अथ सप्तदशः पटलः
श्रीदेव्युवाच –
देवदेव महादेव अश्रुतार्थं महेश्वर ।
षोडशाक्षरविद्यायाः श्रीचक्रविधिमुत्तमम् ॥ १७-१ ॥
जपादिकं च यत्सर्वमेकैकाक्षरसाधनम् ।
कथयस्व महेशान यद्यहं तव वल्लभा ॥ १७-२ ॥
ईश्वर उवाच –
शृणु सर्वाङ्गसुभगे श्रीविद्याविधिमुत्तमम् ।
यस्य विज्ञानमात्रेण कर्ता हर्ता स्वयं विभुः ॥ १७-३ ॥
अनेन विधिना यत्र श्रीचक्रं क्रमसंयुतम् ।
पूज्यते तत्र सकलं वशी कुर्यान्न संशयः ॥ १७-४ ॥
नगरं वशमायाति देशमण्डलमद्रिजे ।
योषितः सकला वश्या ज्वलत्कामाग्निपीडिताः ॥ १७-५ ॥
विद्याविमूढहृदयाः साधकन्यस्तमानसाः ।
तद्दर्शनेन देवेशि जायन्ते सर्वयोषितः ॥ १७-६ ॥
अक्षमालां समाश्रित्य मातृकावर्णरूपिणीम् ।
अथ मुक्ताफलमयी वाङ्मोक्षफलदायिनी ॥ १७-७ ॥
सर्वसिद्धप्रदा नित्यं सर्वराजवशङ्करी ।
यथा मुक्ताफलमयी तथा स्फटिकनिमीता ॥ १७-८ ॥
रुद्राक्षमालिका मोक्षे सर्वसम्पत्समृद्धिदा ।
प्रवालमाला वश्ये तु सर्वकार्यार्थसाधिका ॥ १७-९ ॥
माणिक्यमाला फलदा साम्राज्यफलदायिनी ।
पुत्रजीवकमाला तु विद्यालक्ष्मीप्रदा सताम् ॥ १७-१० ॥
पद्माक्षमालया लक्ष्मीर्जायते महती परा ।
रक्तचन्दनमाला तु सर्वभोगप्रदायिनी ॥ १७-११ ॥
अक्षमालां प्रपूज्याथ चन्दनेन विलेपिताम् ।
समाश्रित्य जपेद्विद्यां लक्षमात्रं यदा बुधः ॥ १७-१२ ॥
योषितो भ्रमयन्त्येव मनस्तस्य सुनिश्चलम् ।
तदा द्वितीयलक्षं तु प्रजपेत्साधकोत्तमः ॥ १७-१३ ॥
पातालतलनागेन्द्रकन्यकाः क्षोभयन्ति तम् ।
तासां कटाक्षजालैस्तु न मोहं याति साधकः ॥ १७-१४ ॥
तदा लक्षत्रयं कुर्यात्साधकः स्थिरमानसः ।
तृतीयलक्षे सम्प्राप्ते द्रावयन्ति सुराङ्गनाः ॥ १७-१५ ॥
अभिमानेन सौन्दर्यात्सौभाग्यमदकारिणः ।
साधकं द्रावयन्त्येव ततश्चासौ मनस्थिरः ॥ १७-१६ ॥
तदा लक्षत्रयं साधु सर्वपापनिकृन्तनम् ।
एवं लक्षत्रयजपेद् व्रतस्थः स्वस्थमानसः ॥ १७-१७ ॥
सङ्क्षोभयति भूर्लोकस्वर्लोकततलवासिनः ।
पुरुषा योषितो वश्याश्चराचरमपि प्रिये ॥ १७-१८ ॥
गोरोचनादिभिर्द्रव्यैश्चक्रराजं समालिखेत् ।
अतीव सुन्दरं रम्यं तन्मध्ये प्रतिमां वराम् ॥ १७-१९ ॥
ज्वलन्तीं नामसहितां महाबीजविदभीताम् ।
चिन्तयेत्तु ततो देवि योजनानां सहस्रशः ॥ १७-२० ॥
अदृष्टपूर्वा देवेशि श्रुतमात्राऽपि दुर्लभा ।
राजकन्याऽथ वा चार्वी भयलज्जाविवजीता ॥ १७-२१ ॥
आयाति साधकं सम्यग्मन्त्रमूढा सती प्रिये ।
चक्रमध्यगतो भूत्वा साधकश्चिन्तयेद्यदा ॥ १७-२२ ॥
उद्यत्सूर्यसहस्राभमात्मानमरुणं तथा ।
साध्यमप्यरुणीभूतं कृत्वा मन्त्रं जपेद्बुधः ॥ १७-२३ ॥
अनेन क्रमयोगेण स्वयं कन्दर्परूपवान् ।
सर्वसौन्दर्यसुभगः कामिनीवल्लभो भवेत् ॥ १७-२४ ॥
सर्वलोकेषु सुभगः सर्वलोकवशङ्करः ।
सर्वरक्तोपचारैस्तु मुद्रासनद्धविग्रहः ॥ १७-२५ ॥
चक्रं प्रपूरयेद्यस्तु यस्य नाम विदभीतम् ।
स भवेद्दासवद्देवि धनाढ्ये वाऽपि भूपतिः ॥ १७-२६ ॥
चक्रमध्यगतं कुर्यान्नाम यस्यास्तु योषितः ।
अदृष्टाया महेशानि योनिमुद्राधरो बुधः ॥ १७-२७ ॥
हठादानयते शीघ्रं यक्षिणीं राजकन्यकाम् ।
नागकन्यांसाप्सरसं खेचरीं वा सुराङ्गनाम् ॥ १७-२८ ॥
विद्याधरीं दिव्यरूपामृषिकन्यां रिपुस्रियम् ।
मदनोद्भवसन्तापां स्फुरज्जघनमण्डलाम् ॥ १७-२९ ॥
कामबाणप्रभिन्नान्तःकरणां लोलचक्षुषाम् ।
महाकामकलाध्यानयोगात्तु सुरवन्दिते ॥ १७-३० ॥
क्षोभयेत्स्वर्गभूर्लोकपातालतलयोषितः ।
रोचनाभागमेकं तु भागमेकं तु कुङ्कुमम् ॥ १७-३१ ॥
अथ भागद्वयं देवि चन्दनं मर्दयेत्समम् ।
एकत्र तिलकं कुर्यात् त्रैलोक्यवशकारिणम् ॥ १७-३२ ॥
अष्टोत्तरशतावृत्त्या मन्त्रयित्वा वशं नयेत् ।
राजानं नगरं ग्रामं तेन यद्यत्प्रद्दश्यते ॥ १७-३३ ॥
मन्त्रिणा परमेशानि तत्सर्वं तस्य वश्यगम् ।
ताम्बूलं धूपमुदकं पत्रं पुष्पं फलं दधि ॥ १७-३४ ॥
दुग्धं घृतं चूर्णमन्नं वस्त्रं कर्पूरमेव च ।
कस्तूरी घुसृणं चैलां लवङ्गं जातिपत्रकम् ॥ १७-३५ ॥
फलं वा वस्तु यद्यत्तु सकलं परमेश्वरि ।
शतमष्टोत्तरं जप्त्वा यस्मै कस्मै प्रयच्छति ॥ १७-३६ ॥
स वश्यो जायते देवि नात्र कार्या विचारणा ।
स्त्रियस्तु सकला वश्या दासीभूता भवन्ति हि ॥ १७-३७ ॥
जगत्कर्षणमेतत्तु कथितं नान्यथा भवेत् ।
रहस्यस्थानके मन्त्री लिखेद्रोचनया भुवि ॥ १७-३८ ॥
चारुशृङ्गारवेषाढ्यां सर्वाभरणभूषिताम् ।
प्रतिमां सुन्दरां गीतां विलिख्य सुमनोहराम् ॥ १७-३९ ॥
तद्भालकण्ठहृन्नाभिजन्ममण्डलयोजिताम् ।
जन्मनाममहाविद्यामङ्कुशान्तवीदभीताम् ॥ १७-४० ॥
सर्वसन्धिषु देहस्य मदनाक्षरमालिखेत् ।
लीनं दाडिमपुष्पाभं चिन्तयेद्देहसन्धिषु ॥ १७-४१ ॥
तदाशाभिमुखो भूत्वा स्वयं देवीस्वरूपकः ।
मुद्रां तु क्षोभिणीं बद्ध्वा मन्त्रमष्टशतं जपेत् ॥ १७-४२ ॥
नियोज्य मदनागारे चन्द्रसूर्यकलात्मके ।
ततो विकलसर्वाङ्गी कामबाणैः प्रपीडिताम् ॥ १७-४३ ॥
अनन्यमानसां प्रेमभ्रममाणानां मदालसाम् ।
एवमाकर्षयेन्नारीं योजनानां शतादपि ॥ १७-४४ ॥
मातृकां विलिखेच्चक्रबाह्यतः सकलां प्रिये ।
भूर्जपत्रे स्वर्णपत्रे रौप्यपत्रेऽथ ताम्रजे ॥ १७-४५ ॥
अवध्यः सर्वजन्तूनां व्याघ्रादीनां विशेषतः ।
तथैव मातृकायुक्तस्वसञ्ज्ञाचक्रमण्डितः ।
कर्पूरकुङ्कुमाद्यैस्तु अजरामरतां लभेत् ॥ १७-४६ ॥
अनेन विधिना देवि रोचनागरुकुङ्कुमैः ॥ १७-४७ ॥
विलिखंश्चक्रयोगेण साध्यनाम वरानने ।
विदभीतं स्वनाम्ना तु यस्मिन्कस्न्निपि स्थितम् ॥ १७-४८ ॥
स्थावरं जङ्गमं चापि सकलं जनमण्डलम् ।
वशी कुर्यान्महेशानि पादाक्रान्तं न संशयः ॥ १७-४९ ॥
महात्रिपुरसुन्दर्याः कामकूटेन भास्वता ।
एकमेकमवष्टभ्य साध्यनामाक्षराणि च ॥ १७-५० ॥
बहिरप्यखिलैर्वर्णैर्मातृकायाः प्रवेष्टयेत् ।
हेममध्यगतं कुर्याच्छिखायां वामके भुजे ॥ १७-५१ ॥
धारयेद्यत्र कुत्रापि त्रैलोक्यवशकारकम् ।
राजेन्द्रमपि देवेशि दासभूतं करोति हि ॥ १७-५२ ॥
राजानो वाजिनः सर्पा गजा दुष्टा मदोत्कटाः ।
व्याघ्राः केसरिणो मत्ता वश्यास्तस्य भवन्ति हि ॥ १७-५३ ॥
पूर्वक्रमेण नगरनाम सन्दर्भ्य शैलजे ।
मध्ये चतुष्पथे वाऽपि चतुदीक्षु निधापयेत् ॥ १७-५४ ॥
महाक्षोभो योषितां तु जनानां महतामपि ।
तथैव सर्वदुष्टानां पुरस्थानां च जायते ॥ १७-५५ ॥
एतन्मध्यगतां पृथ्वीं सशैलवनगह्वराम् ।
ज्वलन्तीं सर्वराजेन्द्रमण्डितां सागराम्बराम् ॥ १७-५६ ॥
मासषट्कं चिन्तयेद्यः साक्षात्कामोपमो भवेत् ।
कटाक्षक्षेपमात्रेण नार्यस्तस्य वशाः प्रिये ॥ १७-५७ ॥
राजानो ब्राह्मणा वैश्याः शूद्राश्च पशवो जगत् ।
दृष्ट्वा त्वाकर्षयेद्देवि त्रैलोक्यं सचराचरम् ॥ १७-५८ ॥
सपत्नान्नाशयेद्दृष्ट्वा नात्र कार्या विचारणा ।
भूतप्रेतपिशाचांश्च ज्वरांश्चातुथीकादिकान् ॥ १७-५९ ॥
शूलगूल्मादिरोगांश्च दृष्ट्वा नाशयते क्षणात् ।
एतत्सिन्दूरसुभगं रात्रौ सम्पूजितं प्रिये ॥ १७-६० ॥
योजनानां शताद्वाऽपि सम्यगाकर्षयेस्रियम् ।
यदा दिक्षु विदिक्ष्वेवं दिविष्ठानपि सुन्दरि ॥ १७-६१ ॥
वशमानयते शीघ्रं सपुत्रपशुबान्धवान् ।
भूर्जपत्रे समालिख्य रोचनागरुकुङ्कुमैः ॥ १७-६२ ॥
तन्मध्ये नगर देशं मण्डलं खण्डमेव च ।
नाम्ना विदभीतं स्वस्य पूजयित्वा यथाविधि ॥ १७-६३ ॥
भूमिमध्यगतं कृत्वा त्रैलोक्यं वशमानयेत् ।
अथ वा धारयेत्कण्ठे शिखायां बाहुमूलके ॥ १७-६४ ॥
यत्र कुत्र स्थितं भद्रे क्षोभयेन्नगरं महत् ।
अर्कक्षीरेण संयुक्तं धत्तूरकरसं तथा ॥ १७-६५ ॥
रोचनाकुङ्कुमे चैव लाक्षालक्तकसंयुतम् ।
कस्तूरीचन्द्रसंयुक्तमेकीकृत्य ततः परम् ॥ १७-६६ ॥
चक्रमेतत्समालिख्य यस्य नाम्ना महेश्वरि ।
तस्य व्याघ्रगजव्याधिरिपुसर्पभयादिकम् ॥ १७-६७ ॥
चोरग्रहजलारिष्टशाकिनीडाकिनीभयम् ।
भयं न विद्यते देवि परमन्त्राभिचारजम् ॥ १७-६८ ॥
नित्यं सन्धारयेद्देवि कालमृत्युं विनाशयेत् ॥ १७-६९ ॥
अथवा मध्यगां देवीं त्रिकोणोभयमध्यगाम् ।
अथ स्वनामसंयुक्तां रोचनाकुङ्कुमाङ्किताम् ॥ १७-७० ॥
निधापयेच्च सप्ताहाद्दासवत्ङ्किकरो भवेत् ।
पीतद्रव्यैः समालिख्य पीतपुष्पैः समर्चयेत् ॥ १७-७१ ॥
पूर्वाशाभिमुखो भूत्वा स्तम्भयेत्सर्ववादिनः ।
सहस्रवदनो देवि मूढो भवति तत्क्षणात् ॥ १७-७२ ॥
नाम्ना यस्य स वाग्ग्मी हि पाषाण इव जायते ।
चक्रं विलिख्य देवेशि महानीलीरसेन तु ॥ १७-७३ ॥
नाम संयोज्य विधिवद्दक्षिणाभिमुखो बुधः ।
वह्नौ दग्ध्वा महेशानि मारणं वैरिणां प्रिये ॥ १७-७४ ॥
महिषाश्वपुरीषाभ्यां सम्यगाधृष्य शैलजे ।
गोमूत्रेण च संलिख्य नामसन्दर्भ्य पूर्ववत् ॥ १७-७५ ॥
क्षिप्त्वाऽऽरनालमध्यस्थं विद्वेषणकरं भवेत् ।
कृत्वा रोचनया नाम काकपक्षस्य मध्यगम् ॥ १७-७६ ॥
लम्बमानं तदाकाशे शत्रूच्चाटनकारकम् ।
महानीलीरोचनाभ्यां दुग्धलाक्षारसेन हि ॥ १७-७७ ॥
विलिख्य धारयेन्मन्त्री सर्ववर्णान्वशं नयेत् ।
अनेनैव विधानेन स्थापयेद्वारिमध्यगम् ॥ १७-७८ ॥
तेनोदकेन संस्नातः पीतं तत्सर्ववश्यकृत् ।
सौभाग्यं जायते तेन पानीयेन न संशयः ॥ १७-७९ ॥
एतन्मध्यगतां पृथ्वीं नगरीं वा सुलोचने ।
सप्ताहात्क्षोभयेत्सम्यग्ज्वलमानां विचिन्तयेत् ॥ १७-८० ॥
अथ वक्ष्ये महेशानि महापातकनाशनम् ।
शिवां सम्पूजयेद्देवि सुगन्धैः कुसुमैः प्रिये ॥ १७-८१ ॥
महापातकयुक्तात्मा तत्क्षणात्पापहा भवेत् ।
शमीदूर्वाङ्कुराश्वत्थपलाशैरथ वाऽर्कजैः ॥ १७-८२ ॥
मासेन हन्ति कलुषं सप्तजन्मकृतं नरः ।
पूर्वाशाभिमुखो भूत्वा पीतद्रव्यैः समर्चयेत् ॥ १७-८३ ॥
पीतस्थाने समालिख्य स्तम्भयेत्सर्ववादिनः ।
उत्तराशामुखो भूत्वा सिन्दूररजसा लिखेत् ॥ १७-८४ ॥
पूजयेद्विधिवद्विद्वान् सर्वलोकं वशं नयेत् ।
पश्चिमाभिमुखो भूत्वा चन्दनेन समालिखेत् ॥ १७-८५ ॥
सम्पूज्य विधिवद्विद्वान् सर्वयोषिन्मनो हरेत् ।
वल्लभो जायते देवि दासीमिव वशं नयेत् ॥ १७-८६ ॥
यमाशाभिमुखो भूत्वा चक्रे कृष्णं यदाऽर्चयेत् ।
यस्य नामाङ्कितं तस्य मन्त्रहानिः प्रजायते ॥ १७-८७ ॥
अग्निराक्षसवायव्यशम्भुकोणेषु पूजितम् ।
पूर्ववत्परमेशानि क्रमेण परिपूजितम् ॥ १७-८८ ॥
स्तम्भविद्वेषणव्याधिशत्रूच्चाटकरं भवेत् ।
रोचनालिखितं चक्रं क्षीरमध्ये क्षिपेद्बुधः ॥ १७-८९ ॥
सर्ववश्यकरं देवि भवत्येव न संशयः ।
गोमूत्रमध्यगं सम्यक्शत्रूच्चाटकरं भवेत् ॥ १७-९० ॥
तैलस्थं चक्रराजं तद्विद्वेषणकरं भवेत् ।
ज्वलज्ज्वलनमध्यस्थं शत्रुनाशकरं भवेत् ॥ १७-९१ ॥
यदेकान्ते चतुर्मार्गे सिन्दूररजसा लिखेत् ।
सर्वबाह्यत आरभ्य यावन्मध्यं महेश्वरि ॥ १७-९२ ॥
आकारादिक्षकारान्तां मातृकां तत्र विन्यसेत् ।
पूजयेद्रात्रिसमये कुलाचारक्रमेण तु ॥ १७-९३ ॥
साधकः खेचरो देवि जायते नात्र संशयः ।
गिरावेकतरौ तद्वदर्चयेत्कुलमार्गतः ॥ १७-९४ ॥
अजरामरतां लब्ध्वा सुखी भवति मान्त्रिकः ।
श्मशाने पूजयेच्चक्रं महाभूतदिने बुधः ॥ १७-९५ ॥
पूर्वक्रमेण विधिवत्साधकः स्थिरमानसः ।
खड्गसिद्धिं च मनःसिद्धिं च गुटिकामपि ॥ १७-९६ ॥
पादुकां वेतालसिद्धिं च मनःसिद्धिं च धातुदाम् ।
महाविवरसिद्धिं च यक्षिणीचेटकोद्भवाम् ॥ १७-९७ ॥
सर्वं तल्लभते मन्त्री नात्र कार्या विचारणा ।
अथ वक्ष्ये महेशानि श्रीविद्यापूजनं महत् ॥ १७-९८ ॥
ब्रह्महत्यादिदोषाणां पुरश्चरणमुत्तमम् ।
रक्तपद्मैर्महेशानि पूजयेच्चक्रमुत्तमम् ॥ १७-९९ ॥
समस्तरश्मिसहितं नित्याम्नायपुरस्कृतम् ।
कुलाचारक्रमाद्देवि कर्पूरक्षोदमण्डितम् ॥ १७-१०० ॥
मासमात्रेण देवेशि महापातककोटयः ।
जन्मान्तरकृता सर्वा नाशयेन्नात्र संशयः ॥ १७-१०१ ॥
लक्ष्मीस्तस्य गृहे रम्या सुस्थिरा सुरवन्दिते ।
जपापुष्पैर्महेशानि पूर्ववत्पूजयेच्छिवाम् ॥ १७-१०२ ॥
मासमात्रं क्रमेणैव पूर्ववत्परमेश्वरि ।
ब्रह्महत्यादिपापांश्च पूर्वजन्मकृतान्प्रिये ॥ १७-१०३ ॥
नाशयेन्नात्र सन्देहो धनवाञ्जायते बुधः ।
केतकैस्तरुणैः पत्रैः पूर्ववत्पूजयेत्प्रिये ॥ १७-१०४ ॥
उपपातकसङ्घांश्च मासमात्रेण नाशयेत् ।
सौभाग्यमतुलं तस्य जायते नात्र संशयः ॥ १७-१०५ ॥
शतपत्रैर्मनोरम्यैः पूजयेन्मासमात्रकम् ।
पूर्ववत्परमेशानि पूर्वपापं विनाशयेत् ॥ १७-१०६ ॥
चम्पकैः सुमनोरम्यैः पूर्ववत्पूजयेच्छिवाम् ।
मासमात्रेण हन्त्येव पातकाञ्शतजन्मजान् ॥ १७-१०७ ॥
सौभाग्यवान्भवेन्मन्त्री त्रिपुरायाः प्रसादतः ।
श्वेतपद्मैर्महेशानि महद्भिः पूजयेत्पराम् ॥ १७-१०८ ॥
पूर्ववन्नाशयेत्पापं विंशज्जन्मभवं प्रिये ।
मासमात्रेण सकलं मोक्षस्तस्य करे स्थितः ॥ १७-१०९ ॥
बन्धूककुसुमैर्देवि मासमात्रं प्रपूजयेत् ।
त्रैलोक्यं वशगं तस्य पूर्वपापं दहेद्बुधः ॥ १७-११० ॥
बिल्वपत्रैश्च जलजैः सहैव परिपूजयेत् ।
पूर्ववत्परमेशानि मासमात्रं प्रसन्नधीः ॥ १७-१११ ॥
समृद्धिमान् भवेद्देवि सर्वपापहरः सदा ।
मल्लिकामालतीजातीकुन्दैश्च शतपत्रकैः ॥ १७-११२ ॥
श्वेतोत्पलैमीश्रितैस्तु पूजयेन्मासमात्रकम् ।
कुलाचारक्रमेणैव पातकं शतजन्मजम् ॥ १७-११३ ॥
ब्रह्महत्यादिजनितं नाशयेन्नात्र संशयः ।
मुक्तिस्तस्य करे देवि वाचा जीवसमो भवेत् ॥ १७-११४ ॥
अगस्त्यबाणबन्धूकजपारक्तोत्पलैः प्रिये ।
पूर्वक्रमेण सम्पूज्य मासमात्रं प्रसन्नधीः ॥ १७-११५ ॥
पातकं नाशयेन्मन्त्री साक्षात्कामसमो भवेत् ।
चम्पकैः पाटलैर्दैवि बकुलैर्नागकेसरैः ॥ १७-११६ ॥
कह्लारैः सिन्दुरै रम्यैः पूर्ववत्पूजयेत्क्रमात् ।
सौभाग्यमतुलं तस्य मासमात्रेण जायते ॥ १७-११७ ॥
पापं विनाशयेद्देवि यदि जन्मसहस्रजम् ।
इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे श्रीविद्याप्रयोगविधिर्नाम
सप्तदशः पटलः ॥ १७ ॥