१६

अथ षोडशः पटलः

श्री देव्युवाच –

अन्तर्यागविधिं देव बहिर्यागविधिं तथा ।
सकलं कथयेशान यद्यहं तव वल्लभा ॥ १६-१ ॥

ईश्वर उवाच –

शृणु देवि प्रवक्ष्यामि यजनं चाऽऽन्तरं महत् ।
मूलादिब्रह्मरन्ध्रान्तं बिसतन्तुतनीयसीम् ॥ १६-२ ॥
उद्यत्सूर्यप्रभाजालविद्युत्कोटिप्रभामयी ।
चन्द्रकोटिप्रभाद्रावां त्रैलोक्यैकप्रभामयीम् ॥ १६-३ ॥
अशेषजगदुत्पत्तिस्थितिसंहारकारिणीम् ।
ध्यायेन्मनो यथा देवीं निश्चलं जायते तथा ॥ १६-४ ॥
सहजानन्दसन्दोहमन्दिरं भवति क्षणात् ।
मनो निश्चलतां प्राप्तं शिवशक्तिप्रभावतः ॥ १६-५ ॥
समाधिर्जायते तत्र सञ्ज्ञाद्वयविजृम्भितः ।
स्वयम्प्रज्ञातनामैको ह्यसम्प्रज्ञातनामधृत् ॥ १६-६ ॥
स्वयम्प्रज्ञातसञ्ज्ञस्तु शक्त्याधिक्येन जायते ।
असम्प्रज्ञातनामैको शिवाधिक्येन वै भवेत् ॥ १६-७ ॥
स्वयम्प्रज्ञातभेदस्तु तीव्रस्तीव्रतरो भवेत् ।
असम्प्रज्ञातभेदस्तु मन्दो मन्दतरस्तथा ॥ १६-८ ॥
(सञ्ज्ञा प्रज्ञान यत्रैवं स्वयम्प्रज्ञोऽभिधीयते ।
असम्प्रज्ञो हि भूयस्तु स्थितप्रज्ञः प्रतिष्ठितः ॥ १६-९ ॥
प्रज्ञाप्रज्ञानमेवेदमसंस्मयमिति द्वयम् ।
सञ्ज्ञाद्वयमिदं देवि शिवतत्त्वेन वै भवेत् ॥ १६-१० ॥
हास्यरोदनरोमाञ्चकम्पस्वेदादिलक्षणः ।
तीव्रस्तीव्रतरो देवि समाधिरुपलक्षितः ॥ १६-११ ॥
निमेषवजीते नेत्रे वपुस्तल्लक्षणं स्थिरम् ।
मन्दो मन्दतरो देवि समाधिः परिकीतीतः ॥ १६-१२ ॥
शाम्भवेन च वेद्येन सुखी भूयान्निरन्तरम् ।
अन्तर्यागविधिं कृत्वा बहिर्यजनमाचरेत् ॥ १६-१३ ॥
एवं विन्यस्तदेहः सन्सर्वात्मा साधकोत्तमः ।
ध्यायेन्निरामयं वस्तु जगत्त्रयविमोहिनीम् ॥ १६-१४ ॥
अशेषव्यवहाराणां स्वामिनीं संविदं पराम् ।
उद्यत्सूर्यसहस्राभां दाडिमीकुसुमप्रभाम् ॥ १६-१५ ॥
जपाकुसुमसङ्काशां पद्मरागमणिप्रभाम् ।
स्फुरत्पद्मनिभां तप्तकाञ्चनाभां सुरेश्वरीम् ॥ १६-१६ ॥
रक्तोत्पलदलाकारपादपल्लवराजिताम् ।
अनर्घ्यरत्नखचितमञ्जीरचरणद्वयाम् ॥ १६-१७ ॥
पादाङ्गुलीयकक्षिप्तरत्नतेजोविराजिताम् ।
कदलीललितस्तम्भसुकुमारोरुकोमलाम् ॥ १६-१८ ॥
नितम्बबिम्बविलसद्रक्तवस्त्रपरिष्कृताम् ।
मेखलाबद्धमाणिक्यकिङ्किणीनादविभ्रमाम् ॥ १६-१९ ॥
अलक्ष्यमध्यमां निम्ननाभिं शातोदरीं पराम् ।
रोमराजिलतोद्धूतमहाकुचफलान्विताम् ॥ १६-२० ॥
सुवृत्तनिबिडोत्तुङ्गकुचमण्डलराजिताम् ।
अनर्घ्यमौक्तिकस्फारहारभारविराजिताम् ॥ १६-२१ ॥
नवरत्नप्रभाराजद् ग्रैवेयकविभूषणाम् ।
श्रुतिभूषामनोरम्यकपोलस्थलमञ्जुलाम् ॥ १६-२२ ॥
उद्यदादित्यसङ्काशताटङ्कसुमुखप्रभाम् ।
पूर्णचन्द्रमुखीं पद्मवदनां वरनासिकाम् ॥ १६-२३ ॥
स्फुरन्मदनकोदण्डसुभ्रुवं पद्मलोचनाम् ।
ललाटपट्टसंराजद्रत्नाढ्यतिलकाङ्किताम् ॥ १६-२४ ॥
मुक्तामाणिक्यघटितमुकुटस्थलकिङ्ङ्किणीम् ।
स्फुरच्चन्द्रकलाराजन्मुकुटां च त्रिलोचनाम् ॥ १६-२५ ॥
प्रवालवल्लीविलसद्बाहुवलीचतुष्टयाम् ।
इक्षुकोदण्डपुष्पेषुपाशाङ्कुशचतुर्भुजाम् ॥ १६-२६ ॥
सर्वदेवमयीमम्बां सर्वसौभाग्यसुन्दरीम् ।
सर्वतीर्थमयीं दिव्यां सर्वकामप्रपूरिणीम् ॥ १६-२७ ॥
सर्वमन्त्रमयीं नित्यां सर्वागमविशारदाम् ।
सर्वक्षेत्रमयीं देवीं सर्वविद्यामयीं शिवाम् ॥ १६-२८ ॥
सर्वयागमयीं विद्यां सर्वदेवस्वरूपिणीम् ।
सर्वशास्रमयीं नित्यां सर्वागमनमस्कृताम् ॥ १६-२९ ॥
सर्वाम्नायमयीं देवीं सर्वायतनसेविताम् ।
सर्वानन्दमयीं ज्ञानगह्वरां संविदं पराम् ॥ १६-३० ॥
एवं ध्यात्वा परामम्बां वहन्नासापुटं क्रमात् ।
आवाह्य चक्रमध्ये तु मुद्रया हि त्रिखण्डया ॥ १६-३१ ॥
संस्थितां चिन्तयेत्तत्र श्रीपीठान्तनीवासिनीम् ।
मुद्राः सन्दर्शयेद्देवि तर्पणैस्तु त्रिधा यजेत् ॥ १६-३२ ॥
लयाङ्गं कल्पयेद्देहे देव्यास्तु परमेश्वरि ।
गन्धपुष्पाक्षतादींश्च देव्यै सम्यङ् निवेदयेत् ॥ १६-३३ ॥
उपचारैः षोडशभिः सम्पूज्य परदेवताम् ।
तर्पणानि पुनर्दद्यात्त्रिवारं मूलविद्यया ॥ १६-३४ ॥
एतस्मिन्समये देवि तिथिनित्यां प्रपूजयेत् ।
कामेश्वर्यादिका नित्या विचित्रान्ताः परेश्वरि ॥ १६-३५ ॥
प्रतिपत्पौर्णमास्यन्ततिथिरूपाः प्रपूजयेत् ।
विभाव्य च महात्र्यस्रं पूर्वदक्षोत्तरं क्रमात् ॥ १६-३६ ॥
रेखासु विलिखेत्तत्र पञ्चपञ्च क्रमेण हि ।
अकराद्या उवर्णान्ता दक्षिणस्यां विचिन्तयेत् ॥ १६-३७ ॥
ततश्च पूर्वरेखायामूकारादिकपञ्चकम् ।
विलिख्योत्तररेखायां शक्त्यादि विलिखेत्ततः ॥ १६-३८ ॥
अनुस्वारान्तमन्त्रस्तु विसर्गे षोडशीं यजेत् ।
वामावर्तेन देवेशि नित्याः षोडश कीतीताः ॥ १६-३९ ॥
प्रतिपत्तिथिमारभ्य पौर्णमास्यन्तमद्रिजे ।
एकैकां पूजयेन्नित्यां महासौभाग्यमाप्नुयात् ॥ १६-४० ॥
कृष्णपक्षे महेशानि पूजयेत्तिथिमण्डलम् ।
विचित्राद्या वरारोहे यावत्कामेश्वरी भवेत् ॥ १६-४१ ॥
पूजनीया विलोमेन भक्त्या तु परमेश्वरि ।
कलाः षोडश देवेशि यस्तु चन्द्रकलाः क्रमात् ॥ १६-४२ ॥
तिथिनित्यां त्रिधा देवि पूजयेद्भाग्यहेतवे ।
पुनः श्रीत्रिपुरानित्या यजेत्सौभाग्यहेतवे ॥ १६-४३ ॥
स सौभाग्यं महादेवि प्राप्नोति गुरुशासनात् ।
कामेश्वर्यादिका नित्याः पूजयित्वा क्रमात्ततः ॥ १६-४४ ॥
एतस्मिन्समये देवि गुरुन्सम्पूजयेद्बुधः ।
पुष्पसङ्कोचयोगेन कथयामि तवानघे ॥ १६-४५ ॥
रश्मिवृन्दं दलमितं गुरवस्तु शताधिकाः ।
तस्मान्त्सङ्कोचयेत्पुष्पममिताः सिद्धिहानिदाः ॥ १६-४६ ॥
नष्टसन्ततिविज्ञेया मिताः सर्वसमृद्धिदाः ।
पुष्पं सङ्कोचयेन्नोचेद्द्वादशे नष्टसन्ततिः ॥ १६-४७ ॥
सन्तत्या नष्टरूपः सन्न भवेद्देवताप्रियः ।
अत एव मया सम्यक्पुष्पं सङ्कुचितं प्रिये ॥ १६-४८ ॥
कामराजाख्यविद्याया गुरवस्तु समृद्धिदाः ।
मध्यप्राक्त्र्यश्रमध्ये हि गुरुपङ्क्तिं त्रिधाऽर्चयेत् ॥ १६-४९ ॥
परारब्धान्पूजयेदादौ परापरविभक्तिकान् ।
ततोऽपरांस्त्रिधा देवि गुरुन् सम्पूजयेत्प्रिये ॥ १६-५० ॥
दिव्यौघे तु परान्विद्धि सप्तसङ्ख्यान्वरानने ।
आनन्दनाथशब्दान्ता गुरवः पुरुषाः प्रिये ॥ १६-५१ ॥
स्त्रियः पराम्बाशब्दान्ता विज्ञेया वीरवन्दिते ।
परप्रकाशो देवेशि ततः परशिवो मतः ॥ १६-५२ ॥
परा शक्तिस्तथा देवि कौलेश्वर इति प्रिये ।
शुक्ला देवि कुलेशानकामेश्वर्यम्बिकाः क्रमात् ॥ १६-५३ ॥
मुनिसङ्ख्यास्तु गुरवः पराख्या दिव्यरूपिणः ।
भोगक्लिन्नस्तु समयो वेदाख्यः सहजस्तथा ॥ १६-५४ ॥
परापराख्यसिद्धौघे मानवौघे शृणु प्रिये ।
गगनो विश्वविमलौ मदनो भुवनस्तथा ॥ १६-५५ ॥
लीला स्वात्माप्रियः पश्चान्नागसङ्ख्यास्तु मानवाः ।
अपराः परमेशानि नियता अक्षरा इमे ॥ १६-५६ ॥
एतत्त्रयं तु नियतं देशिकानां हिताय च ।
मयोद्धृतं महेशानि पुष्पं सङ्कुचितं प्रिये ॥ १६-५७ ॥
मानवौघान्तिके पश्चात्स्वगुरुत्रितयं यजेत् ।
परमेष्ठी गुरुः पश्चाद्गुरुः परमसञ्ज्ञितः ॥ १६-५८ ॥
स्वगुरुश्च महेशानि पुजयेत्तु गुरुत्रयम् ।
अथ वा मानवौघान्त एकं स्वगुरुमर्चयेत् ॥ १६-५९ ॥
अयं प्रकारः कथितः प्रकारान्तरमुच्यते ।
वन्द्यं सर्वप्रकाराणां मानवौघाष्टकादथ ॥ १६-६० ॥
गुरवो नवसङ्ख्याका इह यावद्भवन्ति हि ।
नवचक्रेश्वरी यस्मात्तावत्पुष्पं प्रकाशयेत् ॥ १६-६१ ॥
मानवौघे तदा देवि दशसप्त भवन्ति हि ।
पश्चात्सङ्कोचयेत्पुष्पं नवमं श्रीगुरुं यजेत् ॥ १६-६२ ॥
अज्ञातगुरुशिष्याणां कथयामि वरानने ।
गुरुभ्यो नम उच्चार्य पादुकाभ्यो नमो लिखेत् ॥ १६-६३ ॥
गुर्वन्ते परमान्ते च गुरुभ्यो नम इत्यपि ।
एतेषां पादुकास्तद्वदाचार्येभ्यो नमो वदेत् ॥ १६-६४ ॥
आचार्यपादुकास्तद्वत्पूर्वसिद्धास्तु पादुकाः ।
सामान्यगुरुशिष्याणां गुरुपङ्क्तिरियं भवेत् ॥ १६-६५ ॥
गुरुपङ्क्तिं प्रपूज्याथ स्वयं श्रीत्रिपुरा भवेत् ।
गुरुपङ्क्तिविहीनस्तु पुरुषः पङ्क्तिवजीतः ॥ १६-६६ ॥
सामान्यगुरुपङ्क्तित्वान्न भवेत्पङ्क्तिवजीतः ।
पुष्पसङ्कोचमार्गोऽयं मया सिद्धः कृतः प्रिये ॥ १६-६७ ॥
कृपया परमेशानि साधकानां हिताय च ।
कामराजाख्यगुरवः श्रीविद्याविषये क्रमात् ॥ १६-६८ ॥
लोपामुद्राख्यविद्याऽप्यान् गुरुञ्शृणु वरानने ।
परमाद्यशिवश्चाऽऽद्या कामेश्वर्यम्बिका तथा ॥ १६-६९ ॥
दिव्यौघश्च महौघश्च सर्वानन्दस्ततः परम् ।
प्रज्ञादेव्यम्बिका पश्चात्प्रकाशः सप्तमो भवेत् ॥ १६-७० ॥
दिव्याः पराख्यगुरवो लोपामुद्राप्रभामयाः ।
दिव्यश्चित्रश्च कैवल्यदेव्यम्बा च महोदयाः ॥ १६-७१ ॥
सिद्धाः परापरा ज्ञेया मानवौघे शृणु प्रिये ।
विद्या शक्तिश्च विश्वश्च चतुर्थः कोमलो भवेत् ॥ १६-७२ ॥
पञ्चमस्तु परानन्दो मनोहर इति प्रिये ।
स्वात्मानन्दः सप्तमस्तु प्रतिभोऽष्टम उच्यते ॥ १६-७३ ॥
अपराख्या इमे देवि गुरवः परिकीतीताः ।
पूर्ववद्योजयेत् पश्चादष्टानन्तरमेव च ॥ १६-७४ ॥
त्रयं वा स्वगुरुं वाऽपि नवान्तं वाऽब्जलोचने ।
दक्षिणामूतीशिष्याणां गुरुक्रम उदाहृतः ॥ १६-७५ ॥
सम्प्रदाया अनेके च ज्ञातव्याः स्वगुरुक्रमात् ।
सम्प्रदायविहीनस्य न दद्यात्पङ्क्तिमुत्तमाम् ॥ १६-७६ ॥
साधारणास्तु गुरवः सर्वभेदेषु वै समाः ।
गुरुक्रमं प्रपूज्याथ यजेदाम्नायदेवताः ॥ १६-७७ ॥
त्रैलोक्यमोहने देवि सर्वाशापरिपूरके ।
सर्वसङ्क्षोभणे चक्रे पूर्वाम्नायं प्रपूजयेत् ॥ १६-७८ ॥
सर्वसौभाग्यदे चक्रे तथा सर्वार्थसाधके ।
सर्वरक्षाकरे चक्रे दक्षाम्नायं प्र पूजयेत् ॥ १६-७९ ॥
मध्यचक्रत्रये देवि पश्चिमाम्नायमर्चयेत् ।
नवचक्रेषु देवेशि कौबेराम्नायमर्चयेत् ॥ १६-८० ॥
बैन्दवे परमेशानि मध्यसिंहासनं यजेत् ।
अनेनैव प्रकारेण पूजयेत्पञ्च पञ्चिकाः ॥ १६-८१ ॥
श्रीविद्या च प्ररं ज्यौतिः परा निष्कलशाम्भवी ।
अजया मातृका चेति पञ्च कोशाः प्रकीतीताः ॥ १६-८२ ॥
श्रीविद्या च तथा लक्ष्मीर्महालक्ष्मीस्तथैव च ।
त्रिशक्ति सर्वसाम्राज्या पञ्च लक्ष्म्यः प्रकीतीताः ॥ १६-८३ ॥
श्रीविद्या त्वरिता चैव पारिजातेश्वरी तथा ।
त्रिपुटा पञ्चबाणेशी पञ्च कल्पलताः स्मृताः ॥ १६-८४ ॥
श्रीविद्या मूलपीठेशी सुधा श्रीरमृतेश्वरी ।
अन्नपूर्णेति विख्याताः पञ्चैताः कामधेनवः ॥ १६-८५ ॥
श्रीविद्यां सिद्धलक्ष्मीश्च मातङ्गी भुवनेश्वरी ।
वाराहीति च सम्मोक्ताः पञ्च रत्नाः प्रकीतीताः ॥ १६-८६ ॥
मूलविद्या महेशानि श्रीविद्या परिकीतीता ।
वारुणान्तं वह्निसंस्थं बिन्दुनादसमन्वितम् ॥ १६-८७ ॥
वामनेत्रसमायुक्तं लक्ष्मीबीजमुदाहृतम् ।
श्रीबीजं तु पराबीजं लक्ष्मीबीजमुदाहृतम् ॥ १६-८८ ॥
प्रणवं पूर्वमुच्चार्य ह्रीमात्मकं समुच्चरेत् ।
श्रीपुटां च नु कमले कमलाग्रे प्रसीदतु ॥ १६-८९ ॥
लये मध्यगतां भूमिं रुद्रस्थाने नियोजयेत् ।
प्रसीद युगलं दद्याच्छ्रीबीजं भुवनेश्वरीम् ॥ १६-९० ॥
श्रिया बीजं ततो दद्यान्महालक्ष्मी च { श्च} हृन्मनुः ।
सप्तविंशतिवर्णात्मा महालक्ष्मीमनुर्मतः ॥ १६-९१ ॥
श्रीबीजं च पराबीजं कामराजं समालिखेत् ।
इयं त्रिशक्तिर्देवेशि त्रिषु लोकेषु दुर्लभा ॥ १६-९२ ॥
चन्द्रेण मादनं लक्ष्मीर्देवी दीर्घाक्षिमण्डिता ।
विष्णुक्रूरेश्वरीयुक्ता रित्ययं वैष्णवीयुता (?) ॥ १६-९३ ॥
श्रीबीजसम्पुटं कुर्यात्सर्वशास्त्रप्रदायिनी ।
प्रणवं पूर्वमुच्चार्य पराहंसं समुद्धरेत् ॥ १६-९४ ॥
ततः सोऽहं शिरो देवि वसुवर्णोऽयमीरितः ।
वेदादिकेवला देवी परा निष्कलशाम्भवी ॥ १६-९५ ॥
हंसोऽजपार्णान्तः त(वर्णवस्त)त्र मातृकेति प्रकीतीता(तः) ।
प्रणवं भुवनेशानी वियच्चन्द्राग्निवायवम् ॥ १६-९६ ॥
भुवनेशी ध्रुवं चैव सरस्वत्यै नमो लिखेत् ।
इयं तु पारिजातेशी पारिजातरतोपमा ॥ १६-९७ ॥
काण्डवानीश्वरीविद्या प्रसङ्गात्कथिता मया ।
त्रिबीजं च पराबीजं सकामा त्रिपुटोदिता ॥ १६-९८ ॥
पञ्चकामेश्वरीविद्या बालान्यासे समीरिता ।
वाग्भवं वामनेत्रं च ध्रुवान्तं बिन्दुसंयुतम् ॥ १६-९९ ॥
मूलपीठेश्वरीविद्या सुगुप्ता कथिता मया ।
पराबीजं तु श्रीबीजं बालायामाद्यमक्षरम् ॥ १६-१०० ॥
राज्यदे राजलक्ष्मीति चन्द्रः सर्गविभूषितः ।
बिलोमान्यादिबीजानि सुधा श्रीश्च प्रकीतीताः (ता) ॥ १६-१०१ ॥
वाग्भवं भुवनेशानि श्रीबीजं तदनन्तरम् ।
वियत्तदादिखफलेमित्यवर्णं समालिखेत् ॥ १६-१०२ ॥
वियत्तदादिकं तं च फ्रानित्येव मनुर्मतः ।
चवर्गतृतीयं तुर्यं मायारेफेन्दुसंयुत्तम् ॥ १६-१०३ ॥
महाचण्डं समुद्धृत्य सङ्कर्षणीति संलिखेत् ।
कालमहान इत्युक्त्वा वियदिन्दुसमन्वितः (?) ॥ १६-१०४ ॥
मायाबीजं तु कथितः सिद्धलक्ष्म्या महामनुः ।
अन्नपूर्णा च देवेशि उत्तराम्नायकीतीता ॥ १६-१०५ ॥
मातङ्गिन्येति चांशं वाङ्मायाश्रीसम्पुटं लिखेत् ।
इयं मातङ्गिनी विद्या द्वादशार्णा प्रकीतीता ॥ १६-१०६ ॥
वियदग्निसमायुक्ता वामनेत्रेन्दुविभूषितम्(ता) ।
भुवनेशी महेशानि दुर्लभा भुवनत्रये ॥ १६-१०७ ॥
वाग्भवं पूर्वमुद्धृत्य सम्बुद्ध्या भगवत्यपि ।
वार्ताली द्वे च वाराही युग्मवाराहमुख्यपि ॥ १६-१०८ ॥
अन्धे अन्धिन्यै नत्यन्तं रुन्धिनी तत्परः परम् ।
जम्भे जम्भिन्यै नत्यन्तं मोहे मोहिन्यै युतं नमः ॥ १६-१०९ ॥
स्तम्भे स्तम्भिन्यै हृद्युक्तममुकं स्तम्भनद्वये ।
सर्वदुष्टप्रदुष्टानां सर्वेषां सर्वमुच्चरेत् ॥ १६-११० ॥
जिह्वास्तम्भं कुरु द्वन्द्वं शीघ्रवश्यं कुरु द्वयम् ।
वाग्क्कूट त्रयं वाचं मन्त्रपावकवल्लभा ॥ १६-१११ ॥
महाविद्येयमाख्याता सर्वतन्त्रेषु गोपिता ।

श्री देव्युवाच –

मन्त्रास्तु कथिता देव सर्वतन्त्रेषु गोपिताः ॥ १६-११२ ॥
तानाराध्य कथं लोका जायन्ते भुवि दुर्लभाः ।
एतत्सर्वं महादेव कथय त्वं सुविस्तरम् ॥ १६-११३ ॥

ईश्वर उवाच –

साधु पृष्टं त्वया भद्रे लोकानां हितकाम्यया ।
अविज्ञातमनस्तत्त्वं भजता दुःसुता यथा (?) ॥ १६-११४ ॥
कथ्यतेऽत्र तथा देवि सर्वतन्त्रेषु गोपितम् ।
मन्त्राविशोधनं कुर्यान्मन्त्राणां च विशुद्धये ॥ १६-११५ ॥
चतुरस्रभुवं भित्त्वा कृत्वा रेखात्रयं त्रयम् ।
वृत्तः षोडशके चैव ततो वर्णान् समालिखेत् ॥ १६-११६ ॥
इन्द्राग्नि रुद्रनवनेत्रयुगेन दिक्षु ऋत्वष्टषोडशचतुर्दश भौतिकेषु ।
पाताल पञ्चदशवह्निहिमांशुकोष्ठे वर्णाल्लि�खेल्लिपिभवान्क्रमशस्तु धीमान् ॥ १६-११७ ॥
मन्त्राद्यसाधकानां तु नामार्णः पतति ध्रुवम् ।
सिद्धिस्थानं च विज्ञेयं द्वितीयं साध्यनामकम् ॥ १६-११८ ॥
सुसिद्धं तु तृतीयं स्याच्चतुर्थमरिसञ्ज्ञकम् ।
सिद्धः सिध्यतिकालेन साध्यः सिध्यति वा न वा ॥ १६-११९ ॥
सुसिद्धस्तत्क्षणादेव साधकं भक्षयेदरिः ।
सिद्धसिद्धो जपात्सिद्धिद्वीगुणात्सिद्धसाध्यकः ॥ १६-१२० ॥
सिद्धसुसिद्धः सङ्ग्राहात्सिद्धारिर्हन्ति वै द्विजान् ।
साध्यः सिध्यति सङ्क्लेशात्साध्यसाध्योऽतिदुःखकृत् ॥ १६-१२१

साध्यः सुसिद्धो भजनात्साध्यारिः स्वाश्रयं हरेत् ।
सुसिद्धसिद्धोऽध्ययनात्फलं दद्युर्यथेप्सितम् ॥ १६-१२२ ॥
सुसिद्धसाध्यो जपाद्यैः सिद्धिर्यस्मादतोऽन्यथा ।
सुसिद्धे तु सुसिद्धस्तु पूर्वजन्मकृतश्रमात् ॥ १६-१२३ ॥
संस्मात्तु सर्वं सिद्धानां साधको यो जपेन्मनुः ।
अभिचारे रिपोरवं यदि स्यान्भुविपन्नयोः (?) ॥ १६-१२४ ॥
संसिद्धेऽरिविशेषेण स्वकुलान्नाशयेद्ध्रुवम् ।
अरिसिद्धस्तु संहन्यादरिसाध्यं तु योषितः ॥ १६-१२५ ॥
अरिसिद्धस्वमन्त्रश्च कुलाच्छादनकृच्छलैः ।
अर्यरिस्वामहामन्त्रप्राप्तेन सुनिश्चितम् {?} ॥ १६-१२६ ॥
एतदुक्तं महेशानि त्यक्त्वाऽन्यमतमुत्तमम् ।
स्वप्नलब्धे स्त्रिया दत्ते मालमन्त्रे त्रिबीजके ॥ १६-१२७ ॥
सिद्धादिशोधनं देवी न वै तेषां तु विद्यते ।
श्रीविद्यापूजनस्थाने चक्रराजे महेश्वरि ॥ १६-१२८ ॥
महाकोशेश्वरावृन्दमण्डिता सनसंस्थिता ॥ १६-१२९ ॥
सर्वसौभाग्यजननीपादुकां पूजयामि च ।
इत्युच्चार्य परं ज्योतिःकोशाद्यां पूजयेत्सुधीः ॥ १६-१३० ॥
अनेनैव प्रकारेण पूजयेत्पञ्चपञ्चिकाः ।
शैवं तु दर्शनं देवि बैन्दवे पूजयेत्प्रिये ॥ १६-१३१ ॥
परितो दर्शनं शाक्तं चक्रस्य परमेश्वरी ।
ब्राह्मं तु दर्शनं पूज्यं भूबिम्बे प्रथमे प्रिये ॥ १६-१३२ ॥
शिवस्य वामतो देवि वैष्णवं दर्शनं यजेत् ।
सृष्टिचक्रे भवेत्सूर्यदर्शनं कमलेक्षणे ॥ १६-१३३ ॥
स्थितिचक्रे तु सम्पूज्यं बौद्धदर्शनमुत्तमम् ।
एवं सम्पूज्य सकलं श्रीविद्यां परितोषयेत् ॥ १६-१३४ ॥
तर्पणानि पुनर्दद्यात्त्रिवारं तत्त्वमुद्रया ।
अङ्गुष्ठानामिकाभ्यां तु तत्त्वमुद्रेयमीरिता ॥ १६-१३५ ॥
पुष्पं समर्पयेद्देवि मुद्रया ज्ञानसञ्ज्ञया ।
अङ्गुष्ठतर्जनीयोगाज्ज्ञानमुद्रा प्रतिष्ठिता ॥ १६-१३६ ॥
सर्वोपचारैराराध्य मुद्राः सन्दर्शयेत्क्रमात् ।
अथाङ्गावरणं कुर्याच्छ्रीविद्यामनुसम्भवम् ॥ १६-१३७ ॥
अग्नीशासुरवायव्यमध्यदिक्ष्वङ्गपूजनम् ।
मायालक्ष्मीमयं बीजयुग्मं पूर्वक्रमेण तु ॥ १६-१३८ ॥
कथितं योजयेद्देवि त्रयं वा परमेश्वरि ।
सम्पुटक्रमयोगेन चाथवा वीरवन्दिते ॥ १६-१३९ ॥
संयोज्य पूजयेत्सर्वाः क्रमादेव वरानने ।
त्रैलोक्यमोहने चक्रे प्रकटा योगिनीर्यजेत् ॥ १६-१४० ॥
चतुरस्रे चतुर्द्वारे शोभिते सिद्धिदायकाः ।
अणिमां पश्चिमद्वारे दक्षभागे प्रपूजयेत् ॥ १६-१४१ ॥
लघिमामुत्तरद्वारे दक्षभागे प्रपूजयेत् ।
पूर्वद्वारे तु महिमामुत्तरे पूजयेत्प्रिये ॥ १६-१४२ ॥
ईशित्वसिद्धिंर्देवेशि दक्षिणद्वारि पूर्ववत् ॥ १६-१४३ ॥
वशित्वसिद्धिं वायव्ये तेनैव क्रमयोगतः ॥ १६-१४४ ॥
इच्छासिद्धिं पूर्वभागे नैरृत्ये च प्रपूजयेत् ।
प्राप्तिसिद्धिः सर्वकामा सिद्धिश्च परमेश्वरि ॥ १६-१४५ ॥
अधोर्ध्वक्रमरूपेण ज्ञातव्ये सुरसुन्दरि ।
ब्राह्मी माहेश्वरी चैन्द्री कौमारी वैष्णवी तथा ॥ १६-१४६ ॥
वाराही च तथा षष्ठी चामुण्डा सप्त मातरः ।
अष्टमी तु महालक्ष्मीः पश्चिमादिक्रमेण हि ॥ १६-१४७ ॥
वामभागे तु सम्पूज्या वायव्यादि च पूर्ववत् ।
सङ्क्षोभद्रावणाकर्षवश्योन्मादमहाङ्कुशाः ॥ १६-१४८ ॥
खेचरीबीजयोन्याख्यास्त्रिखण्डां च प्रपूजयेत् ।
एताः सम्पूज्य चक्रेशीं त्रिपुरां पूजयेत्पराम् ॥ १६-१४९ ॥
अणिमासिद्धिपुरतः सर्वकार्यार्थसाधिकाम् ।
सर्वसङ्क्षोभिणीं मुद्रां दर्शयेत्कमलानने ॥ १६-१५० ॥
सर्वाशापूरकं चक्रं गुप्तयोगिन्यधिष्ठितम् ।
षोडशारं ततो देवि पूजयेत्कार्यसिद्धये ॥ १६-१५१ ॥
कामाकषीणिकां देवि बुध्द्याकषीणिकां तथा ।
अहङ्काराकषीणीं च शब्दाकर्षणरूपिणीम् ॥ १६-१५२ ॥
स्पर्शाकषीणिरूपां च रूपाकषीणिरूपिणीम् ।
रसाकर्षकरीं चैव गन्धाकर्षणकारिणीम् ॥ १६-१५३ ॥
चित्ताकषीणिकां तद्वद्धैर्याकषीणिकां प्रिये ।
नामाकषीणिकां चैव बीणाकषीणिकां तथा ॥ १६-१५४ ॥
अमृताकषीणीं चैव बीजाकषीणिकां प्रिये ।
शरीराकषीणीं चैव आत्माकर्षणरूपिणीम् ॥ १६-१५५ ॥
पश्चिमादिविलोमेन षोडशारे स्वरान्विताः ।
एता नित्याः कलाः पूज्याः स्रवत्पीयूषमण्डलाः ॥ १६-१५६ ॥
चक्रेश्वरीं यजेद्देवीं त्रिपुरेशीं समृद्धिदाम् ।
कामाकर्षणरूपायाः पुरतः पूजयेत्प्रिये ॥ १६-१५७ ॥
सर्वविद्राविणीं मुद्रां दर्शयित्वा निवेदयेत् ।
सर्वसङ्क्षोभणे चक्रे यजेद्गुप्ततराभिधाः ॥ १६-१५८ ॥
अनङ्गकुसुमां प्राच्यां कवर्गेण प्रपूजयेत् ।
दक्षिणे च चवर्गेण तथा चानङ्गमेखलाम् ॥ १६-१५९ ॥
अनङ्गमदनां पश्चाट्टवर्गेण प्रपूजयेत् ।
तवर्गेणोत्तरे पश्चादनङ्गमदनातुराम् ॥ १६-१६० ॥
अनङ्गरेखामाग्नेये पवर्गेण प्रपूजयेत् ।
राक्षसेऽनङ्गवेगां तु यवर्गेण प्रपूजयेत् ॥ १६-१६१ ॥
वायव्ये तु शवर्गेण तथाऽनङ्गाङ्कुशां यजेत् ।
ईशान्ये लक्षवर्गेण पूज्याऽनङ्गादिमालिनी ॥ १६-१६२ ॥
चक्रेश्वरीं यजेद्देवीं ततस्त्रिपुरसुन्दरीम् ।
अनङ्गकुसुमाग्रे च सर्वसाम्राज्यदायिनीम् ॥ १६-१६३ ॥
सर्वाकर्षणमुद्रां च दर्शयेत्सुरवन्दिते ।
चक्रपूजां निवेद्याथ चतुर्थं चक्रमर्चयेत् ॥ १६-१६४ ॥
सर्वसङ्क्षोभिणी शक्तिः सर्वविद्राविणी तथा ।
सर्वाकषीणिका शक्तिः सर्वाह्लादनकारिणी ॥ १६-१६५ ॥
सर्वसम्मोहिनी शक्तिः सर्वस्तम्भनकारिणी ।
सर्वजृम्भिणिका शक्तिः सर्वावशकरी तथा ॥ १६-१६६ ॥
सर्वार्थरञ्जिनी शक्तिर्नवमी परमेश्वरी ।
सर्वोन्मादनिका शक्तिः शक्तिः सर्वार्थसाधिका ॥ १६-१६७ ॥
सर्वसम्पत्तिपूर्णा च सर्वमन्त्रमयी तथा ।
चतुर्दशारशक्तिस्तु सर्वद्वन्द्वक्षयङ्करी ॥ १६-१६८ ॥
सर्वसौभाग्यदे चक्रे पश्चिमादिविलोमतः ।
वाममार्गेण देवेशि सम्पूज्याः सर्वसिद्धिदाः ॥ १६-१६९ ॥
सर्वसङ्क्षोभिणी शक्तिः पुरतः पूजयेत्ततः ।
चक्रेश्वरी सिद्धिदात्रीं परां त्रिपुरवासिनीम् ॥ १६-१७० ॥
वश्यमुद्रां प्रदर्श्याथ निवेद्य तदनन्तरम् ।
सर्वार्थसाधके चक्रे दशारे कुलयोगिनीः ॥ १६-१७१ ॥
पूजयेत्सर्वकार्यार्थसिद्धिदाः पञ्चमे क्रमात् ।
सर्वसिद्धिप्रदा देवी सर्वसम्पत्प्रदा तथा ॥ १६-१७२ ॥
सर्वप्रियकरी देवी सर्वमङ्गलकारिणी ।
सर्वकामप्रपूर्णा च सर्वदुःखप्रमोचनी ॥ १६-१७३ ॥
सर्वमृत्युप्रशमनी सर्वविघ्ननिवारिणी ।
सर्वाङ्गसुन्दरी देवी सर्वसौभाग्यदायिनी ॥ १६-१७४ ॥
पश्चिमादिविलोमेन दशारे पूजयेदिमाः ।
सर्वसिद्धिप्रदा देवि पुरतश्चक्रनायिकाम् ॥ १६-१७५ ॥
सर्वसिद्धिप्रदां देवि पूजयेत्त्रित्पुराश्रियम् ।
सर्वोन्मादनमुद्रां च दर्शयित्वा निवेद्य च ॥ १६-१७६ ॥
सर्वरक्षाकरे चक्रे नगर्भा योगिनीर्यजेत् ।
सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्यप्रदा ततः ॥ १६-१७७ ॥
सर्वज्ञानमयी देवी सर्वव्याधिविनाशिनी ।
सर्वाधारस्वरूपा च सर्वपापहरा तथा ॥ १६-१७८ ॥
सर्वानन्दमयी देवी सर्वरक्षास्वरूपिणी ।
सर्वेप्सितार्थफलदा देव्यः सर्वसमृद्धिदाः ॥ १६-१७९ ॥
पश्चिमादिविलोमेन पूजयेत्पङ्क्तयोनिके ।
सर्वज्ञापुरतो देवि चक्रेशीं मालिनीं यजेत् ॥ १६-१८० ॥
महाङ्कुशां महामुद्रां दर्शयित्वा निवेद्य च ।
मध्यचक्रे महेशानि योगिनीः पूजयेत्प्रिये ॥ १६-१८१ ॥
सर्वरोगहरे चक्रे वसुकोणे सुरेश्वरि ।
रहस्ययोगिनीर्देवि वशिन्याद्यास्तु सिद्धिदाः ॥ १६-१८२ ॥
पश्चिमादिविलोमेन पूर्वोक्ताः पूजयेत्क्रमात् ।
वशिनीपुरतः पूज्या सिद्धाम्बा चक्रनायिका ॥ १६-१८३ ॥
खेचरीं दर्शयेन्मुद्रां निवेद्यानन्तरं ततः ।
सर्वसिद्धिप्रदे चक्रे त्रिकोणे सर्वकामदे ॥ १६-१८४ ॥
परापररहस्याख्ययोगिनीः परिपूजयेत् ।
पञ्च बाणान्समुच्चार्य कामकामेश्वरीमयान् ॥ १६-१८५ ॥
जम्भनाख्यान्महेशानि पूजयेद्बाणदेवताम् ।
धमात्मकं कामचापं द्वितीयं तु थमात्मकम् ॥ १६-१८६ ॥
कामेश्वर्या मोहनाख्यां पूजयेच्चापदेवताम् ।
द्वितीयं भुवनेशानीपाशयुग्मं वशङ्करम् ॥ १६-१८७ ॥
कामेशस्य च कामेश्यास्त्रैलोक्याकर्षणं प्रिये ।
अङ्कुशाख्यं करोमात्मबीजं स्तम्भनसञ्ज्ञकम् ॥ १६-१८८ ॥
कामेशस्य च कामेश्या अङ्कुशं पूजयेत्प्रिये ।
षडङ्गावरणद्वाह्ये समीपे क्रमतो यजेत् ॥ १६-१८९ ॥
पश्चिमादिक्रमेणैव चतुदीक्षु प्रपूजयेत् ।
कामेश्वरीं रुद्रशक्तिमाद्यकूटेन चाग्रतः ॥ १६-१९० ॥
द्वितीयेन च कूटेन कामाख्येन च वैष्णवीम् ।
दक्षकोणे समभ्यर्च्य तृतीयेन च पूजयेत् ॥ १६-१९१ ॥
भगमालां ब्रह्मशक्तिमुत्तरे विश्वमातृकाम् ।
चक्रेश्वरीमम्बिकाख्यां कामेशीपुरतो यजेत् ॥ १६-१९२ ॥
बीजमुद्रामुपास्याथ चक्रपूजां निवेदयेत् ।
सर्वानन्दमये चक्रराजे बैन्दवसञ्ज्ञके ॥ १६-१९३ ॥
ब्रह्मरूपे चित्स्वरूपे संविद्वेद्ये शृणु प्रिये ।
परापररहस्याख्यां योगिनीं त्रिपुरां यजेत् ॥ १६-१९४ ॥
कूटत्रयं समुच्चार्य सर्वविद्यास्वरूपकम् ।
समस्तदेवतारूपं सर्ववस्तुमयं यजेत् ॥ १६-१९५ ॥
चक्रेशीमपि तामेव महात्रिपुरसुन्दरीम् ।
श्रीविद्यां षोडशार्णां च भुक्तिमुक्तिफलप्रदाम् ॥ १६-१९६ ॥
समस्तचक्रचक्रेशीं सर्वागमनमस्कृताम् ।
सर्वाम्नायेश्वरीं विद्यालङ्कृतां ब्रह्मरूपिणीम् ॥ १६-१९७ ॥
उपचारैः समभ्यर्च्य गन्धपुष्पाक्षतादिभिः ।
तर्पणानि पुनर्दद्यात्त्रिवारं मूलविद्यया ॥ १६-१९८ ॥
योनिमुद्रां प्रदर्श्याथ मुद्राः सन्दर्शयेत्क्रमात् ।
वनस्पतिरसोत्पन्नैः पवित्रै रम्यगन्धिभिः ॥ १६-१९९ ॥
दशाङ्गाद्यैर्धूपवर्यैर्धूपयेत्परमेश्वरीम् ।
(कस्तूरीकुङ्कुमं देवि गुग्गुलं शालसम्भवम् ॥ १६-२०० ॥
चन्दनागरुकर्पूरसिताज्यमधुसंयुतम् ।
धूपयेद्देशिको नित्यं सर्वसौभाग्यसिद्धये ॥ १६-२०१ ॥
धूपमन्त्रेण देवेशि त्रैलोक्यस्यापि दुर्लभम् ।
अभितो वेदिकाचक्रं दीपमाला घृतप्लुताः ॥ १६-२०२ ॥
कर्पूररचिताश्चापि तैलपूर्णास्तु वा यजेत् ।
धूपदीपौ निवेद्याथ तर्पयेत्पूर्ववत्प्रिये ॥ १६-२०३ ॥
आरातीकविधिं कुर्यात्पूर्ववद्देववन्दिते ।
अन्यदारातीकं वक्ष्ये सर्वकाममपूरकम् ॥ १६-२०४ ॥
स्वर्णादिनिमीते पात्रे मध्ये चक्रं लिखेद्बुधः ।
तण्डुलोल्लासितं कृत्वा नवधा कारयेत्ततः ॥ १६-२०५ ॥
नव गोलांश्चन्द्ररूपान्विरच्य तदनन्तरम् ।
शर्करागर्भभरितान्मण्डकान्युग्मरूपकान् ॥ १६-२०६ ॥
विरच्य घटिकाः कार्या योजयित्वा तु सप्तकम् ।
सप्तसप्तप्रकारेण घटिका नव योजयेत् ॥ १६-२०७ ॥
अष्टकोणेषु संस्थाप्य गोलकाञ्ञ्चोपरि क्षिपेत् ।
चणमुद्रा विकीर्याथ दीपकान्घृतपाचितान् ॥ १६-२०८ ॥
मुष्टिकाकृतिमुष्टिश्च स्थापयेत्तत्र तत्र तु ।
दीपान्प्रज्वाल्य पश्चात्तु पञ्चरत्नैः प्रपूजयेत् ॥ १६-२०९ ॥
पञ्चसिंहासनगता विद्यास्तत्र प्रपूजयेत् ।
आमस्तकं समुद्धृत्य नववारं पुनः पुनः ॥ १६-२१० ॥
नवावरणवद्देवि परिभ्राम्य पुनः पुनः ।
उत्तीर्य स्थापयेत्पश्चाद्दीपमालामयं महः ॥ १६-२११ ॥
नेत्रयोः सुस्थिरं ध्यायेदारातीकविधिः प्रिये ।
नैवेद्यं षड्र्सोपेतं सितापूपादिसंयुतम् ॥ १६-२१२ ॥
शर्करापूरभरितमण्डकैः पायसान्वितम् ।
मुक्ताकर्पूरधवलं शुद्धौदनसुपूरितम् ॥ १६-२१३ ॥
घृतकर्पूरशोभाढ्यं सम्पूर्णघृतमण्डितम् ।
नानाव्यञ्जनशोभाढ्यं वटकैः कुङ्कुमप्रभैः ॥ १६-२१४ ॥
माषान्नभरितं नानारसपानविराजितम् ।
घृतक्षीरेण भरितं चतुर्मुद्राविराजितम् ॥ १६-२१५ ॥
सङ्कल्प्य परमेशान्यै नित्यहोमविधिं चरेत् ।
मूलेन प्राणसहिता आहुतीः पञ्च होमयेत् ॥ १६-२१६ ॥
षडाहुतीः षडङ्गानां नित्यहोमः प्रकीतीतः ।
उपविश्याऽऽसने रम्ये वामभागे ततः परम् ॥ १६-२१७ ॥
वहत्करोर्ध्वपुटतः साधको भूमिजानुकः ।
मण्डलं चतुरस्रं तु तन्मध्ये विलिखेत्प्रिये ॥ १६-२१८ ॥
त्रिकोणमध्ये व्योमाख्यं मण्डलं पूजयेत्ततः ।
व्यापकान्ते मण्डलाय हृदन्तो वाग्भवं परम् ॥ १६-२१९ ॥
मुखे कृत्वा पूजनीयं मण्डलं मनुना प्रिये ।
एतन्मण्डलमभ्यर्च्य मण्डलानां चतुष्टयम् ॥ १६-२२० ॥
ईशानवह्निनैरृत्यवायुकोणेषु पूर्ववत् ।
मण्डलानि निधायाथ पूर्ववत्पूजयेत्प्रिये ॥ १६-२२१ ॥
पूर्ववद्बलिदानं च दद्यात्सर्वसमृद्धये ।
बटुकाय महेशानि योगिनीभ्यश्च वल्लभे ॥ १६-२२२ ॥
क्षेत्रपालगणेशाभ्यां पूर्ववद्बलिमुत्सृजेत् ।
वामभागे कृतस्याथ मण्डलस्योपरि क्षिपेत् ॥ १६-२२३ ॥
आधारं पूजयेत्तत्र पात्रं चान्नोदकान्वितम् ।
सकारणं मन्त्रयित्वा सर्वभूतबलिं हरेत् ॥ १६-२२४ ॥
षोडशार्णेन मनुना त्रिवारं वीरवन्दिते ।
तारं च भुवनेशानि सर्वविघ्नपदं ततः ॥ १६-२२५ ॥
कृद्भ्यश्च सर्वभूतेभ्यो हुङ्कारं वह्निवल्लभाम् ।
समुच्चरन्बलिं दद्यान्मुद्रया तत्त्वसञ्ज्ञया ॥ १६-२२६ ॥
बलिपञ्चकमाख्यातं सर्वरक्षाकरं सताम् ।
एकत्र वा पञ्च बलीन्दद्याद्व्यापकमण्डले ॥ १६-२२७ ॥
वामभागे स्थितो देवि सर्वविघ्नहरो भवेत् ।
चक्रमभ्यर्च्य सकलं विधिवत्परमेश्वरि ।
श्रीगुरोः कृपया देवि सर्वज्ञः सर्वतत्त्ववित् ॥ १६-२२८ ॥

इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे उमामहेश्वरसंवादे श्रीविद्यायजन– विधिर्नाम
षोडशः पटलः ॥ १६ ॥