१५

अथ पञ्चदशः पटलः

ईश्वर उवाच–

शृणु देवि प्रवक्ष्यामि नित्यामण्डलमुत्तमम् ।
कामेश्वरी महाविद्या सर्वलोकवशङ्करी ॥ १५-१ ॥
बालां तारं च हृत्प्रान्ते कामेश्वरिपदं लिखेत् ।
इच्छाकामफलप्रान्ते प्रदेसर्वपदं लिखेत् ॥ १५-२ ॥
ततः सत्त्ववशं ब्रूयात्करिसर्वजगत्पदम् ।
क्षोभणान्ते करि ब्रूयाद्धुङ्कारत्रितयं लिखेत् ॥ १५-३ ॥
पञ्च बाणान्समालिख्य संहारेण कुमारिकाम् ।
एषा कामेश्वरी नित्या प्रसङ्गात्कथिताऽद्रिजे ॥ १५-४ ॥
वाग्भवं भगशब्दान्ते भुगे भगिनि चाऽऽलिखेत् ।
भगोदरीति वर्णान्ते१ च भगमाले भगावहे ॥ १५-५ ॥
भगगुह्ये भगप्रान्ते योनिप्रान्ते भगान्तिके ।
निपातिनि च सर्वान्ते ततो भगवशङ्करि ॥ १५-६ ॥
भगरूपे ततो लेख्यं नीरजायतलोचने ।
नित्यक्लिन्ने भगप्रान्ते स्वरूपे सर्व चाऽऽलिखेत् ॥ १५-७ ॥
भगानि मे ह्यानयेति वरदेति समालिखेत् ।
रेत सुरेते भग च क्लिन्ने क्लिन्नद्रवे ततः ॥ १५-८ ॥
क्लेदय द्रावयाथो च सर्वसत्त्वान्भगेश्वरि ।
अमोघे भगविच्चे च क्षुभ क्षोभय सर्व च ॥ १५-९ ॥
सत्त्वान्भगेश्वरि ब्रूयाद्वाग्भवं ब्लूञ्जमादिमम् ।
भेब्लूं भोब्लूं च हेम्ब्लूं च हें क्लिन्ने च ततः परम् ॥ १५-१० ॥
सर्वाणि च भगान्यन्ते मे वशं चाऽऽनयेति च ।
स्त्रीबीजं च हर प्रान्ते बलेमात्मकमक्षरम् ॥ १५-११ ॥
भुवनेशीं समालिख्य विद्येयं भगमालिनी ।
प्रसङ्गात्कथिता पञ्चचत्वारिंशच्छताक्षरी ॥ १५-१२ ॥
पराबीजं समुच्चार्य नित्यक्लिन्ने मदद्रवे ।
अग्निजायान्वितो मन्त्रो नित्यक्लिन्नेयमीरिता ॥ १५-१३ ॥
सर्वसौभाग्यदात्री च सर्वैश्वर्यप्रदायिनी ।
प्रणवं पूर्वमुच्चार्य तथाऽङ्कुशयुगं लिखेत् ॥ १५-१४ ॥
तन्मध्ये विलिखेद्देवि भरोमात्मकमक्षरम् ।
चवर्गमन्त्यहीनं तु विलिखेद्वह्निसंस्थितम् ॥ १५-१५ ॥
चतुर्दशस्वरोपेतं बिन्दुनादाङ्कितं पृथक् ।
वह्निजायान्वितो मन्त्रो भेरुण्डायाः फलप्रदः ॥ १५-१६ ॥
भुवनेशीं समुच्चार्य चतुर्थ्या वह्निवासिनीम् ।
हृदन्तोऽयं मनुर्देवि नित्येयं वह्निवासिनी ॥ १५-१७ ॥
प्रणवं भुवनेशानि फरेमात्मकमक्षरम् ।
सविसर्गः शशी पश्चान्नित्यक्लिन्ने मदद्रवे ॥ १५-१८ ॥
वह्निजायान्विता विद्या सर्वैश्वर्यप्रदायिनी ।
महाविद्येश्वरी नित्या प्रसङ्गेन मयेरिता ॥ १५-१९ ॥
पराबीजं समुच्चार्य शिवदूतीं च ङेयुताम् ।
हृदन्तोऽयं मनुर्देवि दूतीयं सर्वकामदा ॥ १५-२० ॥
ओङ्कारबीजमुच्चार्य परां कवचमालिखेत् ।
खे च छे क्षः समालिख्य स्त्रीबीजं च समालिखेत् ॥ १५-२१ ॥
हूङ्कारं क्षे परा चास्त्रं विद्येयं द्वादशाक्षरी ।
त्वरिता नाम नित्येयं त्रिषु लोकेषु दुर्लभा ॥ १५-२२ ॥
सर्वसिंहासनमयी बालेव कुलसुन्दरी ।
बालया पुटितां कुर्यात्तथा वै नित्यभैरवी ॥ १५-२३ ॥
पञ्च बाणाश्च देवेशी नित्या शक्राक्षरी भवेत् ।
त्रैलोक्यविमला विद्या नित्याख्या परमेश्वरी ॥ १५-२४ ॥
पञ्चाक्षरी बाणबीजैनीत्येयमपरा प्रिये ।
प्रणवं भुवनेशानी फरेमात्मकमक्षरम् ॥ १५-२५ ॥
स्रूमात्मकं द्वितीयं च भुवनेश्यङ्कुशं ततः ।
नित्यशब्दं समुद्धृत्य सम्बुद्ध्या तु मदद्रवाम् ॥ १५-२६ ॥
कवचं चाङ्कुशं पञ्चदशैर्नीलपताकिनी ।
वान्तं कालसमायुक्तं वह्निवायुगतं ततः ॥ १५-२७ ॥
पृथक्पञ्समायुक्तं ततः शक्रस्वरान्वितम् ।
बिन्दुनादाङ्कितं बीजं नित्येयं विजया प्रिये ॥ १५-२८ ॥
चन्द्रवारुणसंयुक्तं तारबीजं समालिखेत् ।
चतुर्थ्या तु ततो देवि विलिखेत्सर्वमङ्गलाम् ॥ १५-२९ ॥
हृदन्तोऽयं मनुर्देवि नित्येयं सर्वमङ्गला ।
तारं हृद्भगवत्यन्ते ज्वालामालिनी देवि च ॥ १५-३० ॥
द्विरुच्चार्य च सर्वान्ते भूतसंहारकारिके ।
जातवेदसि संलिख्य ज्वलन्तिपदयुग्मकम् ॥ १५-३१ ॥
ज्वलेतिप्रज्वलद्वन्द्वं हुङ्कारद्वितयं लिखेत् ।
वह्निबीजत्रयं हुं च अस्त्रस्वाहृन्वितो मनुः ॥ १५-३२ ॥
इयं नित्या महादेवि ज्वालामालिनिका परा ।
कवर्गान्तं स्वरान्तं च शक्रस्वरविभूषितम् ॥ १५-३३ ॥
बिन्दुनादकलाक्रान्तं विचित्रा परमेश्वरी ।
अकारादिषु सर्वेषु स्वरेषु क्रमतो न्यसेत् ॥ १५-३४ ॥
अःस्वरे परमेशानि श्रीविद्यां विश्वमातृकाम् ।
स्वरवद्विन्यसेन्नित्या नीरजायतलोचने ॥ १५-३५ ॥
प्रकटाद्या न्यसेत्पश्चादाधारादिषु मन्त्रवित् ।
स्थितिन्यासं ततः कुर्याच्छ्रीविद्याषोडशाक्षरैः ॥ १५-३६ ॥
पञ्चाङ्गुलीषु करयोर्ब्रह्मरन्ध्रे मुखे हृदि ।
त्रयं विन्यस्य नाभ्यादिपादान्ते चैकमद्रिजे ॥ १५-३७ ॥
गलादिनाभिपर्यन्तमपरं हि ततः परम् ।
ब्रह्मरन्ध्रादिकण्ठान्तमेकं विन्यस्य पादयोः ॥ १५-३८ ॥
अङ्गुलीषु च विन्यस्य न्यासोऽयं स्थितिकारकः ।
सृष्टिन्यासं ततः कुर्यात्सर्वसिद्धिप्रदायकम् ॥ १५-३९ ॥
ब्रह्मरन्ध्रेऽलिके नेत्रश्रुतिघ्राणोष्ठकेषु च ।
दन्तान्तरोर्ध्वके देवि जिह्वायां गलकूपके ॥ १५-४० ॥
पृष्ठे सर्वाङ्गहृदयस्तनकुक्षिषु लिङ्गके ।
श्रीविद्यार्णैर्न्यसेद्देवि मन्त्रं सर्वसमृद्धये ॥ १५-४१ ॥
सर्वाङ्गे विन्यसेत्पश्चाद्व्यापकत्वेन सुन्दरि ।
प्राणानायम्य विधिवन्मुद्रासन्नद्धविग्रहः ॥ १५-४२ ॥
सङ्क्षोभद्रावणाकर्षवश्योन्मादमहाङ्कुशाः ।
खेचरी बीजरूपा च योनिमुद्रेत्यनुक्रमात् ॥ १५-४३ ॥
बीजानि वक्ष्ये क्रमतो मुद्राणां परमेश्वरि ।
पञ्चबाणैः पञ्च मुद्राः क्रोमात्मकमक्षरम् ॥ १५-४४ ॥
आद्यं तु रुद्रभैरव्या बीजं सादाशिवं ततः ।
ततस्तु वाग्भवं देवि क्रमेण हि चतुष्टयम् ॥ १५-४५ ॥
चतुर्मुद्रासु बीजानि नवमुद्रास्वनुक्रमात् ।
अथ वक्ष्ये महेशत्नि मुद्राविवरणं क्रमात् ॥ १५-४६ ॥
वामहस्तेन मुष्टिं तु बद्ध्वा कर्णप्रदेशके ।
तर्जनीं सरलां कृत्वा भ्रामयेत्तन्त्रवित्तमः ॥ १५-४७ ॥
सौभाग्यदण्डिनी मुद्रा न्यासकाले तु सूचिता ।
अन्तरङ्गुष्ठमुष्ट्या तु निरुध्य जगतीमिमाम् ॥ १५-४८ ॥
रिपुजिह्वाग्रहा मुद्रा न्यासकाले तु सूचिता ।
पाणिद्वयं महेशानि परिवर्तनयोगतः ॥ १५-४९ ॥
योजयित्वा तर्जनीभ्यामनामे वारयेत्प्रिये ।
मध्यमे योजयेन्मध्ये कनिष्ठे तदधस्तथा ॥ १५-५० ॥
अङ्गुष्ठावपि संयोज्य त्रिधा युग्मक्रमेण तु ।
त्रिखण्डा नाम मुद्रेयं त्रिपुराह्वानकर्मणि ॥ १५-५१ ॥
विरलौ तु करौ कृत्वा मध्यमे मध्यमे कुरु ।
अङ्गुष्ठाभ्यां कनिष्ठे च सम्पीड्य सरले ततः ॥ १५-५२ ॥
तर्जन्यौ दण्डवत्कुर्यान्मध्यमस्थ ह्यनामिके ।
सर्वसङ्क्षोभिणी मुद्रा त्रैलोक्यक्षोभकारिणी ॥ १५-५३ ॥
मध्यमे तर्जनीयुक्ते सरले स्यात्तदा भवेत् ।
सर्वविद्राविणी मुद्रामोहयेत्सचराचरम् ॥ १५-५४ ॥
मध्यमे तर्जनीयुग्मे वक्रे कुर्यात्सुलोचने ।
एतस्या एव मुद्रायास्तदा कर्षणकारिणी ॥ १५-५५ ॥
विपरीतौ तलौ कृत्वा चाङ्गुली हृन्मुखा यजेत् ।
परिवर्तनमार्गेण क्रमेण निबिडास्ततः ॥ १५-५६ ॥
अङ्गुष्ठावग्रदेशे तु तर्जन्यावङ्कुशाकृती ।
सर्वा एकत्र संयोज्य सर्ववश्यकरी भवेत् ॥ १५-५७ ॥
पुटाञ्जलिकरौ कृत्वा मध्यमागर्भसंस्थिते ।
परस्परकनिष्ठे तु तर्जन्यग्रगते ततः ॥ १५-५८ ॥
अनामिके तु सरले मध्यमामुखदेशगौ ।
अङ्गुष्ठौ परमेशानि सर्वोन्मादनकारिणी ॥ १५-५९ ॥
एतस्या एव मुद्राया अनामातर्जनीक्रमात् ।
अङ्कुशाकारूपा तु मुद्रेयं तु महाङ्कुशा ॥ १५-६० ॥
वामं भुजं दक्षभुजे दक्षिणं वामदेशतः ।
निवेश्य योजयेत्पश्चात्परिवर्त्य क्रमेण हि ॥ १५-६१ ॥
कनिष्ठानामिकायुग्मे तर्जनीभ्यां निरोधयेत् ।
मध्यमे सरले कृत्वा योनिवत्सरलौ ततः ॥ १५-६२ ॥
अङ्गुष्ठौ खेचरी मुद्रा पाथीवस्थानयोजिनी ।
प्रियेयं सर्वदेवानां खेचरत्वप्रदायिनी ॥ १५-६३ ॥
परिवर्त्याञ्जलिं कृत्वा कनिष्ठाग्रगते ततः ।
मध्यमे स्थापयेद्देवि कनिष्ठे धारयेत्ततः ॥ १५-६४ ॥
अनामिकाभ्यां सुदृढं तर्जनीमध्यमायुगम् ।
अङ्गुष्ठाभ्यां समायोज्यमर्धचन्द्राकृतिं प्रिये ॥ १५-६५ ॥
बीजमुद्रेयमाख्याता सर्वानन्दकरी पिरये ।
परिवर्त्य करौ सम्यक्तर्जनीवामने समे ॥ १५-६६ ॥
मध्यमे कुरु तन्मध्ये योजयेत्तदनन्तरम् ।
अन्योन्यानामिके देवि कनिष्ठे तु यथास्थिते ॥ १५-६७ ॥
अङ्गुष्ठाभ्यां योजिताभ्यां योन्याकारं तु कारयेत् ।
योनिमुद्रेयमाख्याता परा त्रैलोक्यमातृका ॥ १५-६८ ॥
एवं विन्यस्तदेहः सन् मुद्रासन्नद्धविग्रहः ।
अन्तर्यागविधिं कुर्याद्येन साक्षात्स्वयं विभुः ॥ १५-६९ ॥

इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे श्रीविद्यान्यासविवरणं नाम
पञ्चदशः पटलः ॥ १५ ॥