१९

अथैकोनविंशः पटलः

श्रीदेव्युवाच –

त्रिपुरा परमा शक्तिस्त्रैलोक्यवशकारिणी ।
एतस्याः परमानन्दसाधनं कथय प्रभो ॥ १९-१ ॥
बीजत्रयस्य देवेश यद्यहं तव वल्लभा ।

ईश्वर उवाच –

एषा विद्या वरारोहे पारम्पर्यक्रमागता ॥ १९-२ ॥
भवबन्धं घातयन्ती संस्मृता पापहारिणी ।
जपान्मृत्युञ्जयेशानि ध्याता सर्वार्थसाधिका ॥ १९-३ ॥
दुःखदौर्भाग्यदारिद्र्यभयघ्नी पूजिता भवेत् ।
विघ्नौघशमनी चैव हवनान्नात्र संशयः ॥ १९-४ ॥
पृथग्बीजत्रयस्याहं साधनं कथयामि ते ।
शुभ्राम्बरपरीधानो गन्धकर्पूरमण्डनः ॥ १९-५ ॥
मुक्ताफलस्फुरद्रूपभूषणः शुभ्रमाल्यधृत् ।
शुभ्रमन्दिरसंविष्टो ब्रह्मचर्यसमन्वितः ॥ १९-६ ॥
पूजयेच्छुभ्रकुसुमैर्नैवेद्यमपि सूज्ज्वलम् ।
पायसं घृतसम्पन्नं तथाऽमृतफलौदनम् ॥ १९-७ ॥
घृतमोदकसम्पन्नं नानाशुभ्रान्नपूरितम् ।
नैवेद्यं दर्शयेद्देव्यै वागीश्वर्यै सुरेश्वरि ॥ १९-८ ॥
उपचारैः सुशुभ्रैश्च साधयेन्मोक्षवाङ्मयम् ।
वाग्भवाख्यां जपेद्विद्यां वागीशीं संस्मरन्बुधः ॥ १९-९ ॥
कर्पूरधवलां शुभ्रपुष्पाभरणभूषिताम् ।
अत्यन्तशुभ्रवसनां वज्रमौक्तिकभूषणाम् ॥ १९-१० ॥
मुक्ताफलामलमणिजपमालालसत्कराम् ।
पुस्तकं वरदानं च दधतीमभयप्रदाम् ॥ १९-११ ॥
एवं ध्यायेन्महेशानि सर्वविद्याधिपो भवेत् ।
मूलादिब्रह्मरन्ध्रान्तं स्रवत्पीयूषवषीणीम् ॥ १९-१२ ॥
तस्माज्ज्योतिर्मयीं ध्यायेज्जिह्वां दीपस्वरूपिणीम् ।
पाषाणेन समो वाऽपि मूर्खो जीवसमो भवेत् ॥ १९-१३ ॥
अथ कामकलाशक्तिसाधकः परमेश्वरि ।
रक्तालङ्कारसुभगो रक्तगन्धानुलेपनः ॥ १९-१४ ॥
रक्तवस्त्रावृतः सम्यङ्मध्ये कामकलात्मना ।
रक्तपुष्पैश्च विविधैः कुङ्कुमादिभिरर्चयेत् ॥ १९-१५ ॥
मूलादिब्रह्मपर्यन्तं स्फुरद्दीपस्वरूपिणीम् ।
बन्धूककुसुमाकारकान्तिभूषणभूषिताम् ॥ १९-१६ ॥
इक्षुकोदण्डपुष्पेषुवरदाभयसत्कराम् ।
तदीयकायसिन्दूरभरितं भुवनत्रयम् ॥ १९-१७ ॥
चिन्तयेत्परमेशानि त्रैलोक्यं मोहयेत्क्षणात् ।
राजानो वशमायान्ति पन्नगा राक्षसाः सुराः ॥ १९-१८ ॥
कन्दर्प इव देवेशि योषितां मानहारकः ।
मनश्चिन्तितयोषित्तु दासीव वशगा भवेत् ॥ १९-१९ ॥
चलच्चलेन्दुसङ्काशां तरुणारुणविग्रहाम् ।
चिन्तयेद्योषितां योनौ क्षोभयेत्सुरसुन्दरीः ॥ १९-२० ॥
किं पुनर्मानुषीर्देवि त्रैलोक्यमपि मोहयेत् ।
एषैव चिन्तिता देवी सिन्दूराभा हृदि क्षणात् ॥ १९-२१ ॥
आकर्षयेत्तदा शीघ्रं रम्भां वाऽपि तिलोत्तमाम् ।
रक्तवर्णां स्त्रियं ध्यात्वा तदीयसहसत्तमः (?) ॥ १९-२२ ॥
तस्या र्मूध्नि स्मरेद्बीजान्स्रवत्पीयूषवषीणीम् ।
ध्यायन्सम्मोहयेद्देवि मदनोत्तप्तमानसाम् ॥ १९-२३ ॥
क्षणमात्रेण वेशि त्रैलोक्यं वशमानयेत् ।
एतत्कामकलाध्यानात्पञ्च कामा वरानने ॥ १९-२४ ॥
मोहयन्ति जगत्सर्वं प्रयोगं शृणु पार्वति ।
पूर्वोक्तकामा देवेशि ज्ञातव्याः पञ्चसञ्ज्ञकाः ॥ १९-२५ ॥
विदर्भ्याद्येन कामेन मन्मथान्तर्गतं कुरु ।
कन्दर्पसम्पुटं कृत्वा कोणगर्भगतं ततः ॥ १९-२६ ॥
मकरध्वजसञ्ज्ञं तु सर्वमेतद्वरानने ।
मीनकेतुगतं कुर्यान्मोहयेज्जगतीमिमाम् ॥ १९-२७ ॥
त्रैलोक्यमोहनं नाम योगोऽयं परिकीतीतः ।
शृणु देवि प्रवक्ष्यामि शक्तिबीजस्य साधनम् ॥ १९-२८ ॥
सृष्टिसंहारपर्यन्तं शरीरे चिन्तयेत्पराम् ।
स्रवत्पीयूषधाराभिर्वर्षन्तीं विषहारिणीम् ॥ १९-२९ ॥
हेमप्रभाभासमानां विद्युन्निकरसुप्रभाम् ।
स्फुरच्चन्द्रकलापूर्णकलशं वरदाभयौ ॥ १९-३० ॥
ज्ञानमुद्रां च दधतीं साक्षादमृतरूपिणीम् ।
ध्यायन्विषं हरेन्मन्त्री नानाकारव्यवस्थितम् ॥ १९-३१ ॥
एतस्याः स्मरणाद्देवि नीलकण्ठत्वमागतः ।
अहं मृत्युञ्जयो भूत्वा विचरामि जले स्थले ॥ १९-३२ ॥
वैनतेयसमो मन्त्री विषभारसहस्रनुत् ।
भूतप्रेतपिशाचांश्च नाशयेद्रोगसञ्चयम् ॥ १९-३३ ॥
चातुथीकज्वरान्सर्वानपस्मारांश्च नाशयेत् ।
अथ त्रिकूटा सम्पूर्णा महात्रिपुरसुन्दरी ॥ १९-३४ ॥
चिन्तिता साधकस्याऽऽशु त्रैलोक्यवशकारिणी ।
क्रमेण नाभिहृद्वक्त्रमण्डलस्थाऽरुणप्रभा ॥ १९-३५ ॥
पद्मरागमणिस्वच्छा चिन्तनात्सुरवन्दिते ।
तस्याष्टगुणमैश्वर्यं सौभाग्यं च प्रजायते ॥ १९-३६ ॥
तन्नाम संस्मरन्मन्त्री योगिनीनां भवेत्प्रियः ।
मातृचक्रं तस्य काये तेन सार्धं सुखी भवेत् ॥ १९-३७ ॥
पुत्रवान् देवदेवेशि मन्त्री ध्यानान्न संशयः ।
यदा चक्रस्थिता पूर्णा खेचरी सिद्धिदायिनी ॥ १९-३८ ॥
चतुःषष्टिर्यतः कोट्यो योगिनीनां महौजसाम् ।
चक्रमेतत्समाराध्य संस्थिता वीरवन्दिते ॥ १९-३९ ॥
आदौ सम्बन्धिनि पदे बीजाष्टकं बहिः ।
कलां ध्यात्वाऽङ्गनासङ्गे कामराज इवापरः ॥ १९-४० ॥
पाशाङ्कुशधनुर्बाणैर्मादनैर्मोहयेत्प्रिये ।
त्रैलोक्यसुन्दरीं देवीं किं पुनर्मर्त्ययोषितः ॥ १९-४१ ॥
तथैव शक्तिसम्बन्धशस्त्रैस्तन्मयविग्रहः ।
सिद्धगन्धर्वदेवांश्च वशी कुर्यान्न संशयः ॥ १९-४२ ॥
एतामाराध्य देवेशि कामः सौभाग्यसुन्दरः ।
हरिश्च परमेशानि त्रिपुरासाधनात्प्रिये ॥ १९-४३ ॥
त्रैलोक्यमोहनो भूत्वा स्थितिकर्ताऽभवत्सदा ।
एतत्समाराधनेन ब्रह्मा सृष्टिकरोऽभवत् ।
चन्द्रसूर्यौ वरारोहे सृष्टिसंहारकारकौ ॥ १९-४४ ॥

इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रेत्रिपुराबीजत्रयसाधनविधि–
र्नामैकोनविंशः पटलः ॥ १९ ॥