१४

अथ चतुर्दशः पटलः

श्रीदेव्युवाच –

चक्रमण्डलमाख्यातं न पूजा तत्र मण्डले ।
कथिता परमेशान श्रोतुमिच्छामि तत्त्वतः ॥ १४-१ ॥

ईश्वर उवाच –

शृणु देवि प्रवक्ष्यामि पूजाविधिमनुत्तमम् ।
तदङ्गकलशादीनां स्थापनं प्रथमं भवेत् ॥ १४-२ ॥
तद्विधानं शृणु प्राज्ञे यथाविधि समासतः ।
मण्डलं वामतः कृत्वा जलेन चतुरस्रकम् ॥ १४-३ ॥
बृहत्कराभ्यां देवेशि तत्राऽऽधारं मनोहरम् ।
सौवर्णरौप्यताम्रादिरचितं पूजयेत्प्रिये ॥ १४-४ ॥
वह्निमण्डलरूपं तु कलादशकमर्चयेत् ।
धूम्रा च नीलवर्णा च कपिला विस्फुलिङ्गिनी ॥ १४-५ ॥
ज्वाला हैमवती कव्यवाहिनी हव्यवाहिनी ।
रौद्री सङ्कषीणी चैव वैश्वानरकला दश ॥ १४-६ ॥
आभिः कलाभिः सहितं वह्निं तत्र प्रपूजयेत् ।
कलशं हेमजं वाऽन्यं स्थापयेत्तत्र सुन्दरि ॥ १४-७ ॥
पूजयेत्सूर्यरूपं तु कलाभिः परमेश्वरि ।
तपिनी तापिनी चैव विबुधा बोधिनी तथा ॥ १४-८ ॥
कलिनी शोषणी चैव वारुण्याकषीणी तथा ।
माया विश्वावती हेमा प्रभा सौरकला इमाः ॥ १४-९ ॥
कलशं तु समापूर्य जलेन कमलेक्षणे ।
तत्रस्थममृतं साक्षाच्चन्द्ररूपं विचिन्तयेत् ॥ १४-१० ॥
चन्द्रमण्डलमभ्यर्च्य कलाभिः सुरवन्दिते ।
अमृता मानसी तुष्टिः पुष्टिः प्रीति रतिस्तथा ॥ १४-११ ॥
श्रीश्च ह्रींश्च स्वधा रात्रिर्ज्योत्स्ना हैमवती तथा ।
छाया च पूणीमा नित्या अमावास्या च षोडशी ॥ १४-१२ ॥
एभिः समभ्यर्च्य मन्त्रैर्यजेदानन्दभैरवम् ।
शिवचन्द्रौ मातृकान्तं कलाशक्राम्बुवह्नयः ॥ १४-१३ ॥
वायुश्च वामकर्णेन योजितो बिन्दुल्लाञ्छितः ।
बीजमेतत्समुच्चार्य तथा चाऽऽनन्दभैरवम् ॥ १४-१४ ॥
ङेन्तं शिखामन्त्रयुक्तं पुनर्बीजं तु संलिखेत् ।
चन्द्रं हित्वाऽऽदिमं कुर्यात्कर्णे वामाक्षि योजयेत् ॥ १४-१५ ॥
सुरादेव्यै ततो वौषडियमानन्दभैरवी ।
अनेन चन्द्रं सम्पूज्य पूजार्हः कलशो भवेत् ॥ १४-१६ ॥
विधाय वामभागे तु चतुरस्रं तु मण्डलम् ।
यन्त्रिकां तत्र संस्थाप्य शङ्खं तत्र विनिक्षिपेत् ॥ १४-१७ ॥
शुद्धोदकेन सम्पूर्य पूजयेत्कारणान्वितम् ।
षडङ्गं तत्र सम्पूज्य सामान्यार्घ्यमिदं प्रिये ॥ १४-१८ ॥
अथ वक्ष्ये महेशानि विशेषार्ध्यस्य लक्षणम् ।
आत्मश्रीचक्रयोर्मध्ये चतुरस्रं तु मण्डलम् ॥ १४-१९ ॥
सामान्यार्घ्यस्य तोयेन देशिको भूमिजानुकः ।
वहत्करोर्ध्वपुटतो यन्त्रिकां तत्र योजयेत् ॥ १४-२० ॥
त्रिकोणवृत्तषट्कोणं चतुरस्रं तु मण्डलम् ।
वह्निं तत्र विचिन्त्याथ पूजयेद्यन्त्रिकामयम् ॥ १४-२१ ॥
पूर्ववत्परमेशानि त्रिकूटां मध्यगां यजेत् ।
व्यस्तकूटैर्यजेत्तत्र त्रिकोणे परमेश्वरि ॥ १४-२२ ॥
द्विरावृत्त्या षडङ्गानि षट्कोणेषु प्रपूजयेत् ।
सौवर्णं राजतं वाऽपि पात्रं संस्थापयेत्प्रिये ॥ १४-२३ ॥
सूर्यरूपं प्रपूज्याथ यन्त्रं पूर्ववदालिखेत् ।
समस्तव्यस्तकूटैस्तु पूजयेत्पूर्वत्क्रमात् ॥ १४-२४ ॥
विशेषेण पयापूर्य चन्द्रं द्रवमयं प्रिये ।
पूर्ववद्यन्त्रमालिख्य त्रिकूटां यन्त्रमध्यगाम् ॥ १४-२५ ॥
त्रिकोणं चिन्तयेत्तत्तु त्रिकूटैः पूजितं प्रिये ।
अकथादित्रिरेखाढ्यं हक्षाभ्यन्तरमुत्तमम् ॥ १४-२६ ॥
द्विरावृत्त्या षडङ्गानि षट्कोणेषु प्रपूजयेत् ।
आत्मानं हंसमनुना आनन्देन च पूजयेत् ॥ १४-२७ ॥
मूलविद्यां यजेत्तत्र षोडशार्णां जपेत्ततः ।
धूपदीपौ निवेद्याथ नमस्कृत्यार्घ्यकं बुधः ॥ १४-२८ ॥
मुद्राः सन्दर्शयेत्तत्र साक्षाद्ब्रह्ममयं भवेत् ।
प्रोक्षयेत्तेन चाऽऽत्मानं पूजोपकरणानि च ॥ १४-२९ ॥
सर्वत्र प्रोक्षणं कुर्यात्सर्वं ब्रह्ममयं भवेत् ।
आत्मानं तु समभ्यर्च्य भूतान्सन्त्रासयेत्ततः ॥ १४-३० ॥
मूलविद्यास्त्रमुच्चार्य दिग्बन्धं स्फोटनादिभिः ।
तन्मुखः सन्नतो देवि भूतशुद्धिं तु पूर्ववत् ॥ १४-३१ ॥
ततो न्यासादिकं कुर्यात्सन्नाहं तु शरीरके ।
करशुद्धिकरीं विद्यां मध्यमादितलान्तकम् ॥ १४-३२ ॥
अङ्गुलीषु द्विरावृत्त्या करशुद्धिरियं प्रिये ।
अत आत्मासनं दद्यात्ततश्चकासन प्रिये ॥ १४-३३ ॥
सर्वमन्त्रासनं दद्यात्साध्यसिद्धासनं यजेत् ।
पादयोर्जङ्घयोर्जान्वोलीङ्गे न्यस्य चतुष्टयम् ॥ १४-३४ ॥
कुमार्यास्रिपुरेशान्याः षडङ्गानि च पूर्ववत् ।
अथ वक्ष्ये महेशानि श्रीविद्यान्यासमुत्तमम् ॥ १४-३५ ॥
सम्पूर्णां चिन्तयेद्विद्यां ब्रह्मरन्ध्रेऽरुणप्रभाम् ।
स्रवत्सुधां षोडशार्णां महासौभाग्यदां स्मरेत् ॥ १४-३६ ॥
वामांसदेशे सौभाग्यदण्डिनीं भ्रामयेत्ततः ।
रिपुजिह्वाग्रहां मुद्रां पादमूले न्यसेत्प्रिये ॥ १४-३७ ॥
त्रैलोक्यस्य त्वहं कर्ता ध्यात्वैवं तिलके न्यसेत् ।
सम्पूर्णामेव वदने वेष्टनत्वेन विन्यसेत् ॥ १४-३८ ॥
पुनः सम्पूर्णया देहे गलोर्घ्वे विन्यसेत्ततः ।
पुनः सम्पूर्णया देहे व्यापकत्वेन विन्यसेत् ॥ १४-३९ ॥
व्यापकान्ते योनिमुद्रां मुखे क्षिप्त्वाऽभिवन्द्य च ।
श्रीविद्यापूर्णरूपोऽयं न्यासः सौभाग्यवर्धनः ॥ १४-४० ॥
परिभ्राम्यानामिकां तु मूर्धानं परितः प्रिये ।
ब्रह्मरन्ध्रे क्षिपेद्देवि मणिबन्धे न्यसेत्ततः ॥ १४-४१ ॥
ललाटेऽनामिका कुर्यात्षोडशार्णा स्मरन्बुधः ।
सम्मोहनाख्यो देवेशि न्यासोऽयं क्षोभकारकः ॥ १४-४२ ॥
त्रैलोक्यमरुणं ध्यायेच्छ्रीविद्यां मनसि स्मरेत् ।
पादयोर्जङ्घयोर्जान्वोः कट्योरन्धुनि पृष्टके ॥ १४-४३ ॥
नाभौ पार्श्वद्वये चैव स्तनयोरंसयोस्तथा ।
कर्णयोर्ब्रह्मरन्ध्रे च वदनेऽक्षिणि पार्वति ॥ १४-४४ ॥
ततः कण्ठप्रदेशे तु करवेष्टनयोः क्रमात् ।
संहारोऽयं महान्यासो बीजैः षोडशभिः क्रमात् ॥ १४-४५ ॥
श्रीविद्याया षोडशार्णैर्न्यासैवीश्वेश्वरो भवेत् ।
सृष्ट्यन्तां विन्यसेद्देवि मातृकां पूर्ववत्प्रिये ॥ १४-४६ ॥
मातृकार्णस्वरूपां च वर्गाष्टकसमन्विताम् ।
वशिनीं मातृकां न्यस्येद् बीजाष्टकसमन्विताम् ॥ १४-४७ ॥
अवर्गान्ते लिखेद्बीजं वह्निफान्तं क्षमान्वितम् ।
वामकर्णविशोभाढ्यं बिन्दुनादाङ्कितं प्रिये ॥ १४-४८ ॥
वशिनीं पूजयेद्वाचां देवतां देवि सुव्रते ।
कवर्गान्ते महेशानि कामेशीबीजमुत्तमम् ॥ १४-४९ ॥
मेरूद्धतं समुच्चार्य वाग्देवीं पूजयेत्ततः ।
च वर्गान्ते धान्तलान्तं क्षमातुर्यस्वरान्वितम् ॥ १४-५० ॥
मोदिनीं पूजयेद्वाचां देवतां तदनन्तरम् ।
टवर्गान्ते वायुतोयं मुखसंस्थं महेश्वरि ॥ १४-५१ ॥
वामकर्णेन्दुबिद्वाढ्यं विमलां वागधीश्वरीम् ।
तवर्गान्ते जमक्ष्माद्यं वामनेत्रविभूषितम् ॥ १४-५२ ॥
बिन्दुनादाङ्कितं बीजं वाग्देवीमरुणां यजेत् ।
पवर्गान्ते व्योमचन्द्रं क्षमातोयाग्निमुख्यकम् ॥ १४-५३ ॥
उकारस्वरसंयुक्तं बिन्दुनादकलाङ्कितम् ।
जयिनीं पूजयेद्वाचां देवतां वीरवन्दिते ॥ १४-५४ ॥
यवर्गान्ते जान्तकालरेफवायुसमन्वितम् ।
ऊमाढ्यं देवतां वाचां सर्वेशीं परिपूजयेत् ॥ १४-५५ ॥
क्षमोवह्निगतं तुर्यं बीजेन परिमण्डितम् ।
बिन्दुनादकलाक्रान्तं कौलिनीं वाचमर्चयेत् ॥ १४-५६ ॥
शवर्गान्ते महेशानि न्यसेत् सर्वार्थसिद्धये ।
शिरोललाटभ्रूमध्यकण्ठहृन्नाभिगोचरे ॥ १४-५७ ॥
आधारे व्यूहकं यावन्न्यसेद्देवीः क्रमात्प्रिये ।
षोढान्यासं ततः कुर्याद्येन ब्रह्माण्डरूपकः ॥ १४-५८ ॥
विराट्स्वरूपी वर्णात्मा शिवः साक्षान्न संशयः ।
गणेशः प्रथमो न्यासः सर्वविघ्नविनाशनः ॥ १४-५९ ॥
अरुणादित्यसङ्काशान्गजवक्त्रांस्रिलोचनान् ।
पाशाङ्कुशवराभीतिकराञ्शक्तिसमन्वितान् ॥ १४-६० ॥
ध्यात्वा प्रविन्यसेद्देवि मातृकान्यासवत्ततः ।
विघ्नेश्वरस्तथा श्रीश्च विघ्नराजस्तथा ह्रिया ॥ १४-६१ ॥
विनायकस्तथा तुष्टिः शान्तियुक्तः शिवोत्तमः ।
विघ्नकृत्पुष्टियुक्तस्तु विघ्नहृच्च सरस्वती ॥ १४-६२ ॥
विघ्नराड्रतियुक्तस्तु मेधावान् गणनायकः ।
एकदन्तश्च कान्तिश्च द्विदन्तः कामिनीयुतः ॥ १४-६३ ॥
गजवक्त्रो मोहिनी च निरञ्जनजटा ततः ।
कपर्दी तु तथा तीव्रा दीर्घवक्त्रस्ततः प्रिये ॥ १४-६४ ॥
ज्वालिनीसहितः पश्चान्नन्दासङ्कर्षणौ ततः ।
वृषध्वजश्च शुभगा गणनाथेन संयुता ॥ १४-६५ ॥
कामरूपिणिका पश्चाद्गजेन्द्रः शुभ्रया युतः ।
शूर्पकर्णस्तु जयिनी त्रिनेत्रः सत्ययाऽन्वितः ॥ १४-६६ ॥
लम्बोदरश्च विघ्नेशी महानादस्वरूपिणी ।
चतुमूत्तीः कामदा च सदाशिवयुता ततः ॥ १४-६७ ॥
मदविह्वलनाम्नी च आमादविकटे ततः ।
दुर्मुखश्च तथा घूर्णा सुमुखो भूतिमांस्ततः ॥ १४-६८ ॥
प्रमोदश्च तथा भूमीरेकपादस्तथा सती ।
द्विजिह्वश्च रमायुक्तः शूरश्चैव तु मानुषी ॥ १४-६९ ॥
वीरेण सहिता पश्चाच्छैलजे मकरध्वजः ।
षण्मुखश्च विकर्णा च वरदो भृकुटी तथा ॥ १४-७० ॥
वामदेवस्तथा लज्जा वक्रतुण्डस्तथा परम् ।
दीर्घघोणान्वितः पश्चाद्विरण्डकधनुर्धरा ॥ १४-७१ ॥
सेनानीर्यामिनीयुक्तो ग्रामणी रात्रिसंयुतः ।
मत्तश्च चण्डिकायुक्तो विमत्तश्च शशिप्रभा ॥ १४-७२ ॥
मत्तवाहनलोले च जटी च चपलेक्षणा ।
शुण्डि ऋज्वीयुतः पश्चात्खड्गी दुर्भगयाऽन्वितः ॥ १४-७३ ॥
वरेण्यश्चैव सुभगा वृषकेतुस्तथा शिवा ।
भक्ष्यप्रियश्च दुर्गा च मेघनादश्च कालिका ॥ १४-७४ ॥
गणेशः कालकुब्जा च गणपो विघ्नहारिणी ।
मातृवर्णैर्न्यसेद्देवि ग्रहन्यासं ततो न्यसेत् ॥ १४-७५ ॥
पद्मरागं सितं रक्तं श्यामं पीतं च पाण्डुरम् ।
धूम्रकृष्णं कृष्णधूम्रं धूम्रधूम्रं विचिन्तयेत् ॥ १४-७६ ॥
रविमुख्यान्कामरूपान्सर्वाभरणभूषितान् ।
वामोरुन्यस्तहस्तांश्च दक्षहस्ताभयप्रदान् ॥ १४-७७ ॥
स्वरैरर्कं हृदि न्यस्य यवर्गेण शशी ततः ।
भ्रूमध्येऽथ कवर्गेण भौमं नेत्रत्रये न्यसेत् ॥ १४-७८ ॥
चवर्गेण बुधो हृत्स्थष्टवर्गेण बृहस्पतिः ।
हृदयोपरि देवेशि तवर्गेण गले भृगुः ॥ १४-७९ ॥
पवर्गेण शनिर्नाभौ राहुर्वक्त्रे शवर्गतः ।
लक्षाभ्यां तु गुदे केतुर्न्यसेदेवं वरानने ॥ १४-८० ॥
अथ नक्षत्रवृन्दस्य न्यासं कुर्यात्सुखप्रदम् ।
ज्वलत्कालाग्निसङ्काशाः सर्वाभरणभूषिताः ॥ १४-८१ ॥
नतिपाण्योऽश्विनीमुख्या वरदाभयपाणयः ।
युग्मं युग्मं तथा युग्मं युग्मयुग्मेन रोहिणीम् ॥ १४-८२ ॥
एकमेकं तथा द्वन्द्वमेकं पुष्यान्तमुच्यते ।
ललाटे चक्षुषोः पश्चाद्वामदक्षिणकर्णयोः ॥ १४-८३ ॥
नासाद्वये च देवेशि तथा कण्ठे क्रमान्न्यसेत् ।
पुष्यान्तं च प्रविन्यस्य खगार्णाभ्यां तु सार्पकम् ॥ १४-८४ ॥
दक्षस्कन्धे घङाभ्यां तु मघां स्कन्धे द्वितीयके ।
चपूर्वाफाल्गुनीं दक्षे कूर्परे छजसंयुताम् ॥ १४-८५ ॥
उत्तरफाल्गुनीं वामे कूर्परे विन्यसेत्प्रिये ।
झञवर्णास्थितो हस्तो मणिबन्धेऽथ दक्षिणे ॥ १४-८६ ॥
चित्रां टठस्थां वामे च मणिबन्धे न्यसेत्प्रिये ।
डकारेण युतां स्वातीं दक्षहस्ते प्रविन्यसेत् ॥ १४-८७ ॥
ढणयुक्तां विशाखां तु वामहस्ते प्रविन्यसेत् ।
तथदस्थानुराधां तु नाभौ विन्यस्य पार्वति ॥ १४-८८ ॥
धकारेण युतां ज्येष्ठां न्यसेद्दक्षकटौ प्रिये ।
नपफस्थं तथा मूलं न्यसेद् वामकटौ प्रिये ॥ १४-८९ ॥
पूर्वाषाढां वकारेण दक्षोरौ विन्यसेत्प्रिये ।
भकारेणोत्तराषाढां वामोरौ तदनन्तरम् ॥ १४-९० ॥
मकारयुक्तं श्रवणं दक्षजानुनि विन्यसेत् ।
यरस्थितां धनिष्ठां तु वामजानुनि विन्यसेत् ॥ १४-९१ ॥
लकारेण ततो देवि शतभिषं न्यसेत्प्रिये ।
दक्षजङ्घागतां पश्चात्पूर्वाभाद्रपदां ततः ॥ १४-९२ ॥
वशवर्णस्थितां न्यस्य वामजङ्घागतां क्रमात् ।
षसहस्थोत्तराभाद्रपदां दक्षिणापादके ॥ १४-९३ ॥
क्षकारेण ततो बिन्दुविसर्गाभ्यां च रेवती ।
वामपादे प्रविन्यस्य योगिनीन्यासमाचरेत् ॥ १४-९४ ॥
सितासितारुणा बभ्रूचित्रापीताश्च चिन्तयेत् ।
चतुर्भुजाः समैर्वक्त्रैः सर्वाभरणभूषिताः ॥ १४-९५ ॥
डाण्डीम्बीजद्वयं चोक्त्वा डमला वरयाः प्रिये ।
वामकर्णेन्दुनादाढ्यं डाकिन्यै नम इत्यपि ॥ १४-९६ ॥
स्वरान्ते तु प्रवक्तव्यं मान्ते रक्षपदद्वयम् ।
त्वगात्मने कण्ठदेशे विशुद्धौ विन्यसेत्पिरये ॥ १४-९७ ॥
कण्ठवर्णै राकिनीं तु रकाराद्यक्षरैः क्रमात् ।
पूर्ववद्बीजसंयुक्तैरसृगात्माऽत्र संवदेत् ॥ १४-९८ ॥
अनाहते न्यसेत्पश्चाड्डकारादिफकारकैः ।
लाकिनी च तथा देवि मांसात्मा मणिपूरके ॥ १४-९९ ॥
बंलंवर्णैः काकिनीं तु स्वाधिष्ठाने तथाविधाम् ।
भेदस्वरूपां विन्यस्य वसवर्णैस्तु साकिनीम् ॥ १४-१०० ॥
अस्थिरूपां च पूर्वोक्तबीजेनाऽऽधारके न्यसेत् ।
हक्षवर्णास्थितां तद्वन्मज्जारूपिणिकां यजेत् ॥ १४-१०१ ॥
भुवोर्मध्ये महेशानि हाकिनीं द्विदले न्यसेत् ।
पूर्ववद्बीजसंयुक्तां तद्वच्छुक्रात्मिकां यजेत् ॥ १४-१०२ ॥
सर्वधातुगतां देवीं शुक्लवर्णां तु याकिनीम् ।
ब्रह्मरन्ध्रे महेशानि न्यासोऽयं योगिनीयुतः ॥ १४-१०३ ॥
राशिन्यासं ततः कुर्यात्सर्वरक्षाकरं सदा ।
रक्तश्वेतहरिद्वर्णपाण्डुचित्राशितान्स्मरेत् ॥ १४-१०४ ॥
पिशङ्गपिङ्गलौ बभ्रुकर्बुरासितधूम्रकान् ।
अकारादिचतुष्केण विन्यसेत्सुरवन्दिते ॥ १४-१०५ ॥
मेषं दक्षिणपद्गुल्फे ततो द्वन्द्वेन वै वृषम् ।
न्यसेज्जानुनि वेदैस्तु मिथुनं वृषणे ततः ॥ १४-१०६ ॥
द्वाभ्यां कर्काटकं कुक्षौ द्वाभ्यां स्कन्धे च सिंहकम् ।
अनुस्वारविसर्गाभ्यां शवर्गेण च कन्यकाम् ॥ १४-१०७ ॥
दक्षिणे तु शिरोभागे विन्यसेद्वीरवन्दिते ।
तथा वामशिरोभागे कवर्गेण तुलाभृतम् ॥ १४-१०८ ॥
चवर्गेण तथा स्कन्धे वृश्चिकं विन्यसेत्प्रिये ।
टवर्गेण तथा कुक्षौ धन्विनं विन्यसेत्प्रिये ॥ १४-१०९ ॥
मकरं तु तवर्गेण वृषणे विन्यसेत्क्रमात् ।
पवर्गेण तथा कुम्भं वामजानुनि विन्यसेत् ॥ १४-११० ॥
यवर्गेणं क्षकारेण मीनं गुल्फेऽथ वामके ।
अथ पीठानि विन्यस्येत्सर्वतीर्थमयानि हि ॥ १४-१११ ॥
सितासितारुणाश्यामहारित्पीतान्यनुक्रमात् ।
पुनः पुनः क्रमाद्देवि पञ्चाशत्पीठसञ्चयः ॥ १४-११२ ॥
पीठानि संस्मरेद्विद्वान् सर्वमातृकया युतान्(?) ।
मातृकार्णैर्न्यसेद्विद्वान् सर्वकामार्थसिद्धये ॥ ११३ ॥
कामरूपं महापीठं पीठं वाराणसीं ततः ।
नेपालं च तथा पीठं तथा वै पौण्ड्र्वर्धनम् ॥ १४-११४ ॥
पुरस्थिरं तथा पीठं चन्द्रस्थिरमतः परम् ।
पूर्णशैलं महापीठमर्बुदं च ततः परम् ॥ १४-११५ ॥
आम्रातकेश्वरं पीठमेकाम्रं च ततः परम् ।
विस्रोतःपीठमनघं कामकोटं ततः परम् ॥ १४-११६ ॥
कैलासभृगुकेदारं पीठं चन्द्रपुरं ततः ।
श्रीपीठं च तथोङ्कारं जालन्धरमतः परम् ॥ १४-११७ ॥
मालवं च ततः पीठं कुलान्तं देवकोटकम् ।
गोकर्णं च महापीठं मारुतेश्वरमेव च ॥ १४-११८ ॥
अट्टहासं च विरजं राजगेहं महापथम् ।
पीठं कोल्लगिरिं प्रोक्तमेलापुरमतः परम् ॥ १४-११९ ॥
कामेश्वरं महापीठं महापीठं जयन्तिका ।
पीठमुज्जयनी चैव चरित्रं क्षीरकाभिधम् ॥ १४-१२० ॥
हस्तिनापुरपीठं च उड्डीशं च प्रयागकम् ।
षष्ठीशं पीठश्रीशैलं मायापूरजलेश्वरम् ॥ १४-१२१

मलयं च महापीठं श्रीशैलं मेरुकं गिरिम् ।
महेन्द्रं वामनं चैव हिरण्यपुरमेव च ॥ १४-१२२ ॥
महालक्ष्मीमयं पीठमुड्डीयानमतः परम् ।
छायाच्छत्रपुरं पीठं तथैव परमेश्वरि ॥ १४-१२३ ॥
पञ्चाशत्पीठविन्यासं मातृकाविन्न्यसेत् सदा ।
षोढान्यासो महादेवि न्यस्त्वा साक्षात्स्वयं शिवः ॥ १४-१२४ ॥
अथ कामान्न्यसेद्देवी दाडिमीकुसुमप्रभान् ।
वामाङ्कशक्तिसहितान्पुष्पबाणेक्षुकार्मुकान् ॥ १४-१२५ ॥
शक्तयः कुङ्कुमनिभाः सर्वाभरणभूषिताः ।
नीलोत्पलकरा ध्येयास्त्रैलोक्याकर्षणक्षमाः ॥ १४-१२६ ॥
न्यसेत्कामरतिं पश्चात्कामप्रीतिं सुरेश्वरि ।
कान्तश्च कामिनीयुक्तो भ्रान्तो वै मोहिनीयुतः ॥ १४-१२७ ॥
कामाङ्गः कमले तद्वत्कामचारो विलासिनी ।
कर्णकल्पलते तद्वत्कोमलश्यामले तथा ॥ १४-१२८ ॥
कामवर्धनसंयुक्ता विज्ञेया तु शुचिस्मिता ।
कामश्च विस्मितायुक्तो विशालाक्षीयुतो रमः ॥ १४-१२९ ॥
रमणो लेलिहायुक्ता रतिनाथदिगम्बरे ।
रतिप्रियश्च वामा च रात्रिनाथश्च कुब्जिका ॥ १४-१३० ॥
स्मरेण च युता कान्ता रमणः सत्यया युतः ।
निशाचरश्च कल्याणी नन्दनो भोगिनी तथा ॥ १४-१३१ ॥
नन्दकः कामदायुक्तो मदनश्च सुलोचना ।
सुलावण्यायुतो देवि तथा नन्दसुताभिधः ॥ १४-१३२ ॥
निशाचरश्च मदीन्या रतिर्हंसस्ततः परम् ।
कलहः प्रियया युक्तः पुष्पधन्वा च काङ्क्षिणी ॥ १४-१३३ ॥
महाधनुश्च सुमुखा ग्रामणीर्नलिनीयुतः ।
भीमश्च जटिनीयुक्तो भ्रामणः पालिनीयुतः ॥ १४-१३४ ॥
भ्रमणः शिखिनीयुक्तो शान्तमुग्धे ततः परम् ।
भ्रामणो रमया युक्तो भृगुर्भूमा ततः परम् ॥ १४-१३५ ॥
भ्रान्तश्चामरलोला च भ्रमावहसुचञ्चले ।
मोहनो दीर्घजिह्वा च मोचकश्च तथा सती ॥ १४-१३६ ॥
तथा मुग्धश्च लोलाक्षी मोहमर्दनभृङ्गिणी ।
मोहकश्च चपेटा च मन्मथो नाथया युतः ॥ १४-१३७ ॥
मातङ्गमालिनीयुग्मं भृङ्गा च कलहंसिनी ।
गायकेन समायुक्ता तथा वै विश्वतोमुखी ॥ १४-१३८ ॥
गजःनन्दिकया युक्तो गीतिश्च तदनन्तरम् ।
नर्तकः सह रञ्जिन्या खेलः कान्तिसमन्वितः ॥ १४-१३९ ॥
उन्मत्तः कलकण्ठे च मत्तकश्च वृकोदरी ।
मेघः श्यामान्वितो देवी विमलश्रीः क्रमात्प्रिये ॥ १४-१४० ॥
मातृकार्णैर्न्यसेद्देवि मातृकावत्सदाऽनघे ।
अनेन न्यासयोगेन त्रैलोक्यक्षोभको भवेत् ॥ १४-१४१ ॥
बालायास्रिपुरेशान्या नवयोन्यङ्कितं न्यसेत् ।
श्रोत्रयोश्चुबुके चैव शङ्खास्येषु दृशोर्नसि ॥ १४-१४२ ॥
अंसद्वये च हृदये न्यसेत्कूर्परकुक्षिषु ।
जान्वन्धुपादगुह्येषु पार्श्वहृत्सु स्तनद्वये ॥ १४-१४३ ॥
कण्ठे च नवयोन्याख्यं न्यसेद्बीजत्रयात्मकम् ।
पुनर्बालां समुच्चार्य षोडशार्णां प्रविन्यसेत् ॥ १४-१४४ ॥
पुनर्बालां समुच्चार्य चतुरस्रं च चिन्तयेत् ।
गोलकं न्यासयोगेन श्रीचक्रं परिचिन्तयेत् ॥ १४-१४५ ॥
षट्चक्रेषु ललाटे च सीमन्ते च शिरोबिले ।
नव स्थानानि सङ्कल्प्य न्यसेद्देवि ततः परम् ॥ १४-१४६ ॥
श्रीविद्यां ब्रह्मरन्ध्रे च पृष्ठतो गुरवः क्रमात् ।
तिथिनित्यास्ततो देवि मातृकास्वरसंयुताः ॥ १४-१४७ ॥
मातृकावन्न्यसेद्वक्त्रे सर्वसौभाग्यदायकाः ॥ १४-१४८ ॥

इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे श्रीविद्यान्यासविधानं नाम
चतुर्दशः पटलः ॥ १४ ॥