ॥ २०-४७ ॥
मेखलाः पूर्ववत्कार्यास्त्यक्त्वा कण्ठेऽङ्गुलं क्रमात् ।
योनिस्तथैव रचयेत्सर्वसौभाग्यवर्धनी ॥ २०-४८ ॥
अष्टपत्रं महेशानि कमलाकृति सम्भवेत् ।
चतुरस्रस्य मानेन यथा चाष्टदलं भवेत् ॥ २०-४९ ॥
एकत्र खननं चास्य कुर्यान्नेत्रसुखप्रदम् ।
मेखला पूर्ववत्कार्या पद्माकृतिसुखावहा ॥ २०-५० ॥
योनिस्तथैव देवेशि कुर्यात्सर्वसमृद्धये ।
एवं विरच्य कुण्डं हि होमं कुर्याद्विचक्षणः ॥ २०-५१ ॥
दीपस्थानं समाश्रित्य कुण्डस्य रचना भवेत् ।
वर्तुलं रचयेद्देवि कूर्माकृति सुलोचने ॥ २०-५२ ॥
तन्मध्ये नव कोष्ठानि कृत्वा वर्णान्समालिखेत् ।
मध्यकोष्ठे क्षेत्रनाम ततोऽन्यत्र समालिखेत् ॥ २०-५३ ॥
स्वरयुग्मं क्रमेणैव दिक्षु चाष्टसु योजयेत् ।
अवर्गः कथितो देवि कवर्गादिकसप्तमम् ॥ २०-५४ ॥
पूर्वादक्रमतो देवि कुबेरान्तं ततो लिखेत् ।
लक्षवर्णौ शम्भुकोणे विलिखेत्कूर्मसञ्ज्ञके ॥ २०-५५ ॥
यस्मिन्कोष्ठे क्षेत्रनाम तन्मुखं विद्धि पार्वति ।
मुखस्य पार्श्वयोः पाणियुग्मं जानीहि पार्वति ॥ २०-५६ ॥
ततः पार्श्वद्वयं कुक्षिस्थानं हि सुरवन्दिते ।
ततः पादद्वयं विद्धि चान्ते पुच्छं प्रकीतीतम् ॥ २०-५७ ॥
मुखे कार्याणि सिध्यन्ति मनोरथशतानि हि ।
करस्थाने महाक्लेशः सर्वकार्यविनाशकृत ॥ २०-५८ ॥
उदरे दुःखमधिकं पादयोर्हानिरुच्यते ।
पुच्छे तु धनहानिश्च जायते नान्यथा भवेत् ॥ २०-५९ ॥
दीपस्थानं मया प्रोक्तं त्रिषु लोकेषु दुर्लभम् ।
दीपस्थानं पुरे पश्येद्ग्रामे वा विषयेऽपि वा ॥ २०-६० ॥
यत्र कुत्रापि वा पश्येत्कार्यसिद्धिर्भवेत्प्रिये ।
क्षेत्राधिपस्य नाम्ना हि दीपस्थानं विचारयेत् ॥ २०-६१ ॥
दीपस्थाने जपं कुर्याद्धोमं च फलदं सदा ।
कुण्डं सुलक्षणं कुर्यादीशाने मण्डपस्य च ॥ २०-६२ ॥
अङ्गुष्ठपर्वमात्रोच्चं वालुकामण्डलं कुरु ।
गोमयेन च संलिप्तभूम्यां सुस्थलरूपकम् ॥ २०-६३ ॥
तत्र चोल्लेखनं कुर्यात्त्रिरेखाः पश्चिमाः क्रमात् ।
पूर्वाग्रे विलिखेत्पश्चात्तिस्रो रेखाः प्रदक्षिणाः ॥ २०-६४ ॥
उत्तरान्तास्ततो देवि लेखनीं तत्र सङ्क्षिपेत् ।
प्रोक्षणं च ततः कृत्वा सिन्दूरेण ततः परम् ॥ २०-६५ ॥
कुङ्कुमेनाथ वा देवि कर्पूररजसाऽथ वा ।
चूर्णेन वा हरिद्राया धान्यपिष्टेन वा प्रिये ॥ २०-६६ ॥
त्रिकोणं चैव षट्कोणं वसुपत्रं समालिखेत् ।
चतुरस्रं चतुर्द्वारमेवं मण्डलमालिखेत् ॥ २०-६७ ॥
मध्ये पुष्पं विनिक्षिप्य त्रिपुरेश्या वरानने ।
ततः स्रुवादिपात्राणां पवित्रीकरणं यजेत् ॥ २०-६८ ॥
इध्मदूर्वाश्च दर्भाश्च द्विधा कृत्वा वरानने ।
आज्यस्थालीं चरुस्थालीं स्थापयेद्युग्मभेदतः ॥ २०-६९ ॥
स्रुवं स्रुचं ततः पश्चात्प्रणीतां प्रोक्षणीं क्रमात् ।
द्वन्द्वशः परमेशानि स्थापयाधोमुखानि च ॥ २०-७० ॥
अर्ध्यपात्रस्थमुदकं गृहीत्वा प्रोक्षणीं यजेत् ।
त्रिधा चोत्पवनं कृत्वा प्रोक्षयेत्तेन वारिणा ॥ २०-७१ ॥
तानि सर्वाणि पात्राणि पवित्रीकरणं भवेत् ।
उन्मुखानि ततः कृत्वा बालया चाभिमन्त्रयेत् ॥ २०-७२ ॥
परिस्तीर्य च दूर्वाभिः कुण्डस्य परितः प्रिये ।
पूर्वाग्रमुत्तराग्रं च परिस्तरणमुच्यते ॥ २०-७३ ॥
स्रुवं गृहीत्वा वामेन करेण सुमुखं ततः ।
दुर्भाङ्कुरेण तद्वक्त्रं पश्चिमात्पूर्वदेशतः ॥ २०-७४ ॥
त्रिवारं परिमृज्याथाधस्तत्करणमानयेत् ।
उपरिष्टात्ततो देवि यावद्वक्त्रं तु मन्त्रयेत् ॥ २०-७५ ॥
बालयाऽथ वरारोहे पवित्राणि भवन्ति हि ।
मूलविद्यां समुच्चार्य कुण्डाय नम आलिखेत् ॥ २०-७६ ॥
अनेन मनुना देवि कुण्डं सम्पूजयेत्सुधीः ।
कामेश्वरीं कुण्डमध्ये सकामामृतुसंयुताम् ॥ २०-७७ ॥
समावाह्य च सम्पूज्य तद्गर्भे वह्निमानयेत् ।
मूलविद्यानेत्रमन्त्रार्णद्वयेन विलोकयेत् ॥ २०-७८ ॥
अस्रमन्त्रेण संरक्ष्य सम्पुटस्थं ततः परम् ।
भ्रामयेत्कुण्डपरितस्त्रिधा दक्षिणतः क्रमात् ॥ २०-७९ ॥
सम्पुटादग्निखण्डं तु हुम्फडन्तेन सन्त्यजेत् ।
क्रव्यादंशं कोणभागे राक्षसे वीरवन्दिते ॥ २०-८० ॥
कवचेन च सम्पूज्य जानुभ्यामवनिं गतः ।
कुण्डमध्ये प्रतिष्ठाप्य कामबीजं च वह्नि च ॥ २०-८१ ॥
मूर्तये नम आलिख्य मनुना पूजयेच्छिवाम् ।
नाभिमण्डलदेशस्थवहन्नाडीपुटक्रमात् ॥ २०-८२ ॥
ज्ञानाग्निं बाह्यवह्निं च एकीकृत्य प्रपूजयेत् ।
मूलविद्यां समुच्चार्य आंसोहमिति चोच्चरेत् ॥ २०-८३ ॥
वह्निचैतन्यमुच्चार्य ङेन्तं हृन्मन्त्रसंयुतम् ।
अनेन मनुना गर्भे कामेश्वर्या विचिन्तयेत् ॥ २०-८४ ॥
वर्ह्नेदेहे षडङ्गानि योजयेत्सुरवन्दिते ।
सहस्राचीः स्वस्तिपूर्ण उत्तिष्ठ पुरुषस्तथा ॥ २०-८५ ॥
धूमव्यापी सप्तजिह्वो धनुर्धर उदाहृतः ।
चतुर्थ्यन्तान्षडङ्गेषु योजयेत्कमलेक्षणे ॥ २०-८६ ॥
तारं वैश्वानरप्रान्ते जातवेद इहाऽऽवह ।
लोहिताक्ष ततः सर्वकर्माणीति च साधय ॥ २०-८७ ॥
वह्निजायान्वितो मन्त्रो वह्निं सम्यक्समर्चयेत् ।
ध्यायेद्वह्निं हेमवर्णं शक्तिस्वस्तिकधारिणम् ॥ २०-८८ ॥
वरदायकशोभाढ्यं सुवर्णवरभूषणम् ।
एवमग्निं समभ्यर्च्य तन्मुखे कमलेक्षणे ॥ २०-८९ ॥
षट्कोणं चिन्तयेत्तत्र सप्त जिह्वाः समर्चयेत् ।
वह्निवायुं वामकर्णं भूषितं नादबिन्दुना ॥ २०-९० ॥
अनेन योजयेद्देवि क्रमेण रसनाः प्रिये ।
यकारादिसकारान्ता जिह्वाः सप्त भवन्ति हि ॥ २०-९१ ॥
पद्मरागतप्तहेमवर्णा हि सुरवन्दिते ।
हिरण्याख्याः शम्भुकोणे पूजयेत्सुरवन्दिते ॥ २०-९२ ॥
वैदूर्याभा सुवर्णा तु कनकाख्या ततः परम् ।
पूर्वकोणे समभ्यर्च्य पूजयेद्रुद्रलोहिताम् ॥ २०-९३ ॥
उद्यदादित्यसङ्काशां रक्ताख्यां वह्निकोणके ।
नीलां नीलप्रभां देवि कृष्णाख्यां राक्षसे यजेत् ॥ २०-९४ ॥
श्वेतां मुक्ताप्रभां देवि शुभ्राख्यां पश्चिमे यजेत् ।
धूमिनीं पद्मरागाभां वायौ रक्ततरां यजेत् ॥ २०-९५ ॥
करालीं चन्द्रकोट्याभां बहुरूपां तु मध्यगाम् ।
दक्षिणोत्तरभागस्थां पूजयेत्सर्वसिद्धिदाम् ॥ २०-९६ ॥
क्रमेण जिह्वाबीजान्ते नामानि परिपूजयेत् ।
अग्निर्हुतवाहनेऽथ हुताशनेऽथ वर्त्मने ॥ २०-९७ ॥
देवमुखः सप्तजिह्वो वैश्वानरो जातवेदाः ।
क्रमेण पूजयेतत्र अष्टौ नामान्यनुक्रमात् ॥ २०-९८ ॥
एवमग्निं तु सम्पूज्य कामेशीगर्भसम्भवम् ।
दर्भकङ्कणमादाय करबन्धं सुलोचने ॥ २०-९९ ॥
मूलमन्त्रेण बाणेन चतुर्थेन च होमयेत् ।
गर्भाधानं विधायेत्थं सीमन्तोन्नयनादिकम् ॥ २०-१०० ॥
कामेशीगर्भजातस्य वह्नेश्चौलादिसत्क्रियाः ।
मूलमन्त्रेण सञ्चिन्त्य बाह्यचक्रं समचंयेत् ॥ २०-१०१ ॥
षट्कोणेषु षडङ्गानि वसुकोणेषु मातरः ।
लोकपालांश्च भूबिम्बे वह्निं प्रौढं विचिन्तयेत् ॥ २०-१०२ ॥
ब्रह्माणं दक्षिणेऽभ्यर्च्य घृतस्थालीं प्रपूजयेत् ।
वह्निं सम्पूज्य विधिवत्तन्मुखे शैलसम्भवे ॥ २०-१०३ ॥
चक्रराजं समावाह्य सर्वरश्मिसमन्वितम् ।
सर्वसिंहासनैः सेव्यमुपचारैः समर्चयेत् ॥ २०-१०४ ॥
धूपं विस्तारयेत्सम्यक्कुण्डमण्डपपूरितम् ।
दीपं च दर्शयेन्मन्त्री ततो दीपान्बहु प्रिये ॥ २०-१०५ ॥
मालाकारेण संवेष्ट्य मेखलात्रयमाद्रिजे ।
विस्तार्य चरुकं पश्चात्सर्वदिक्षु सुखाप्तये ॥ २०-१०६ ॥
नित्यहोमं ततः प्रोक्तं कामनाहोममाचरेत् ।
मालतीजातिकामल्लीकुसुमैर्मधुमिश्रितैः ॥ २०-१०७ ॥
घृतपूर्णैर्हुनेद्देवि वागीशत्वं प्रजायते ।
मूकस्यापि च मूढस्य शिलारूपस्य नान्यथा ॥ २०-१०८ ॥
जपापुष्पैराज्ययुक्तैः करवीरैस्तथाविधैः ।
हवनान्मोहयेन्मन्त्री लोकत्रयनिवासिनः ॥ २०-१०९ ॥
कर्पूरकुङ्कुमे देवि मिश्रं मृगमदेन हि ।
हवनान्मदनो देवि मन्त्रिणा विजितो भवेत् ॥ २०-११० ॥
सौभाग्येन विलासेन सामर्थ्येनापि सुव्रते ।
चम्पकैः पाटलैर्हुत्वा श्रियं प्रोल्लसिताम्बराम् ॥ २०-१११ ॥
मन्त्री प्राप्नोति महतीं स्तम्भयेज्जगतीभिमाम् ।
श्रीखण्डं गुग्गुलं चन्द्रमगरुं होमयेत्ततः ।
राजनागेन्द्रदेवानां पुरन्ध्रीर्वशमानयेत् ॥ २०-११२ ॥
सर्वलोका वशास्तस्य भवन्त्येव न संशयः ।
लाक्षाहोमाद्भवेद्राज्यं दारिद्र्यभयपीडितः ।
दुर्गोपसर्गशमनं पलत्रिमधुहोमतः ॥ २०-११४ ॥
दूरस्थितानां देवेशि गुरुणा प्रोक्तमार्गतः ।
होमं कुर्याद्वश्यकामैरन्यथा निष्फलं भवेत् ॥ २०-११५ ॥
रुधिराक्तेन च्छागस्य मांसेन निशि होमतः ।
मधुरत्रययुक्तेन गुरुणोक्तविधानतः ॥ २०-११६ ॥
परराष्ट्र्ं महादुर्गं समस्तं स्ववशं नयेत् ।
महापलेन देवेशि रिपोः सैन्यं विनाशयेत् ॥ २०-११७ ॥
खेचरो जायते रात्रौ कृत्वा होमं चतुष्पथे ।
क्षीरं मधु दधि त्वाज्यं पृथग्घुत्वा वरानने ॥ २०-११८ ॥
आयुर्धनमथाऽऽरोग्यं समृद्धिर्जायते नृणाम् ।
क्रमेण शैलजे क्षीरमधुभ्यां मृत्युनाशनम् ॥ २०-११९ ॥
दधिमाक्षिकहोमेन सौभाग्यं धनमाप्नुयात् ।
सितया केवलं होमो वैरिस्तम्भनकारकः ॥ २०-१२० ॥
होमो दधिमधुक्षीरलाजभिर्वीरवन्दिते ।
रोगहन्ता कालहन्ता मृत्युहन्ता न संशयः ॥ २०-१२१ ॥
कमलैररुणैर्होमः सम्यक्सम्पत्तिदायकः ।
रक्तोत्पलैर्जगद्वश्यं राजानो वशगाः क्षणात् ॥ २०-१२२ ॥
नीलोत्पलैर्महादुष्टा वशमायान्ति नान्यथा ।
श्वेतोत्पलैः श्रियं वाचं लभते हवनात्प्रिये ॥ २०-१२३ ॥
श्वेतैश्च ब्रह्मकमलैर्लक्ष्मीं सौभाग्यमाप्नुयात् ।
कह्लारहवनान्मन्त्री सौभाग्यं च धनं लभेत् ॥ २०-१२४ ॥
पूर्णं दाडिमहोमेन वशी कुर्यान्महासुरान् ।
मातुलुङ्गफलोद्भूतहोमेन क्षत्रिया वशाः ॥ २०-१२५ ॥
नारङ्गफलहोमेन वैश्या वश्या भवन्ति हि ।
कूष्माण्डफलहोमेन शूद्रा वश्यास्तथाऽपरे ॥ २०-१२६ ॥
द्राक्षाफलैः सिद्धयोऽष्टौ लक्षहोमान्न संशयः ।
कदलीफलहोमेन लक्षमात्रेण भूभृतः ॥ २०-१२७ ॥
वश्यास्तु दशसङ्ख्याका भवन्त्येव न संशयः ।
खर्जूरीफलहोमेन लक्षमात्रेण भूभुजः ॥ २०-१२८ ॥
वश्या विंशतिसङ्ख्याका इत्याज्ञा पारमेश्वरी ।
नारिकेलफलैर्होमात्समृद्धिर्जायते प्रिये ॥ २०-१२९ ॥
लक्षमात्रेण मन्त्रज्ञो राजाऽपर इव प्रिये ।
पक्वाम्रफलहोमेन लक्षमात्रेण सुन्दरि ॥ २०-१३० ॥
चतुःसमुद्रपर्यन्तां मेदिनी वशमानयेत् ।
पनसस्य फलैर्होमाल्लक्षेण शतभूभुजः ॥ २०-१३१ ॥
वशा भवन्ति देवेशि नात्र कार्या विचारणा ।
तिलाज्यहोमाद्देवेशि कार्यसिद्धिर्भवोत्प्रिये ॥ २०-१३२ ॥
राजिकालवणाभ्यां तु दुष्टलोकान्वशं नयेत् ।
गुग्गुलस्य च होमेन सर्वदुःखानि नाशयेत् ॥ २०-१३३ ॥
कुङ्कुमेन हुनेद्देवि त्रैलोक्यं वशमानयेत् ।
वैरिणो वशगाः शीघ्रं चन्दनस्यापि होमतः ॥ २०-१३४ ॥
रक्तचन्दनहोमेन वश्या हि पुरुषाः स्त्रियः ।
कर्पूरस्य च होमेन वाग्वश्यं जायते नृणाम् ॥ २०-१३५ ॥
कस्तूरीहोमतो देवि राजानो राजमन्त्रिणः ।
वश्या भवन्ति सकलाः परिवारयुताः प्रिये ॥ २०-१३६ ॥
तिलतण्डुलहोमेन शान्तिर्भवति मन्दिरे ।
शर्करागुडहोमेन सर्वकामार्थसाधकः ॥ २०-१३७ ॥
घृतपायसहोमेन सिता युक्तेन मान्त्रिकः ।
त्रैलोक्यं वशमायाति धान्यसिद्धिर्भवेद्ध्रुवम् ॥ २०-१३८ ॥
सोपस्करैश्च वटकैरुपसर्गान् विनाशयेत् ॥ २०-१३९ ॥
बन्धूककुसुमैर्होमः सर्वशत्रून् विनाशयेत् ।
जपापुष्पैर्जगद्वश्यं वनपुष्पैश्च मोहनम् ॥ २०-१४० ॥
बकुलस्य हुनेत्पुष्पैः सौभाग्यं जायते महत् ।
दशाङ्गधूपहोमेन सौभाग्यमतुलं भवेत् ॥ २०-१४१ ॥
जम्बूफलैः स्त्रियो वश्याः कूष्माण्डैर्दैत्यकन्यकाः ।
श्रीफलैरतुलां लक्ष्मीं पत्रैर्वा सुरवन्दिते ॥ २०-१४२ ॥
इक्षुखण्डैः सुखावाप्तिस्तद्रसाद्राजकन्यकाः ।
वश्या भवन्ति देवेशि नारिकेलजलेन वा ॥ २०-१४३ ॥
केवलं घृतहोमेन वरदाः सर्वशक्तयः ।
शृणु देवि प्रवक्ष्यामि मानं हवनसिद्धिदम् ॥ २०-१४४ ॥
पुष्पं समग्रं जुहुयात्कमलं वाऽपि पुष्कलम् ।
कुसुम्भवनपुष्पाणि यथेष्टानि हुनेत्प्रिये ॥ २०-१४५ ॥
शतसङ्ख्यास्तिला देवि राजिकाः शतसङ्ख्यया ।
लाजा मुष्टिप्रमाणास्तु घृतं गद्याणमात्रकम् ॥ २०-१४६ ॥
चुलुकार्धं पयः क्षीरमन्नं ग्रासमितं भवेत् ।
स्थूलं फलं महेशानि कूष्माण्डं मातुलुङ्गकम् ॥ २०-१४७ ॥
मनःप्रियैश्च खण्डैश्च फलं भवति निश्चयात् ।
रम्भाफलं चतुःखण्डैर्लघु चेत्खण्ड्यते न हि ॥ २०-१४८ ॥
नारिकेलस्य खण्डं हि रम्भायाः फलवत्प्रिये ।
पर्वस्थाने चेक्षुखण्डं मनःसन्तोषकारि वा ॥ २०-१४९ ॥
द्राक्षाफलं समग्रं स्यान्नारङ्गं खार्जुरं तथा ।
गुग्गुलं क्रमुकार्धं तु कुङ्कुमं च तथा भवेत् ॥ २०-१५० ॥
गुञ्जासमं च कर्पूरं कस्तूरी घुसृणं तथा ।
चन्दनं चागरुं देवि क्रमुकेन समं भवेत् ॥ २०-१५१ ॥
मनःप्रियाणि सर्वाणि फलानि हवने प्रिये ।
लाक्षा गुग्गुलसङ्ख्या स्याद्यद्यद्वस्तु मनोहरम् ॥ २०-१५२ ॥
मनःप्रियाहुतीः कृत्वा होमं कुर्यात्सुलोचने ।
एतदाहुतिमानं ते कथितं सर्वविघ्नहृत् ॥ २०-१५३ ॥
यथेच्छया वरारोहे श्रीविद्यां परितोषयेत् ।
यथाशक्ति जपं कृत्वा तद्दशांशेन होमयेत् ॥ २०-१५४ ॥
किंशुकैः पापसङ्घातनाशकैरथ वा प्रिये ।
नानाद्रव्यैः पृथग्भूतैमीश्रितैर्वा वरानने ॥ २०-१५५ ॥
यथाशक्त्या तु मिलितैर्होमं कुर्याद्विचक्षणः ।
शृणु देवि प्रवक्ष्यामि विशेषविधिमुत्तमम् ॥ २०-१५६ ॥
आदौ कुण्डं समुत्पाद्य सर्वलक्षणसंयुतम् ।
चतुरस्रं तु शोभाढ्यं शतहोमेऽर्धहस्तकम् ॥ २०-१५७ ॥
सहस्रे हस्तमात्रं च चतुरस्रं द्विहस्तकम् ।
द्विहस्तमयुते प्रोक्तं लक्षे हस्तचतुष्टयम् ॥ २०-१५८ ॥
कोटिहोमेऽष्टहहस्तं च कृत्वा कुण्डस्य लक्षणम् ।
शान्तिके चतुरस्रं तु वश्ये चैवार्धचन्द्रकम् ॥ २०-१५९ ॥
षट्कोणं स्तम्भने चैव मारणे तद्वदेव हि ।
आकर्षणे त्रिकोणं च वृत्तमुच्चाटने तथा ॥ २०-१६० ॥
नानासिद्धिहितार्थाय पद्मकोणं च सिद्धिदम् ।
उत्तरे शान्तिकं चैव स्तम्भने वारुणीं दिशम् ॥ २०-१६१ ॥
मारणं दक्षिणे चैव पश्चिमे वश्यकर्मणि ।
दाहकर्म च आग्नेये विद्वेषो नैरृते तथा ॥ २०-१६२ ॥
उच्चाटने तु वायव्य ईशान्ये (एशाने) सर्वसिद्धिदम् ।
कृत्तिका कर्षणे प्रोक्ता भरणी मारणे तथा ॥ २०-१६३ ॥
स्वाती वश्ये तथोच्चाटे ज्येष्ठा स्तभनमेव च ।
विद्वेषणे शततारं चाभिजित्वं तु शान्तिके ॥ २०-१६४ ॥
सोमे सर्वाकर्षणं च मारणं मङ्गले तथा ।
बुधेन स्तम्भ कार्यं गुरुवारे तु पौष्टिकम् ॥ २०-१६५ ॥
शुक्रे च सर्वकामास्तु भानोरथ(नावथ)शुभानि च ।
पूर्वाह्णे वश्यकर्माणि मध्यान्हे प्रीतिनाशनम् ॥ २०-१६६ ॥
उच्चाटनं चापराह्णे सन्ध्यायां मारणे तथा ।
शान्तिके अर्धरात्रं च पौष्टिकं प्रातरेव हि ॥ २०-१६७ ॥
स्तम्भने गजचर्माणि मारणे माहिषं तथा ।
मृगचर्म तथोच्चाटे छागलं वश्यकर्मणि ॥ २०-१६८ ॥
विद्वेषे जम्बुकं प्रोक्तं गोचर्मं शान्तिके तथा ।
नानासिद्धिहितार्थाय व्याघ्रचर्ममुदाहृतम् ॥ २०-१६९ ॥
श्वेतं व्याघ्रे भवेच्छान्त्यै पीतं स्तम्भनकारकम् ।
वश्याकर्षणयो रक्तं क्षोभणार्थं प्रियावहम् ॥ २०-१७० ॥
कृष्णं च मारणे प्रोक्तं धूम्रमुच्चाटनादिके ।
राजवृक्षस्य समिधो होतव्याः स्तम्भकर्मणि ॥ २०-१७१ ॥
महिषीघृतसंयुक्तं सदा वै सिद्धिदायकम् ।
मारणेऽत्यचिराहोमं समिधै {द्भि} र्दाडिमोद्भवैः ॥ २०-१७२ ॥
अजाघृतेन देवेशि वशयेत्सचराचरम् ।
विद्वेषस्यैव होतव्य { व्या } उन्मत्तसमिधस्तथा ॥ २०-१७३ ॥
अतसीतैलसंयुक्ता विद्वेषणमतः परम् ।
सर्वविघ्नसमूहं तु नाशयेन्नात्र संशयः ॥ २०-१७४ ॥
पूर्णाहुतिं ततो देवि पूजयित्वा तु कन्यकाः ।
पूजितं तेन त्रैलोक्यं कन्यका येन पूजिताः ॥ २०-१७५ ॥
बालया पूजयेद्देवी श्रीविद्यां पूजयेत्ततः ।
पञ्चसिंहासनैर्देवि श्रीविद्यां तत्र पूजयेत् ॥ २०-१७६ ॥
सुवासिनीस्ततः पूज्याः श्रीविद्यां तत्र पूजयेत् ।
विप्रान्सन्तोषयेत्पश्चाच्छ्रीविद्यां तत्र पूजयेत् ॥ २०-१७७ ॥
योगिन्यश्च तथा पूज्याः श्रीविद्यां परितोषयेत् ।
दर्शनानि समग्राणि पूजयेद्विविधानि च ॥ २०-१७८ ॥
श्रीविद्यां तोषयेत्तत्र पूर्णाहुतिमथाऽऽचरेत् ॥ २०-१७९ ॥

इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे विंशः पटलः ॥ २० ॥